Sri Kalika Swaroopa Stuti – श्री कालिका स्वरूप स्तुतिः


सिततरसंविदवाप्यं सदसत्कलनाविहीनमनुपाधि ।
जयति जगत्त्रयरूपं नीरूपं देवि ते रूपम् ॥ १ ॥

एकमनेकाकारं प्रसृतजगद्व्याप्तिविकृतिपरिहीनम् ।
जयति तवाद्वयरूपं विमलमलं चित्स्वरूपाख्यम् ॥ २ ॥

जयति तवोच्छलदन्तः स्वच्छेच्छायाः स्वविग्रहग्रहणम् ।
किमपि निरुत्तरसहजस्वरूपसंवित्प्रकाशमयम् ॥ ३ ॥

वान्त्वा समस्तकालं भूत्या झङ्कारघोरमूर्तिमपि ।
निग्रहमस्मिन् कृत्वानुग्रहमपि कुर्वती जयसि ॥ ४ ॥

कालस्य कालि देहं विभज्य मुनिपञ्चसङ्ख्यया भिन्नम् ।
स्वस्मिन् विराजमानं तद्रूपं कुर्वती जयसि ॥ ५ ॥

भैरवरूपी कालः सृजति जगत्कारणादिकीटान्तम् ।
इच्छावशेन यस्याः सा त्वं भुवनाम्बिका जयसि ॥ ६ ॥

जयति शशाङ्कदिवाकरपावकधामत्रयान्तरव्यापि ।
जननि तव किमपि विमलं स्वरूपरूपं परन्धाम ॥ ७ ॥

एकं स्वरूपरूपं प्रसरस्थितिविलयभेदस्त्रिविधम् ।
प्रत्येकमुदयसंस्थितिलयविश्रमतश्चतुर्विधं तदपि ॥ ८ ॥

इति वसुपञ्चकसङ्ख्यं विधाय सहजस्वरूपमात्मीयम् ।
विश्वविवर्तावर्तप्रवर्तक जयति ते रूपम् ॥ ९ ॥

सदसद्विभेदसूतेर्दलनपरा कापि सहजसंवित्तिः ।
उदिता त्वमेव भगवति जयसि जयाद्येन रूपेण ॥ १० ॥

जयति समस्तचराचरविचित्रविश्वप्रपञ्चरचनोर्मि ।
अमलस्वभावजलधौ शान्तं कान्तं च ते रूपम् ॥ ११ ॥

सहजोल्लासविकासप्रपूरिताशेषविश्वविभवैषा ।
पूर्णा तवाम्ब मूर्तिर्जयति परानन्दसम्पूर्णा ॥ १२ ॥

कवलितसकलजगत्रयविकटमहाकालकवलनोद्युक्ता ।
उपभुक्तभावविभवप्रभवापि कृशोदरी जयसि ॥ १३ ॥

रूपत्रयपरिवर्जितमसमं रूपत्रयान्तरव्यापि ।
अनुभवरूपमरूपं जयति परं किमपि ते रूपम् ॥ १४ ॥

अव्ययमकुलममेयं विगलितसदसद्विवेककल्लोलम् ।
जयति प्रकाशविभवस्फीतं काल्याः परं धाम ॥ १५ ॥

ऋतुमुनिसङ्ख्यं रूपं विभज्य पञ्चप्रकारमेकैकम् ।
दिव्यौघमुद्गिरन्ती जयति जगत्तारिणी जननी ॥ १६ ॥

भूदिग्गोखगदेवीचक्रसञ्ज्ञानविभवपरिपूर्णम् ।
निरुपमविश्रान्तिमयं श्रीपीठं जयति ते रूपम् ॥ १७ ॥

प्रलयलयान्तरभूमौ विलसितसदसत्प्रपञ्चपरिहीनाम् ।
देवि निरुत्तरतरां नौमि सदा सर्वतः प्रकटाम् ॥ १८ ॥

यादृङ्महाश्मशाने दृष्टं देव्याः स्वरूपमकुलस्थम् ।
तादृग् जगत्रयमिदं भवतु तवाम्ब प्रसादेन ॥ १९ ॥

इत्थं स्वरूपस्तुतिरभ्यधायि
सम्यक्समावेशदशावशेन ।
मया शिवेनास्तु शिवाय सम्यक्
ममैव विश्वस्य तु मङ्गलाय ॥ २० ॥

इति श्रीश्रीज्ञाननेत्रपाद रचितं श्री कालिका स्वरूप स्तुतिः ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed