Gajendra Moksha (Srimad Bhagavatam) Part 3 – गजेन्द्रमोक्षः (श्रीमद्भागवतम्) ३


[ द्वितीयोऽध्यायःतृतीयोऽध्यायःचतुर्थोऽध्यायः ]

श्रीशुक उवाच –
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः ।
मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः ॥ १ ॥

नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः ।
ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् ॥ २ ॥

योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् ।
मुक्तो देवलशापेन हूहूगन्धर्वसत्तमः ॥ ३ ॥

प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् ।
अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ ४ ॥

सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् ।
लोकस्य पश्यतो लोकं स्वमागान्मुक्तकिल्बिषः ॥ ५ ॥

गजेन्द्रो भगवत्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् ।
प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥ ६ ॥

स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः ।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः ॥ ७ ॥

स एकदाऽऽराधनकाल आत्मवान्
गृहीतमौनव्रतमीश्वरं हरिम् ।
जटाधरस्तापस आप्लुतोऽच्युत-
-स्तमर्चयामास कुलाचलाश्रमः ॥ ८ ॥

यदृच्छया तत्र महायशा मुनिः
समागमच्छिष्यगणैः परिश्रितः ।
तं वीक्ष्य तूष्णीमकृतार्हणादिकं
रहस्युपासीनमृषिश्चुकोप ह ॥ ९ ॥

तस्मा इमं शापमदादसाधु-
-रयं दुरात्माऽकृतबुद्धिरत्र ।
विप्रावमन्ता विशतां तमिस्रं
यथा गजः स्तब्धमतिः स एव ॥ १० ॥

श्रीशुक उवाच –
एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः ।
इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ ११ ॥

आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् ।
हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः ॥ १२ ॥

एवं विमोक्ष्य गजयूथपमब्जनाभ-
-स्तेनापि पारिषदतां गमितेन युक्तः ।
गन्धर्वसिद्धविबुधैरनुगीयमान
कर्माऽद्भुतं स्वभुवनं गरुडासनोऽगात् ॥ १३ ॥

एवं महाराज तवेरितो मया
कृष्णानुभावो गजराजमोक्षणम् ।
स्वर्ग्यं यशस्यं कलिकल्मषापहं
दुःस्वप्ननाशं कुरुवर्य शृण्वताम् ॥ १४ ॥

अथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः ।
शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये ॥ १५ ॥

इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम ।
शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः ॥ १६ ॥

श्रीभगवानुवाच –
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।
वेत्र कीचक वेणूनां गुल्मानि सुरपादपान् ॥ १७ ॥

शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।
क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८ ॥

श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।
सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९ ॥

शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् ।
ब्रह्माणं नारदमृषिं धृवं प्रह्लादमेव च ॥ २० ॥

मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे ।
कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ २१ ॥

प्रणवं सत्यमव्यक्तं गोविप्रान्धर्ममव्ययम् ।
दाक्षायणीं धर्मपत्नीं सोमकश्यपयोरपि ॥ २२ ॥

गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणाम् ।
ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् ॥ २३ ॥

उत्थायापररात्रां ते प्रयताः सुसमाहिताः ।
स्मरन्ति मम रूपाणि मुच्यन्ते तेऽंहसोऽखिलात् ॥ २४ ॥

ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुद्ध्य निशात्यये ।
तेषां प्राणात्यये चाहं ददामि विपुलां मतिम् ॥ २५ ॥

श्रीशुक उवाच –
इत्यादिश्य हृषीकेशः प्राध्माय जलजोत्तमम् ।
हर्षयन्विबुधानीकमारुरोह खगाधिपम् ॥ २६ ॥

राजन्नुदितमे तत्ते हरेः कर्माघनाशनम् ।
गजेन्द्रमोक्षणं दिव्यं रैवतं त्वन्तरं शृणु ॥ २७ ॥

इति श्रीमद्भागवते महापुराणे अष्टमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥

[ द्वितीयोऽध्यायःतृतीयोऽध्यायःचतुर्थोऽध्यायः ]


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed