Sri Vishnu Ashtakam – श्री विष्ण्वष्टकम्


विष्णुं विशालारुणपद्मनेत्रं
विभान्तमीशाम्बुजयोनिपूजितम् ।
सनातनं सन्मतिशोधितं परं
पुमांसमाद्यं सततं प्रपद्ये ॥ १ ॥

कल्याणदं कामफलप्रदायकं
कारुण्यरूपं कलिकल्मषघ्नम् ।
कलानिधिं कामतनूजमाद्यं
नमामि लक्ष्मीशमहं महान्तम् ॥ २ ॥

पीताम्बरं भृङ्गनिभं पितामह-
-प्रमुख्यवन्द्यं जगदादिदेवम् ।
किरीटकेयूरमुखैः प्रशोभितं
श्रीकेशवं सन्ततमानतोऽस्मि ॥ ३ ॥

भुजङ्गतल्पं भुवनैकनाथं
पुनः पुनः स्वीकृतकायमाद्यम् ।
पुरन्दराद्यैरपि वन्दितं सदा
मुकुन्दमत्यन्तमनोहरं भजे ॥ ४ ॥

क्षीराम्बुराशेरभितः स्फुरन्तं
शयानमाद्यन्तविहीनमव्ययम् ।
सत्सेवितं सारसनाभमुच्चैः
विघोषितं केशिनिषूदनं भजे ॥ ५ ॥

भक्तार्तिहन्तारमहर्निशं तं
मुनीन्द्रपुष्पाञ्जलिपादपङ्कजम् ।
भवघ्नमाधारमहाश्रयं परं
परापरं पङ्कजलोचनं भजे ॥ ६ ॥

नारायणं दानवकाननानलं
नतप्रियं नामविहीनमव्ययम् ।
हर्तुं भुवो भारमनन्तविग्रहं
स्वस्वीकृतक्ष्मावरमीडितोऽस्मि ॥ ७ ॥

नमोऽस्तु ते नाथ वरप्रदायिन्
नमोऽस्तु ते केशव किङ्करोऽस्मि ।
नमोऽस्तु ते नारदपूजिताङ्घ्रे
नमो नमस्त्वच्चरणं प्रपद्ये ॥ ८ ॥

विष्ण्वष्टकमिदं पुण्यं यः पठेद्भक्तितो नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥

इति श्रीनारायणगुरुविरचितं श्रीविष्ण्वष्टकम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed