Devi Narayaniyam Dasakam 20 – विंश दशकम् (२०) – देवकीपुत्रवधम्


अथोरुपुण्ये मथुरापुरे तु
विभूषिते मौक्तिकमालिकाभिः ।
श्रीदेवकीशौरिविवाहरङ्गे
सर्वैः श्रुतं व्योमवचः स्फुटार्थम् ॥ २०-१ ॥

अवेहि भो देवकनन्दनायाः
सुतोऽष्टमः कंस तवान्तकः स्यात् ।
श्रुत्वेति तां हन्तुमसिं दधानः
कंसो निरुद्धो वसुदेवमुख्यैः ॥ २०-२ ॥

अथाह शौरिः शृणु कंस पुत्रान्
ददामि तेऽस्याः शपथं करोमि ।
एतद्वचो मे व्यभिचर्यते चे-
-न्मत्पूर्वजाता नरके पतन्तु ॥ २०-३ ॥

श्रद्धाय शौरेर्वचनं प्रशान्त-
-स्तां देवकीं भोजपतिर्मुमोच ।
सर्वे च तुष्टा यदवो नगर्यां
तौ दम्पती चोषतुरात्तमोदम् ॥ २०-४ ॥

काले सती पुत्रमसूत तातः
कंसाय निश्शङ्कमदात्सुतं स्वम् ।
हन्ता न मेऽयं शिशुरित्युदीर्य
तं प्रत्यदाद्भोजपतिश्च तस्मै ॥ २०-५ ॥

अथाशु भूभारविनाशनाख्य-
-त्वन्नाटकप्रेक्षणकौतुकेन ।
श्रीनारदः सर्वविदेत्य कंस-
-मदृश्यहासं सकलं जगाद ॥ २०-६ ॥

त्वं भूप दैत्यः खलु कालनेमि-
-र्जगत्प्रसिद्धो हरिणा हतश्च ।
ततोऽत्र जातोऽसि सुरा हरिश्च
त्वां हन्तुमिच्छन्त्यधुनाऽपि शत्रुम् ॥ २०-७ ॥

देवास्तदर्थं नररूपिणोऽत्र
व्रजे च जाता वसुदेवमुख्याः ।
नन्दादयश्च त्रिदशा इमे न
विस्रम्भणीया न च बान्धवास्ते ॥ २०-८ ॥

त्वं व्योमवाणीं स्मर देवकस्य
पुत्र्याः सुतेष्वष्टमतां गतः सन् ।
स त्वां निहन्ता हरिरेव शत्रु-
-रल्पोऽपि नोपेक्ष्य इतीर्यते हि ॥ २०-९ ॥

सर्वात्मजानां नृप मेलनेऽस्याः
सर्वेऽष्टमाः स्युः प्रथमे च सर्वे ।
मायाविनं विद्धि हरिं सदेति
गते मुनौ क्रोधमियाय कंसः ॥ २०-१० ॥

स देवकीसूनुमरं जघान
कारागृहे तां पतिमप्यबध्नात् ।
तयोः सुतान् षट् खलु जातमात्रान्
हत्वा कृतं स्वं हितमेव मेने ॥ २०-११ ॥

कायेन वाचा मनसेन्द्रियैर्वा
मा जातु पापं करवाणि देवि ।
ममास्तु सत्कर्मरतिः प्रियस्ते
भवानि भक्तं कुरु मां नमस्ते ॥ २०-१२ ॥

एकविंश दशकम् (२१) – नन्दसुतावतारम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।

Report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed
%d bloggers like this: