Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथापरमहं वक्ष्येऽमृतसञ्जीवनं स्तवम् ।
यस्यानुष्ठानमात्रेण मृत्युर्दूरात्पलायते ॥ १ ॥
असाध्याः कष्टसाध्याश्च महारोगा भयङ्कराः ।
शीघ्रं नश्यन्ति पठनादस्यायुश्च प्रवर्धते ॥ २ ॥
शाकिनीडाकिनीदोषाः कुदृष्टिग्रहशत्रुजाः ।
प्रेतवेतालयक्षोत्था बाधा नश्यन्ति चाखिलाः ॥ ३ ॥
दुरितानि समस्तानि नानाजन्मोद्भवानि च ।
संसर्गजविकाराणि विलीयन्तेऽस्य पाठतः ॥ ४ ॥
सर्वोपद्रवनाशाय सर्वबाधाप्रशान्तये ।
आयुः प्रवृद्धये चैतत् स्तोत्रं परममद्भुतम् ॥ ५ ॥
बालग्रहाभिभूतानां बालानां सुखदायकम् ।
सर्वारिष्टहरं चैतद्बलपुष्टिकरं परम् ॥ ६ ॥
बालानां जीवनायैतत् स्तोत्रं दिव्यं सुधोपमम् ।
मृतवत्सत्वहरणं चिरञ्जीवित्वकारकम् ॥ ७ ॥
महारोगाभिभूतानां भयव्याकुलितात्मनाम् ।
सर्वाधिव्याधिहरणं भयघ्नममृतोपमम् ॥ ८ ॥
अल्पमृत्युश्चापमृत्युः पाठादस्यः प्रणश्यति ।
जलाऽग्निविषशस्त्रारि न हि शृङ्गि भयं तथा ॥ ९ ॥
गर्भरक्षाकरं स्त्रीणां बालानां जीवनप्रदम् ।
महारोगहरं नॄणामल्पमृत्युहरं परम् ॥ १० ॥
बाला वृद्धाश्च तरुणा नरा नार्यश्च दुःखिताः ।
भवन्ति सुखिनः पाठादस्य लोके चिरायुषः ॥ ११ ॥
अस्मात्परतरं नास्ति जीवनोपाय ऐहिकः ।
तस्मात् सर्वप्रयत्नेन पाठमस्य समाचरेत् ॥ १२ ॥
अयुतावृत्तिकं वाथ सहस्रावृत्तिकं तथा ।
तदर्धं वा तदर्धं वा पठेदेतच्च भक्तितः ॥ १३ ॥
कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः ।
सायं प्रातश्च विधिवत् स्तोत्रमेतत् पठेत् सुधीः ॥ १४ ॥
सर्पिषा हविषा वाऽपि सम्यावेनाथ भक्तितः ।
दशांशमानतो होमं कुर्यात् सर्वार्थसिद्धये ॥ १५ ॥
अथ स्तोत्रम् ।
नमो नमो विश्वविभावनाय
नमो नमो लोकसुखप्रदाय ।
नमो नमो विश्वसृजेश्वराय
नमो नमो मुक्तिवरप्रदाय ॥ १ ॥
नमो नमस्तेऽखिललोकपाय
नमो नमस्तेऽखिलकामदाय ।
नमो नमस्तेऽखिलकारणाय
नमो नमस्तेऽखिलरक्षकाय ॥ २ ॥
नमो नमस्ते सकलार्तिहर्त्रे
नमो नमस्ते विरुजः प्रकर्त्रे ।
नमो नमस्तेऽखिलविश्वधर्त्रे
नमो नमस्तेऽखिललोकभर्त्रे ॥ ३ ॥
सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते
सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।
विश्वं संह्रितये तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ४ ॥
यो धन्वन्तरिसञ्ज्ञया निगदितः क्षीराब्धितो निःसृतो
हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् ।
आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ५ ॥
स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसम्मोहनं
कृत्वा पाययति स्म यः सुरगणान् पीयूषमत्युत्तमम् ।
चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ६ ॥
चाक्षुषोदधिसम्प्लाव भूवेदप झषाकृते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ७ ॥
पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ८ ॥
याञ्चाच्छलबलित्रासमुक्तनिर्जर वामन ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ९ ॥
धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १० ॥
भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ११ ॥
क्षत्रियारण्यसञ्छेदकुठारकररैणुक ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १२ ॥
रक्षोराजप्रतापाब्धिशोषणाशुग राघव ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १३ ॥
भूभारासुरसन्दोहकालाग्ने रुक्मिणीपते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १४ ॥
वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १५ ॥
कलिवर्णाश्रमास्पष्टधर्मर्ध्यै कल्किरूपभाक् ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १६ ॥
असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः ।
छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ १७ ॥
अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् ।
भिन्धि भिन्धि गदाघातैश्चिरं जीवय जीवय ॥ १८ ॥
अहं न जाने किमपि त्वदन्यत्
समाश्रये नाथ पदाम्बुजं ते ।
कुरुष्व तद्यन्मनसीप्सितं ते
सुकर्मणा केन समक्षमीयाम् ॥ १९ ॥
त्वमेव तातो जननी त्वमेव
त्वमेव नाथश्च त्वमेव बन्धुः ।
विद्याधनागारकुलं त्वमेव
त्वमेव सर्वं मम देवदेव ॥ २० ॥
न मेऽपराधं प्रविलोकय प्रभो-
-ऽपराधसिन्धोश्च दयानिधिस्त्वम् ।
तातेन दुष्टोऽपि सुतः सुरक्षते
दयालुता तेऽवतु सर्वदाऽस्मान् ॥ २१ ॥
अहह विस्मर नाथ न मां सदा
करुणया निजया परिपूरितः ।
भुवि भवान् यदि मे न हि रक्षकः
कथमहो मम जीवनमत्र वै ॥ २२ ॥
दह दह कृपया त्वं व्याधिजालं विशालं
हर हर करवालं चाल्पमृत्योः करालम् ।
निजजनपरिपालं त्वां भजे भावयालं
कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ २३ ॥
न यत्र धर्माचरणं न जानं
व्रतं न योगो न च विष्णुचर्चा ।
न पितृगोविप्रवरामरार्चा
स्वल्पायुषस्तत्र जना भवन्ति ॥ २४ ॥
अथ मन्त्रम् ।
क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकल दुरितानि नाशय नाशय ।
क्ष्रौं आरोग्यं कुरु कुरु । ह्रीं दीर्घमायुर्देहि देहि स्वाहा ॥
फलश्रुतिः ।
अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति ।
गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ १ ॥
शतं पञ्चाशतं शक्त्याऽथवा पञ्चाधिविंशतिम् ।
पुस्तकानां द्विजेभ्यस्तु दद्याद्दीर्घायुषाप्तये ॥ २ ॥
भूर्जपत्रे विलिख्येदं कण्ठे वा बाहुमूलके ।
सन्धारयेद्गर्भरक्षा बालरक्षा च जायते ॥ ३ ॥
सर्वे रोगा विनश्यन्ति सर्वा बाधाः प्रशाम्यति ।
कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ ४ ॥
मया कथितमेतत्तेऽमृतसञ्जीवनं परम् ।
अल्पमृत्युहरं स्तोत्रं मृतवत्सत्वनाशनम् ॥ ५ ॥
इति सुदर्शनसंहितोक्तं अमृतसञ्जीवन धन्वन्तरि स्तोत्रम् ॥
इतर श्री विष्णु स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
One thought on “Amrita Sanjeevani Dhanvantari Stotram – अमृतसञ्जीवन धन्वन्तरि स्तोत्रम्”
Leave a Reply
You must be logged in to post a comment.


सभी देवों के स्त्रोत्र की संख्या में बढ़ाओ