Sri Balarama Kavacham – श्री बलराम कवचम्


दुर्योधन उवाच ।
गोपीभ्यः कवचं दत्तं गर्गाचार्येण धीमता ।
सर्वरक्षाकरं दिव्यं देहि मह्यं महामुने ॥ १ ॥

प्राड्विपाक उवाच ।
स्नात्वा जले क्षौमधरः कुशासनः
पवित्रपाणिः कृतमन्त्रमार्जनः ।
स्मृत्वाथ नत्वा बलमच्युताग्रजं
सन्धारयेद्धर्मसमाहितो भवेत् ॥ २ ॥

गोलोकधामाधिपतिः परेश्वरः
परेषु मां पातु पवित्रकीर्तनः ।
भूमण्डलं सर्षपवद्विलक्ष्यते
यन्मूर्ध्नि मां पातु स भूमिमण्डले ॥ ३ ॥

सेनासु मां रक्षतु सीरपाणिः
युद्धे सदा रक्षतु मां हली च ।
दुर्गेषु चाव्यान्मुसली सदा मां
वनेषु सङ्कर्षण आदिदेवः ॥ ४ ॥

कलिन्दजावेगहरो जलेषु
नीलाम्बरो रक्षतु मां सदाग्नौ ।
वायौ च रामोऽवतु खे बलश्च
महार्णवेऽनन्तवपुः सदा माम् ॥ ५ ॥

श्रीवासुदेवोऽवतु पर्वतेषु
सहस्रशीर्षा च महाविवादे ।
रोगेषु मां रक्षतु रौहिणेयो
मां कामपालोऽवतु वा विपत्सु ॥ ६ ॥

कामात्सदा रक्षतु धेनुकारिः
क्रोधात्सदा मां द्विविदप्रहारी ।
लोभात्सदा रक्षतु बल्वलारिः
मोहात्सदा मां किल मागधारिः ॥ ७ ॥

प्रातः सदा रक्षतु वृष्णिधुर्यः
प्राह्णे सदा मां मथुरापुरेन्द्रः ।
मध्यन्दिने गोपसखः प्रपातु
स्वराट् पराह्णेऽवतु मां सदैव ॥ ८ ॥

सायं फणीन्द्रोऽवतु मां सदैव
परात्परो रक्षतु मां प्रदोषे ।
पूर्णे निशीथे च दुरन्तवीर्यः
प्रत्यूषकालेऽवतु मां सदैव ॥ ९ ॥

विदिक्षु मां रक्षतु रेवतीपतिः
दिक्षु प्रलम्बारिरधो यदूद्वहः ।
ऊर्ध्वं सदा मां बलभद्र आरा-
-त्तथा समन्ताद्बलदेव एव हि ॥ १० ॥

अन्तः सदाव्यात्पुरुषोत्तमो बहि-
-र्नागेन्द्रलीलोऽवतु मां महाबलः ।
सदान्तरात्मा च वसन् हरिः स्वयं
प्रपातु पूर्णः परमेश्वरो महान् ॥ ११ ॥

देवासुराणां भयनाशनं च
हुताशनं पापचयेन्धनानाम् ।
विनाशनं विघ्नघटस्य विद्धि
सिद्धासनं वर्मवरं बलस्य ॥ १२ ॥

इति श्रीगर्गसंहितायां बलभद्रखण्डे बलरामकवचम् ।


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed