Sri Adya Kalika Shatanama Stotram – श्री आद्या कालिका शतनाम स्तोत्रम्


श्रीसदाशिव उवाच ।
शृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम् ।
पठनाच्छ्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ १ ॥

असौभाग्यप्रशमनं सुखसम्पद्विवर्धनम् ।
अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ २ ॥

श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् ।
स्तवस्यास्य प्रसीदेन त्रिपुरारिरहं प्रिये ॥ ३ ॥

स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः ।
छन्दोऽनुष्टुब्देवताद्या कालिका परिकीर्तिता ।
धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्तितः ॥ ४ ॥

अथ स्तोत्रम् –
ह्रीं काली श्रीं कराली च क्रीं कल्याणी कलावती ।
कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ ५ ॥

कालिका कालमाता च कालानलसमद्युतिः ।
कपर्दिनी करालास्या करुणामृतसागरा ॥ ६ ॥

कृपामयी कृपाधारा कृपापारा कृपागमा ।
कृशानुः कपिला कृष्णा कृष्णानन्दविवर्धिनी ॥ ७ ॥

कालरात्रिः कामरूपा कामपाशविमोचिनी ।
कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ ८ ॥

कुमारीपूजनप्रीता कुमारीपूजकालया ।
कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ ९ ॥

कदम्बवनसञ्चारा कदम्बवनवासिनी ।
कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ १० ॥

किशोरी कलकण्ठा च कलनादनिनादिनी ।
कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ ११ ॥

कपालपात्रनिरता कङ्कालमाल्यधारिणी ।
कमलासनसन्तुष्टा कमलासनवासिनी ॥ १२ ॥

कमलालयमध्यस्था कमलामोदमोदिनी ।
कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥ १३ ॥

कामरूपकृतावासा कामपीठविलासिनी ।
कमनीया कल्पलता कमनीयविभूषणा ॥ १४ ॥

कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी ।
कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ १५ ॥

कारणानन्दजापेष्टा कारणार्चनहर्षिता ।
कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ १६ ॥

कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला ।
कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ १७ ॥

कस्तूरीदाहजननी कस्तूरीमृगतोषिणी ।
कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥ १८ ॥

कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता ।
कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥ १९ ॥

कर्पूरसागरस्नाता कर्पूरसागरालया ।
कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥ २० ॥

कुलीना कौलिकाराध्या कौलिकप्रियकारिणी ।
कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥ २१ ॥

काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ।
काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ २२ ॥

कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा ।
काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥ २३ ॥

कामबीजजपानन्दा कामबीजस्वरूपिणी ।
कुमतिघ्नी कुलीनार्तिनाशिनी कुलकामिनी ॥ २४ ॥

क्रीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी ।
इत्याद्याकालिकादेव्याः शतनाम प्रकीर्तितम् ॥ २५ ॥

ककारकूटघटितं कालीरूपस्वरूपकम् ।
पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥ २६ ॥

मन्त्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति ।
बुद्धिं विद्यां च लभते गुरोरादेशमात्रतः ॥ २७ ॥

धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः ।
पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥ २८ ॥

भौमावास्यानिशाभागे मपञ्चकसमन्वितः ।
पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥ २९ ॥

पठित्वा शतनामानि साक्षात्कालीमयो भवेत् ।
नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥ ३० ॥

विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् ।
समुद्र इव गाम्भीर्ये बले च पवनोपमः ॥ ३१ ॥

तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवच्छुभदर्शनः ।
रूपे मूर्तिधरः कामो योषितां हृदयङ्गमः ॥ ३२ ॥

सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ।
यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥ ३३ ॥

तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ।
रणे राजकुले द्यूते विवादे प्राणसङ्कटे ॥ ३४ ॥

दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा ।
अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ॥ ३५ ॥

ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले ।
बालग्रहादि रोगे च तथा दुःस्वप्नदर्शने ॥ ३६ ॥

दुस्तरे सलिले वापि पोते वातविपद्गते ।
विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ॥ ३७ ॥

यः पठेच्छतनामानि दृढभक्तिसमन्वितः ।
सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ॥ ३८ ॥

न पापेभ्यो भयं तस्य न रोगोभ्यो भयं क्वचित् ।
सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥ ३९ ॥

तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः ।
स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ॥ ४० ॥

स कर्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः ।
वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥ ४१ ॥

तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः ।
दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ॥ ४२ ॥

आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् ।
अष्टोत्तरशतावृत्या पुरश्चर्याऽस्य गीयते ॥ ४३ ॥

पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् ।
शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ॥ ४४ ॥

पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि ।
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ ४५ ॥

इति महानिर्वाणतन्त्रे सप्तमोल्लासान्तर्गतं श्री आद्या कालिका शतनाम स्तोत्रम् ॥


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed