Sri Venkatesha Stotram – श्री वेङ्कटेश स्तोत्रम्


कौशिकश्रीनिवासार्यतनयं विनयोज्ज्वलम् ।
वात्सल्यादिगुणावासं वन्दे वरददेशिकम् ॥

पद्मस्थां युवतीं परार्ध्यवृषभाद्रीशायतोरस्स्थली-
मध्यावासमहोत्सवां क्षणसकृद्विश्लेषवाक्यासहाम् ।
मूर्तीभावमुपागतामिव कृपां मुग्धाखिलाङ्गां श्रियं
नित्यानन्दविधायिनीं निजपदे न्यस्तात्मनां संश्रये ॥ १ ॥

श्रीमच्छेषमहीधरेशचरणौ प्राप्यौ च यौ प्रापकौ
अस्मद्देशिकपुङ्गवैः करुणया सन्दर्शितौ तावकौ ।
प्रोक्तौ वाक्ययुगेन भूरिगुणकावार्यैश्च पूर्वैर्मुहुः
श्रेयोभिः शठवैरिमुख्यमुनिभिस्तौ संश्रितौ संश्रये ॥ २ ॥

यस्यैकं गुणमादृताः कवयितुं नित्याः प्रवृत्ता गिरः
तस्याभूमितया स्ववाङ्मनसयोर्वैक्लब्यमासेदिरे ।
तत्तादृग्बहुसद्गुणं कवयितुं मोहाद्वृषाद्रीश्वरं
काङ्क्षे कार्यविवेचनं न हि भवेन्मूढाशयानां नृणाम् ॥ ३ ॥

यत्पादा ॥ योषितं निजसकृत्स्पर्शेन काञ्चिच्छिला-
मङ्गार ॥ डिम्भतामनुपमौ शान्तं कमप्यञ्चितौ ।
यत्पादूरखिलां शशास च महीमाश्चर्यसीमास्थलीम्
अद्राक्षं हरिमञ्जनाचलतटे निर्निद्रपद्मेक्षणम् ॥ ४ ॥

अत्रस्यन्मणिराजराजिविलसन्मञ्जीरनिर्यन्महः-
स्तोमप्रास्तसमस्तविस्तृततमश्श्रीमन्दिराभ्यन्तरम् ।
व्याकोचाम्बुजसुन्दरं चरणयोर्द्वन्द्वं वृषाद्रीशितुः
चक्षुर्भ्यामनुभूय सर्वसुलभं प्राप्स्यामि मोदं कदा ॥ ५ ॥

सत्कृत्या समकाललब्धतनुभिर्गोपीभिरत्यादरात्
विन्यस्तौ वदने कुचे च नितरां रोमाञ्चरोहाञ्चिते ।
पद्माभूकरपल्लवैः सचकितं संवाह्यमानौ मृदू
मान्यौ वेङ्कटभूधरेशचरणौ मार्गे दृशोः स्तां मम ॥ ६ ॥

प्रातः फुल्लपयोरुहान्तरदलस्निग्धारुणान्तस्थलौ
निष्पीताखिलनीरनीरधिलसन्नीलाम्बुदाभौ बहिः ।
राकाशीतमरीचिसन्निभनखज्योतिर्वितानाञ्चितौ
पादौ पन्नगपुङ्गवाचलपतेर्मध्येमनस्स्तां मम ॥ ७ ॥

मन्दारप्रसवाभिरामशिरसां बृन्दारकश्रेयसां
बृन्दैरिन्दुकलाभृता च विधिना वन्द्यौ धृतानन्दथू ।
बन्धच्छेदविधायिनौ विनमतां छन्दश्शताभिष्टुतौ
वन्दे शेषमहीधरेशचरणौ वन्दारुचिन्तामणी ॥ ८ ॥

चिञ्चामूलकृतासनेन मुनिना तत्त्वार्थसन्दर्शिना
कारुण्येन जगद्धितं कथयता स्वानुष्ठितिख्यापनात् ।
निश्चिक्ये शरणं यदेव परमं प्राप्यं च सर्वात्मनां
तत्पादाब्जयुगं भजामि वृषभक्षोणीधराधीशितुः ॥ ९ ॥

नन्दिष्यामि कदाऽहमेत्य महता घर्मेण तप्तो यथा
मन्दोदञ्चितमारुतं मरुतले मर्त्यो महान्तं ह्रदम् ।
सन्तप्तो भवतापदावशिखिना सर्वार्तिसंशामकं
पादद्वन्द्वमहीशभूधरपतेर्निर्द्वन्द्वहृन्मन्दिरम् ॥ १० ॥

यौ बृन्दावनभूतले व्यहरतां दैतेयबृन्दावृते
कुप्यत्कालियविस्तृतोच्छ्रितफणारङ्गेषु चानृत्यताम् ।
किञ्चानस्समुदास्थतां किसलयप्रस्पर्धिनावासुरं
तन्वातां मम वेङ्कटेशचरणौ तावंहसां संहृतिम् ॥ ११ ॥

शेषित्वप्रमुखान्निपीय तु गुणान्नित्या हरेस्सूरयो
वैकुण्ठे तत एत्य वेङ्कटगिरिं सौलभ्यमुख्यानिह ।
नित्योदञ्चितसंनिधेर्निरुपमान्निर्विश्य तस्याद्भुतान्
निर्गन्तुं प्रभवन्ति हन्त न ततो वैकुण्ठकुण्ठादराः ॥ १२ ॥

सम्फुल्लाद्भुतपुष्पभारविनमच्छाखाशतानां सदा
सौरभ्यानुभवाभियन्मधुलिहां सङ्घैर्वृते भूरुहाम् ।
उद्यद्रश्मिभिरुज्ज्वलैर्मणिगणैरुत्तुङ्गशृङ्गैर्वृष-
क्षोणीभर्तरि वर्ततेऽखिलजगत्क्षेमाय लक्ष्मीसखः ॥ १३ ॥

नानादिङ्मुखवासिनो नरगणानभ्यागतानादरात्
प्रत्युद्यात इवान्तिकस्फुटतरप्रेक्ष्यप्रसन्नाननः ।
सानुक्रोशमनास्सडिम्भमहिलान् सम्प्राप्तसर्वेप्सितान्
कुर्वन्नञ्जनभूधरे कुवलयश्यामो हरिर्भासते ॥ १४ ॥

आपादादनवद्यमाच शिरसस्सौन्दर्यसीमास्पदं
हस्तोदञ्चितशङ्खचक्रमुरसा बिभ्राणमम्भोधिजाम् ।
माल्यैरुल्लसितं मनोज्ञमकुटीमुख्यैश्च भूषाशतैः
मध्येतारणमञ्जनाचलतटे भान्तं हरिं भावये ॥ १५ ॥

मञ्जीराञ्चितपादमद्भुतकटीविभ्राजिपीताम्बरं
पद्मालङ्कृतनाभिमङ्गमहसा पाथोधरभ्रान्तिदम् ।
पार्श्वालङ्कृतिशङ्खचक्रविलसत्पाणिं परं पूरुषं
वन्दे मन्दहसं विचित्रमकुटीजुष्टं वृषाद्रीश्वरम् ॥ १६ ॥

नानाभासुररत्नमौक्तिकवरश्रेणीलसत्तोरण-
स्वर्णस्तम्भयुगान्तरालकभृशप्रद्योतमानाननम् ।
आनासश्रुतिलोलनीलविशदस्निग्धान्तरक्तेक्षणं
नाथं प्रेक्षितुमञ्जनाचलतटे नालं सहस्रं दृशाम् ॥ १७ ॥

चक्राब्जे करयुग्मकेन सततं बिभ्रत् करेण स्पृशन्
सव्येनोरुमपीतरेण चरणौ सन्दर्शयन् भूषणैः ।
सद्रत्नैः सकला दिशो वितिमिराः कुर्वन् वृषाद्रौ हरिः
शुद्धस्वान्तनिषेविते विजयते शुद्धान्तबाहान्तरः ॥ १८ ॥

सुस्निग्धाधरपल्लवं मृदुहसं मीनोल्लसल्लोचनं
गण्डप्रस्फुरदंशुकुण्डलयुगं विभ्राजिसुभ्रून्नसम् ।
फालोद्भासिपरार्ध्यरत्नतिलकं वक्त्रं प्रलम्बालकं
भव्यं वेङ्कटनायकस्य पिबतां भाग्यं न वाचां पदम् ॥ १९ ॥

त्वत्पादाम्बुजसस्पृहं मम मनः कुर्यास्त्वदन्यस्पृहां
दूरं तोलय दुःखजालजननीं त्वत्पादवाञ्छाद्विषम् ।
किञ्च त्वत्परतन्त्रभूसुरकृपापात्रं क्रिया मां सदा
सर्पाधीश्वरभूधरेन्द्र भगवन् सर्वार्थसन्दायक ॥ २० ॥

नाकार्षं श्रुतिचोदितां कृतिमहं किञ्चिन्न चावेदिषं
जीवेशौ भवभञ्जनी न च भवत्पादाब्जभक्तिर्मम ।
श्रीमत्त्वत्करुणैव देशिकवरोपज्ञं प्रवृत्ता मयि
त्वत्प्राप्तौ शरणं वृषाचलपतेऽभूवं ततस्त्वद्भरः ॥ २१ ॥

श्रीमत्कौशिकवंशवारिधिविधोः श्रीवेङ्कटेशाख्यया
विख्यातस्य गुरोर्विशुद्धमनसो विद्यानिधेः सूनुना ।
भक्त्यैतां वरदाभिधेन भणितां श्रीवेङ्कटेशस्तुतिं
भव्यां यस्तु पठेदमुष्य वितरेच्छ्रेयः परं श्रीसखः ॥

इति वेङ्कटेश स्तोत्रम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed