Sankashta Nashana Vishnu Stotram – सङ्कष्टनाशन विष्णु स्तोत्रम्


नारद उवाच ।
पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः ।
भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥

देवा ऊचुः ।
नमो मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
विधात्रादि सर्गस्थितिध्वंसकर्त्रे
गदाशङ्खपद्मारिहस्ताय तेऽस्तु ॥ २ ॥

रमावल्लभायाऽसुराणां निहन्त्रे
भुजङ्गारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रे विकर्त्रे
शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३ ॥

नमो दैत्यसन्तापितामर्त्यदुःखा-
-चलध्वंसदम्भोलये विष्णवे ते ।
भुजङ्गेशतल्पेशयाना[या]ऽर्कचन्द्र-
-द्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥ ४ ॥

नारद उवाच ।
सङ्कष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः ।
स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः ॥ ५ ॥

इति पद्मपुराणे पृथुनारदसंवादे सङ्कष्टनाशन विष्णु स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed