Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सुचारुवक्त्रमण्डलं सुकर्णरत्नकुण्डलम् ।
सुचर्चिताङ्गचन्दनं नमामि नन्दनन्दनम् ॥ १ ॥
सुदीर्घनेत्रपङ्कजं शिखीशिखण्डमूर्धजम् ।
अनन्तकोटिमोहनं नमामि नन्दनन्दनम् ॥ २ ॥
सुनासिकाग्रमौक्तिकं स्वच्छदन्तपङ्क्तिकम् ।
नवाम्बुदाङ्गचिक्कणं नमामि नन्दनन्दनम् ॥ ३ ॥
करेणवेणुरञ्जितं गतिः करीन्द्रगञ्जितम् ।
दुकूलपीतशोभनं नमामि नन्दनन्दनम् ॥ ४ ॥
त्रिभङ्गदेहसुन्दरं नखद्युतिः सुधाकरम् ।
अमूल्यरत्नभूषणं नमामि नन्दनन्दनम् ॥ ५ ॥
सुगन्ध अङ्गसौरभं उरो विराजि कौस्तुभम् ।
स्फुरत् श्रीवत्सलाञ्छनं नमामि नन्दनन्दनम् ॥ ६ ॥
वृन्दावनसुनागरं विलासानुगवाससम् ।
सुरेन्द्रगर्वमोचनं नमामि नन्दनन्दनम् ॥ ७ ॥
व्रजाङ्गनासुनायकं सदा सुखप्रदायकम् ।
जगन्मनःप्रलोभनं नमामि नन्दनन्दनम् ॥ ८ ॥
श्रीनन्दनन्दनाष्टकं पठेद्यः श्रद्धयान्वितः ।
तरेद्भवाब्धिदुस्तरं लभेत्तदङ्घ्रियुक्तकम् ॥ ९ ॥
इति श्रीनन्दनन्दनाष्टकम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.