Chitti Pannam – चित्ति पन्नम्


(कृष्णयजुर्वेदीय तैत्तिरीयारण्यके तृतीय प्रपाठकः)

हरिः ओं । तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

ओं चित्ति॒स्स्रुक् । चि॒त्तमाज्य᳚म् । वाग्वेदि॑: । आधी॑तं ब॒र्हिः । केतो॑ अ॒ग्निः । विज्ञा॑तम॒ग्निः । वाक्प॑ति॒र्होता᳚ । मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा᳚ध्व॒र्युः । वाच॑स्पते विधे नामन् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वा॒चस्पति॒स्सोमं॑ पिबतु । आऽस्मासु॑ नृ॒म्णं धा॒त्स्वाहा᳚ ॥ १ ॥
अ॒ध्व॒र्युः पञ्च॑ च ॥ १ ॥

पृ॒थि॒वी होता᳚ । द्यौर॑ध्व॒र्युः । रु॒द्रो᳚ऽग्नीत् । बृह॒स्पति॑रुपव॒क्ता । वाच॑स्पते वा॒चो वी॒र्ये॑ण । संभृ॑ततमे॒नाऽऽय॑क्ष्यसे । यज॑मानाय॒ वार्य᳚म् । आ सुव॒स्कर॑स्मै । वा॒चस्पति॒स्सोमं॑ पिबति । ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा᳚ ॥ २ ॥
पृ॒थि॒वी होता॒ दश॑ ॥ २ ॥

अ॒ग्निर्होता᳚ । अ॒श्विना᳚ऽध्व॒र्यू । त्वष्टा॒ऽग्नीत् । मि॒त्र उ॑पव॒क्ता । सोम॒स्सोम॑स्य पुरो॒गाः । शु॒क्रस्शु॒क्रस्य॑ पुरो॒गाः । श्रा॒तास्त॑ इन्द्र॒ सोमा᳚: । वाता॑पेर्हवन॒श्रुत॒स्स्वाहा᳚ ॥ ३ ॥
अ॒ग्निर्होता॒ऽष्टौ ॥ ३ ॥

सूर्यं॑ ते॒ चक्षु॑: । वातं॑ प्रा॒णः । द्यां पृ॒ष्ठम् । अ॒न्तरि॑क्षमा॒त्मा । अङ्गै᳚र्य॒ज्ञम् । पृ॒थि॒वीग्ं शरी॑रैः । वाच॑स्प॒तेऽच्छि॑द्रया वा॒चा । अच्छि॑द्रया जु॒ह्वा᳚ । दि॒वि दे॑वा॒वृध॒ग्ं॒ होत्रा॒ मेर॑यस्व॒ स्वाहा᳚ ॥ ४ ॥
सूर्यं॑ ते॒ नव॑ ॥ ४ ॥

म॒हाह॑वि॒र्होता᳚ । स॒त्यह॑विरध्व॒र्युः । अच्यु॑तपाजा अ॒ग्नीत् । अच्यु॑तमना उपव॒क्ता । अ॒ना॒धृ॒ष्यश्चा᳚प्रतिधृ॒ष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ । अ॒यास्य॑ उद्गा॒ता । वाच॑स्पते हृद्विधे नामन् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वा॒चस्पति॒स्सोम॑मपात् । मा दैव्य॒स्तन्तु॒श्छेदि॒ मा म॑नु॒ष्य॑: । नमो॑ दि॒वे । नम॑: पृथि॒व्यै स्वाहा᳚ ॥ ५ ॥
अ॒पा॒त्त्रीणि॑ च ॥ ५ ॥

वाग्घोता᳚ । दी॒क्षा पत्नी᳚ । वातो᳚ऽध्व॒र्युः । आपो॑ऽभिग॒रः । मनो॑ ह॒विः । तप॑सि जुहोमि । भूर्भुव॒स्सुव॑: । ब्रह्म॑ स्वयं॒भु । ब्रह्म॑णे स्वयं॒भुवे॒ स्वाहा᳚ ॥ ६ ॥
वाग्घोता॒ नव॑ ॥ ६ ॥

ब्रा॒ह्म॒ण एक॑होता । स य॒ज्ञः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यश॑: । य॒ज्ञश्च॑ मे भूयात् । अ॒ग्निर्द्विहो॑ता । स भ॒र्ता । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यश॑: । भ॒र्ता च॑ मे भूयात् । पृ॒थि॒वी त्रिहो॑ता । स प्र॑ति॒ष्ठा ॥ ७ ॥

स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यश॑: । प्र॒ति॒ष्ठा च॑ मे भूयात् । अ॒न्तरि॑क्षं॒ चतु॑र्होता । स वि॒ष्ठाः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यश॑: । वि॒ष्ठाश्च॑ मे भूयात् । वा॒युः पञ्च॑होता । स प्रा॒णः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यश॑: । प्रा॒णश्च॑ मे भूयात् ॥ ८ ॥

च॒न्द्रमा॒: षड्ढो॑ता । स ऋ॒तून्क॑ल्पयाति । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यश॑: । ऋ॒तव॑श्च मे कल्पन्ताम् । अन्नग्ं॑ स॒प्तहो॑ता । स प्रा॒णस्य॑ प्रा॒णः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यश॑: । प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात् । द्यौर॒ष्टहो॑ता । सो॑ऽनाधृ॒ष्यः ॥ ९ ॥

स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यश॑: । अ॒ना॒धृ॒ष्यश्च॑ भूयासम् । आ॒दि॒त्यो नव॑होता । स ते॑ज॒स्वी । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यश॑: । ते॒ज॒स्वी च॑ भूयासम् । प्र॒जाप॑ति॒र्दश॑होता । स इ॒दग्ं सर्व᳚म् । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यश॑: । सर्वं॑ च मे भूयात् ॥ १० ॥

प्र॒ति॒ष्ठा प्रा॒णश्च॑ मे भूयादनाधृ॒ष्यस्सर्वं च मे भूयात् ॥ ब्रा॒ह्म॒णो य॒ज्ञो᳚ऽग्निर्भ॒र्ता पृ॑थि॒वी प्र॑ति॒ष्ठाऽन्तरि॑क्षं वि॒ष्ठा वा॒युः प्रा॒णश्च॒न्द्रमा॑ स ऋ॒तूनन्न॒ग्ं॒ स प्रा॒णस्य॑ प्रा॒णो द्यौर॑नाधृ॒ष्य आ॑दि॒त्यस्स ते॑ज॒स्वी प्र॒जाप॑ति॒: स इ॒दग्ं सर्व॒ग्ं॒ सर्वं॑ च मे भूयात् ॥

अ॒ग्निर्यजु॑र्भिः । स॒वि॒ता स्तोमै᳚: । इन्द्र॑ उक्थाम॒दैः । मि॒त्रावरु॑णावा॒शिषा᳚ । अङ्गि॑रसो॒ धिष्णि॑यैर॒ग्निभि॑: । म॒रुत॑स्सदोहविर्धा॒नाभ्या᳚म् । आप॒: प्रोक्ष॑णीभिः । ओष॑धयो ब॒र्हिषा᳚ । अदि॑ति॒र्वेद्या᳚ । सोमो॑ दी॒क्षया᳚ ॥ ११ ॥

त्वष्टे॒ध्मेन॑ । विष्णु॑र्य॒ज्ञेन॑ । वस॑व॒ आज्ये॑न । आ॒दि॒त्या दक्षि॑णाभिः । विश्वे॑ दे॒वा ऊ॒र्जा । पू॒षा स्व॑गाका॒रेण॑ । बृह॒स्पति॑: पुरो॒धया᳚ । प्र॒जाप॑तिरुद्गी॒थेन॑ । अ॒न्तरि॑क्षं प॒वित्रे॑ण । वा॒युः पात्रै᳚: । अ॒हग्ग्‍ं श्र॒द्धया᳚ ॥ १२ ॥
दी॒क्षया॒ पात्रै॒रेकं॑ च ॥ ८ ॥

सेनेन्द्र॑स्य । धेना॒ बृह॒स्पते᳚: । प॒थ्या॑ पू॒ष्णः । वाग्वा॒योः । दी॒क्षा सोम॑स्य । पृ॒थि॒व्य॑ग्नेः । वसू॑नां गाय॒त्री । रु॒द्राणां᳚ त्रि॒ष्टुक् । आ॒दि॒त्यानां॒ जग॑ती । विष्णो॑रनु॒ष्टुक् ॥ १३ ॥

वरु॑णस्य वि॒राट् । य॒ज्ञस्य॑ प॒ङ्क्तिः । प्र॒जाप॑ते॒रनु॑मतिः । मि॒त्रस्य॑ श्र॒द्धा । स॒वि॒तुः प्रसू॑तिः । सूर्य॑स्य॒ मरी॑चिः । च॒न्द्रम॑सो रोहि॒णी । ऋषी॑णामरुन्ध॒ती । प॒र्जन्य॑स्य वि॒द्युत् । चत॑स्रो॒ दिश॑: । चत॑स्रोऽवान्तरदि॒शाः । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चाप॑चितिश्च । आप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च दे॒वानां॒ पत्न॑यः ॥ १४ ॥
अ॒नु॒ष्टुग्दिश॒ष्षट्च॑ ॥ ९ ॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्यां॒ प्रति॑गृह्णामि । राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्यम् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे । क इ॒दं कस्मा॑ अदात् । काम॒: कामा॑य । कामो॑ दा॒ता ॥ १५ ॥

काम॑: प्रतिग्रही॒ता । कामग्ं॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते᳚ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा᳚ऽऽङ्गीर॒सः प्रति॑गृह्णातु । सोमा॑य॒ वास॑: । रु॒द्राय॒ गाम् । वरु॑णा॒याश्व᳚म् । प्र॒जाप॑तये॒ पुरु॑षम् ॥ १६ ॥

मन॑वे॒ तल्प᳚म् । त्वष्ट्रे॒ऽजाम् । पू॒ष्णेऽवि᳚म् । निरृ॑त्या अश्वतरगर्द॒भौ । हि॒मव॑तो ह॒स्तिन᳚म् । ग॒न्ध॒र्वा॒प्स॒राभ्य॑स्स्रगलङ्कर॒णे । विश्वे᳚भ्यो दे॒वेभ्यो॑ धा॒न्यम् । वा॒चेऽन्न᳚म् । ब्रह्म॑ण ओद॒नम् । स॒मु॒द्रायाप॑: ॥ १७ ॥

उ॒त्ता॒नाया᳚ङ्गीर॒सायान॑: । वै॒श्वा॒न॒राय॒ रथ᳚म् । वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हत् । दि॒वः पृ॒ष्ठं भन्द॑मानस्सु॒मन्म॑भिः । स पू᳚र्व॒वज्ज॒नय॑ज्ज॒न्तवे॒ धन᳚म् । स॒मा॒नम॑ज्मा॒ परि॑याति॒ जागृ॑विः । राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे वैश्वान॒राय॒ रथ᳚म् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे ॥ १८ ॥

क इ॒दं कस्मा॑ अदात् । काम॒: कामा॑य । कामो॑ दा॒ता । काम॑: प्रतिग्रही॒ता । कामग्ं॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते᳚ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा᳚ऽऽङ्गीर॒सः प्रति॑गृह्णातु ॥ १९ ॥
दा॒ता पुरु॑ष॒माप॑: प्रतिग्रही॒त्रे नव॑ च ॥ १० ॥

सु॒वर्णं॑ घ॒र्मं परि॑वेद वे॒नम् । इन्द्र॑स्या॒ऽऽत्मानं॑ दश॒धा चर॑न्तम् । अ॒न्तस्स॑मु॒द्रे मन॑सा॒ चर॑न्तम् । ब्रह्माऽन्व॑विन्द॒द्दश॑होतार॒मर्णे᳚ । अ॒न्तः प्रवि॑ष्टश्शा॒स्ता जना॑नाम् । एक॒स्सन्ब॑हु॒धा वि॑चारः । श॒तग्ं शु॒क्राणि॒ यत्रैकं॒ भव॑न्ति । सर्वे॒ वेदा॒ यत्रैकं॒ भव॑न्ति । सर्वे॒ होता॑रो॒ यत्रैकं॒ भव॑न्ति । स॒ मान॑सीन आ॒त्मा जना॑नाम् ॥ २० ॥

अ॒न्तः प्रवि॑ष्टश्शा॒स्ता जना॑ना॒ग्ं॒ सर्वा᳚त्मा । सर्वा᳚: प्र॒जा यत्रैकं॒ भव॑न्ति । चतु॑र्होतारो॒ यत्र॑ स॒म्पदं॒ गच्छ॑न्ति दे॒वैः । स॒ मान॑सीन आ॒त्मा जना॑नाम् । ब्रह्मेन्द्र॑म॒ग्निं जग॑तः प्रति॒ष्ठाम् । दि॒व आ॒त्मानग्ं॑ सवि॒तारं॒ बृह॒स्पति᳚म् । चतु॑र्होतारं प्र॒दिशोऽनु॑क्लृ॒प्तम् । वा॒चो वी॒र्यं॑ तप॒साऽन्व॑विन्दत् । अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । त्वष्टा॑रग्ं रू॒पाणि॑ विकु॒र्वन्तं॑ विप॒श्चिम् ॥ २१ ॥

अ॒मृत॑स्य प्रा॒णं य॒ज्ञमे॒तम् । चतु॑र्होतृणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युः । अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । दे॒वानां॒ बन्धु॒ निहि॑तं॒ गुहा॑सु । अ॒मृते॑न क्लृ॒प्तं य॒ज्ञमे॒तम् । चतु॑र्होतृणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युः । श॒तं नि॒युत॒: परि॑वेद॒ विश्वा॑ वि॒श्ववा॑रः । विश्व॑मि॒दं वृ॑णाति । इन्द्र॑स्या॒ऽऽत्मा निहि॑त॒: पञ्च॑होता । अ॒मृतं॑ दे॒वाना॒मायु॑: प्र॒जाना᳚म् ॥ २२ ॥

इन्द्र॒ग्ं॒ राजा॑नग्ं सवि॒तार॑मे॒तम् । वा॒योरा॒त्मानं॑ क॒वयो॒ निचि॑क्युः । र॒श्मिग्ं र॑श्मी॒नां मध्ये॒ तप॑न्तम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति । य आ᳚ण्डको॒शे भुव॑नं बि॒भर्ति॑ । अनि॑र्भिण्ण॒स्सन्नथ॑ लो॒कान् वि॒चष्टे᳚ । यस्या᳚ण्डको॒शग्ं शुष्म॑मा॒हुः प्रा॒णमुल्ब᳚म् । तेन॑ क्लृ॒प्तो॑ऽमृते॑ना॒हम॑स्मि । सु॒वर्णं॒ कोश॒ग्ं॒ रज॑सा॒ परी॑वृतम् । दे॒वानां᳚ वसु॒धानीं᳚ वि॒राज᳚म् ॥ २३ ॥

अ॒मृत॑स्य पू॒र्णां तामु॑ क॒लां विच॑क्षते । पाद॒ग्ं॒ षड्ढो॑तु॒र्न किला॑ऽऽविवित्से । येन॒र्तव॑: पञ्च॒धोत क्लृ॒प्ताः । उ॒त वा॑ ष॒ड्धा मन॒सोत क्लृ॒प्ताः । तग्ं षड्ढो॑तारमृ॒तुभि॒: कल्प॑मानम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति । अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । अ॒न्तश्च॒न्द्रम॑सि॒ मन॑सा॒ चर॑न्तम् । स॒हैव सन्तं॒ न विजा॑नन्ति दे॒वाः । इन्द्र॑स्या॒ऽऽत्मानग्ं॑ शत॒धा चर॑न्तम् ॥ २४ ॥

इन्द्रो॒ राजा॒ जग॑तो॒ य ईशे᳚ । स॒प्तहो॑ता सप्त॒धा विक्लृ॑प्तः । परे॑ण॒ तन्तुं॑ परिषि॒च्यमा॑नम् । अ॒न्तरा॑दि॒त्ये मन॑सा॒ चर॑न्तम् । दे॒वाना॒ग्ं॒ हृद॑यं॒ ब्रह्माऽन्व॑विन्दत् । ब्रह्मै॒तद्ब्रह्म॑ण॒ उज्ज॑भार । अ॒र्कग्ग्‍ं श्चोत॑न्तग्ं सरि॒रस्य॒ मध्ये᳚ । आ यस्मि॑न्थ्स॒प्त पेर॑वः । मेह॑न्ति बहु॒लाग्ं श्रिय᳚म् । ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् ॥ २५ ॥

अच्यु॑तां बहु॒लाग्ं श्रिय᳚म् । स हरि॑र्वसु॒वित्त॑मः । पे॒रुरिन्द्रा॑य पिन्वते । ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् । अच्यु॑तां बहु॒लाग्ं श्रिय᳚म् । मह्य॒मिन्द्रो॒ निय॑च्छतु । श॒तग्ं श॒ता अ॑स्य यु॒क्ता हरी॑णाम् । अ॒र्वाङा या॑तु॒ वसु॑भी र॒श्मिरिन्द्र॑: । प्रमग्ं‍ह॑ माणो बहु॒लाग्ं श्रिय᳚म् । र॒श्मिरिन्द्र॑स्सवि॒ता मे॒ निय॑च्छतु ॥ २६ ॥

घृ॒तं तेजो॒ मधु॑मदिन्द्रि॒यम् । मय्य॒यम॒ग्निर्द॑धातु । हरि॑: पत॒ङ्गः प॑ट॒री सु॑प॒र्णः । दि॒वि॒क्षयो॒ नभ॑सा॒ य एति॑ । स न॒ इन्द्र॑: कामव॒रं द॑दातु । पञ्चा॑रं च॒क्रं परि॑वर्तते पृ॒थु । हिर॑ण्यज्योतिस्सरि॒रस्य॒ मध्ये᳚ । अज॑स्रं॒ ज्योति॒र्नभ॑सा॒ सर्प॑देति । स न॒ इन्द्र॑: कामव॒रं द॑दातु । स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रम् ॥ २७ ॥

एको॒ अश्वो॑ वहति सप्तना॒मा । त्रि॒नाभि॑ च॒क्रम॒जर॒मन॑र्वम् । येने॒मा विश्वा॒ भुव॑नानि तस्थुः । भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे᳚ । तपो॑ दी॒क्षामृष॑यस्सुव॒र्विद॑: । तत॑: क्ष॒त्त्रं बल॒मोज॑श्च जा॒तम् । तद॒स्मै दे॒वा अ॒भिसं न॑मन्तु । श्वे॒तग्ं र॒श्मिं बो॑भु॒ज्यमा॑नम् । अ॒पां ने॒तारं॒ भुव॑नस्य गो॒पाम् । इन्द्रं॒ निचि॑क्युः पर॒मे व्यो॑मन् ॥ २८ ॥

रोहि॑णीः पिङ्ग॒ला एक॑रूपाः । क्षर॑न्तीः पिङ्ग॒ला एक॑रूपाः । श॒तग्ं स॒हस्रा॑णि प्र॒युता॑नि॒ नाव्या॑नाम् । अ॒यं यश्श्वे॒तो र॒श्मिः । परि॒ सर्व॑मि॒दं जग॑त् । प्र॒जां प॒शून्धना॑नि । अ॒स्माकं॑ ददातु । श्वे॒तो र॒श्मिः परि॒ सर्वं॑ बभूव । सुव॒न्मह्यं॑ प॒शून् वि॒श्वरू॑पान् । प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया᳚ ॥ २९ ॥

हृ॒दा प॑श्यन्ति॒ मन॑सा मनी॒षिण॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑क्षते । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: । प॒त॒ङ्गो वाचं॒ मन॑सा बिभर्ति । तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानाग्ं स्व॒र्यं॑ मनी॒षाम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । अ॒ग्निस्ताग्ं अग्रे॒ प्रमु॑मोक्तु दे॒वः ॥ ३० ॥

प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः । वी॒तग्ग्‍ं स्तु॑के स्तुके । यु॒वम॒स्मासु॒ निय॑च्छतम् । प्र प्र॑ य॒ज्ञप॑तिं तिर । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । तेषाग्ं॑ सप्ता॒नामि॒ह रन्ति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस्ताग्ं अग्रे॒ प्रमु॑मोक्तु दे॒वः । प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः । इडा॑यै सृ॒प्तं घृ॒तव॑च्चराच॒रम् । दे॒वा अन्व॑विन्द॒न्गुहा॑ हि॒तम् । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । तेषाग्ं॑ सप्ता॒नामि॒ह रन्ति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ ३१ ॥

आ॒त्मा जना॑नां विकु॒र्वन्तं॑ विप॒श्चिं प्र॒जानां᳚ वसु॒धानीं᳚ वि॒राजं॒ चर॑न्तं॒ गोम॑तीं मे॒ निय॑च्छ॒त्वेक॑चक्रं॒ व्यो॑मन्मा॒यया॑ दे॒व एक॑रूपा अ॒ष्टौ च॑ ॥ ११ ॥

स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । पुरु॑ष ए॒वेदग्ं सर्व᳚म् । यद्भू॒तं यच्च॒ भव्य᳚म् । उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति । ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्ं॑श्च॒ पूरु॑षः ॥ ३२,३३ ॥

पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाभ॑वा॒त्पुन॑: । ततो॒ विष्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि । तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ ३४,३५ ॥

यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्याऽऽसी॒दाज्य᳚म् । ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः । स॒प्तास्या॑ऽऽसन्परि॒धय॑: । त्रिस्स॒प्त स॒मिध॑: कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑षं प॒शुम् । तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ॥ ३४,३५ ॥

तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये । तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुत॑: । संभृ॑तं पृषदा॒ज्यम् । प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये । तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुत॑: । ऋच॒स्सामा॑नि जज्ञिरे । छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥ ३५,३६ ॥

तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: । यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू । का वू॒रू पादा॑वुच्येते । ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्य॑: कृ॒तः ॥ ३६,३७ ॥

ऊ॒रू तद॑स्य॒ यद्वैश्य॑: । प॒द्भ्याग्ं शू॒द्रो अ॑जायत । च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒स्सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत । नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौस्सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन् ॥ ३७,३८ ॥

वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚ । धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥ ३८,३९ ॥

पुरु॑षः पु॒रो᳚ऽग्र॒तो॑ऽजायत कृ॒तो॑ऽकल्पयन्नास॒न्द्वे च॑ ॥ १२ ॥
ज्याया॒नधि॒ पूरु॑षः । अन्यत्र॒ पुरु॑षः ॥

अ॒द्भ्यस्सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒स्सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ । वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒: पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय । प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ॥ ३९,४० ॥

तस्य॒ धीरा॒: परि॑जानन्ति॒ योनि᳚म् । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: । यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये । रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् । यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न्वशे᳚ । ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्त᳚म् । इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥ ४०,४१ ॥
जा॒य॒ते॒ वशे॑ स॒प्त च॑ ॥ १३ ॥

भ॒र्ता सन्भ्रि॒यमा॑णो बिभर्ति । एको॑ दे॒वो ब॑हु॒धा निवि॑ष्टः । य॒दा भा॒रं त॒न्द्रय॑ते॒ स भर्तु᳚म् । नि॒धाय॑ भा॒रं पुन॒रस्त॑मेति । तमे॒व मृ॒त्युम॒मृतं॒ तमा॑हुः । तं भ॒र्तारं॒ तमु॑ गो॒प्तार॑माहुः । स भृ॒तो भ्रि॒यमा॑णो बिभर्ति । य ए॑नं॒ वेद॑ स॒त्येन॒ भर्तु᳚म् । स॒द्यो जा॒तमु॒त ज॑हात्ये॒षः । उ॒तो जर॑न्तं॒ न ज॑हा॒त्येक᳚म् ॥ ४१,४२ ॥

उ॒तो ब॒हूनेक॒मह॑र्जहार । अत॑न्द्रो दे॒वस्सद॑मे॒व प्रार्थ॑: । यस्तद्वेद॒ यत॑ आब॒भूव॑ । स॒न्धां च॒ याग्ं सं॑द॒धे ब्रह्म॑णै॒षः । रम॑ते॒ तस्मि᳚न्नु॒त जी॒र्णे शया॑ने । नैनं॑ जहा॒त्यह॑स्सु पू॒र्व्येषु॑ । त्वामापो॒ अनु॒ सर्वा᳚श्चरन्ति जान॒तीः । व॒थ्सं पय॑सा पुना॒नाः । त्वम॒ग्निग्ं ह॑व्य॒वाह॒ग्ं॒ समि॑न्थ्से । त्वं भ॒र्ता मा॑त॒रिश्वा᳚ प्र॒जाना᳚म् ॥ ४२,४३ ॥

त्वं य॒ज्ञस्त्वमु॑वे॒वासि॒ सोम॑: । तव॑ दे॒वा हव॒माय॑न्ति॒ सर्वे᳚ । त्वमेको॑ऽसि ब॒हूननु॒प्रवि॑ष्टः । नम॑स्ते अस्तु सु॒हवो॑ म एधि । नमो॑ वामस्तु शृणु॒तग्ं हवं॑ मे । प्राणा॑पानावजि॒रग्ं सं॒चर॑न्तौ । ह्वया॑मि वां॒ ब्रह्म॑णा तू॒र्तमेत᳚म् । यो मां द्वेष्टि॒ तं ज॑हितं युवाना । प्राणा॑पानौ संविदा॒नौ ज॑हितम् । अ॒मुष्यासु॑ना॒ मा संग॑साथाम् ॥ ४३ ॥

तं मे॑ देवा॒ ब्रह्म॑णा संविदा॒नौ । व॒धाय॑ दत्तं॒ तम॒हग्ं ह॑नामि । अस॑ज्जजान स॒त आब॑भूव । यं यं॑ ज॒जान॒ स उ॑ गो॒पो अ॑स्य । य॒दा भा॒रं त॒न्द्रय॑ते॒ स भर्तु᳚म् । प॒रास्य॑ भा॒रं पुन॒रस्त॑मेति । तद्वै त्वं प्रा॒णो अ॑भवः । म॒हान्भोग॑: प्र॒जाप॑तेः । भुज॑: करि॒ष्यमा॑णः । यद्दे॒वान्प्राण॑यो॒ नव॑ ॥ ४४ ॥
एकं॑ प्र॒जानां᳚ गसाथां॒ नव॑ ॥ १४ ॥

हरि॒ग्ं॒ हर॑न्त॒मनु॑यन्ति दे॒वाः । विश्व॒स्येशा॑नं वृष॒भं म॑ती॒नाम् । ब्रह्म॒ सरू॑प॒मनु॑मे॒दमागा᳚त् । अय॑नं॒ मा विव॑धी॒र्विक्र॑मस्व । मा छि॑दो मृत्यो॒ मा व॑धीः । मा मे॒ बलं॒ विवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र । नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम । स॒द्यश्च॑कमा॒नाय॑ । प्र॒वे॒पा॒नाय॑ मृ॒त्यवे᳚ ॥ ४५ ॥

प्रास्मा॒ आशा॑ अशृण्वन् । कामे॑नाजनय॒न्पुन॑: । कामे॑न मे॒ काम॒ आगा᳚त् । हृद॑या॒द्धृद॑यं मृ॒त्योः । यद॒मीषा॑म॒दः प्रि॒यम् । तदैतूप॒माम॒भि । परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्था᳚म् । यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि । मा न॑: प्र॒जाग्ं री॑रिषो॒ मोत वी॒रान् । प्र पू॒र्व्यं मन॑सा॒ वन्द॑मानः । नाध॑मानो वृष॒भं च॑र्षणी॒नाम् । यः प्र॒जाना॑मेक॒राण्मानु॑षीणाम् । मृ॒त्युं य॑जे प्रथम॒जामृ॒तस्य॑ ॥ ४६ ॥
मृ॒त्यवे॑ वी॒राग्ंश्च॒त्वारि॑ च ॥ १५ ॥

त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् । उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनि॒स्सूर्या॑य त्वा॒ भ्राज॑स्वते ॥ ४७ ॥ १६ ॥

आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभि॑: । भवा॑ नस्स॒प्रथ॑स्तमः ॥ (४८) ॥ १७ ॥

ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ॥ ४९ ॥ १८ ॥

ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सादयामि ज्योति॒र्विदं॑ त्वा सादयामि॒ भास्व॑तीं त्वा सादयामि॒ ज्वल॑न्तीं त्वा सादयामि मल्मला॒भव॑न्तीं त्वा सादयामि॒ दीप्य॑मानां त्वा सादयामि॒ रोच॑मानां त्वा सादया॒म्यज॑स्रां त्वा सादयामि बृ॒हज्ज्यो॑तिषं त्वा सादयामि बो॒धय॑न्तीं त्वा सादयामि॒ जाग्र॑तीं त्वा सादयामि ॥ ५० ॥ १९ ॥

प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहो᳚द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा᳚ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ५१ ॥ २० ॥

चि॒त्तग्ं सं॑ता॒नेन॑ भ॒वं य॒क्ना रु॒द्रं तनि॑म्ना पशु॒पतिग्ग्ं॑ स्थूलहृद॒येना॒ग्निग्ं हृद॑येन रु॒द्रं लोहि॑तेन श॒र्वं मत॑स्नाभ्यां महादे॒वम॒न्तः पा᳚र्श्वेनौषिष्ठ॒हनग्ं॑ शिङ्गीनिको॒श्या᳚भ्याम् ॥ ५२ ॥ २१ ॥

चि॒त्ति॑: पृथि॒व्य॑ग्नि॒स्सूर्यं॑ ते॒ चक्षु॑र्म॒हाह॑वि॒र्होता॒ वाग्घोता᳚ ब्राह्म॒ण एक॑होता॒ऽग्निर्यजु॑र्भि॒स्सेनेन्द्र॑स्य दे॒वस्य॑ सु॒वर्णं॑ घ॒र्मग्ं स॒हस्र॑शीर्षा॒ऽद्भ्यो भ॒र्ता हरिं॑ त॒रणि॒राप्या॑यस्वे॒युष्टे ये ज्योति॑ष्मतीं प्रया॒साय॑ चि॒त्तमेक॑विग्ंशतिः ॥ २१ ॥

चित्ति॑र॒ग्निर्यजु॑र्भिर॒न्तः प्रवि॑ष्टः प्र॒जाप॑तिर्भ॒र्तासन्प्रया॒साय॒ द्विप॑ञ्चा॒शत् ॥ ५२ ॥

चित्ति॑र॒ग्निर्यजु॑र्भिर॒न्तः प्रवि॑ष्टः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नस्तस्य॒ धीरा॒ ज्योति॑ष्मतीं॒ त्रिप॑ञ्चा॒शत् ॥ ५३ ॥

तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed