Chakshushopanishad (Chakshushmati Vidya) – चाक्षुषोपनिषत्


अस्याः चाक्षुषीविद्यायाः अहिर्बुध्न्य ऋषिः । गायत्री छन्दः । सूर्यो देवता । चक्षुरोगनिवृत्तये जपे विनियोगः ।

ओं चक्षुश्चक्षुश्चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितं चक्षुरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाहम् अन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।

ओं नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ओं नमः करुणाकरायाऽमृताय । ओं नमः सूर्याय । ओं नमो भगवते सूर्यायाक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः ।

य इमां चक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते न तस्य अक्षिरोगो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ।

विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपन्तं सहस्ररश्मिः शतधावर्तमानः । पुरः प्रजानामुदयत्येष सूर्यः ।

ओं नमो भगवते आदित्याय अक्षितेजसे अहो वाहिनि वाहिनि स्वाहा ।

[** पाठान्तरं –
ओं नमो भगवते आदित्याय सूर्यायाहो वाहिन्यहोवाहिनी स्वाहा ।
**]


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed