Yama Kruta Shiva Keshava Stuti – श्री शिवकेशव स्तुतिः (यम कृतम्)


ध्यानम् ।
माधवोमाधवावीशौ सर्वसिद्धिविहायिनौ ।
वन्दे परस्परात्मानौ परस्परनुतिप्रियौ ॥

स्तोत्रम् ।
गोविन्द माधव मुकुन्द हरे मुरारे
शम्भो शिवेश शशिशेखर शूलपाणे ।
दामोदराऽच्युत जनार्दन वासुदेव
त्याज्याभटाय इति सन्ततमामनन्ति ॥ १

गङ्गाधरान्धकरिपो हर नीलकण्ठ
वैकुण्ठकैटभरिपो कमठाब्जपाणे ।
भूतेश खण्डपरशो मृड चण्डिकेश
त्याज्याभटाय इति सन्ततमामनन्ति ॥ २

विष्णो नृसिंह मधुसूदन चक्रपाणे
गौरीपते गिरिश शङ्कर चन्द्रचूड ।
नारायणाऽसुरनिबर्हण शार्ङ्गपाणे
त्याज्याभटाय इति सन्ततमामनन्ति ॥ ३

मृत्युञ्जयोग्र विषमेक्षण कामशत्रो
श्रीकण्ठ पीतवसनाम्बुदनीलशौरे ।
ईशान कृत्तिवसन त्रिदशैकनाथ
त्याज्याभटाय इति सन्ततमामनन्ति ॥ ४

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य
श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे ।
आनन्दकन्द धरणीधर पद्मनाभ
त्याज्याभटाय इति सन्ततमामनन्ति ॥ ५

सर्वेश्वर त्रिपुरसूदन देवदेव
ब्रह्मण्यदेव गरुडध्वज शङ्खपाणे ।
त्र्यक्षोरगाभरण बालमृगाङ्कमौले
त्याज्याभटाय इति सन्ततमामनन्ति ॥ ६

श्रीराम राघव रमेश्वर रावणारे
भूतेश मन्मथरिपो प्रमथाधिनाथ ।
चाणूरमर्दन हृषीकपते मुरारे
त्याज्याभटाय इति सन्ततमामनन्ति ॥ ७

शूलिन् गिरीश रजनीशकलावतंस
कंसप्रणाशन सनातन केशिनाश ।
भर्ग त्रिनेत्र भव भूतपते पुरारे
त्याज्याभटाय इति सन्ततमामनन्ति ॥ ८

गोपीपते यदुपते वसुदेवसूनो
कर्पूरगौर वृषभध्वज फालनेत्र ।
गोवर्धनोद्धरण धर्मधुरीण गोप
त्याज्याभटाय इति सन्ततमामनन्ति ॥ ९

स्थाणो त्रिलोचन पिनाकधर स्मरारे
कृष्णाऽनिरुद्ध कमलाकर कल्मषारे ।
विश्वेश्वर त्रिपथगार्द्रजटाकलाप
त्याज्याभटाय इति सन्ततमामनन्ति ॥ १०

अष्टोत्तराधिकशतेन सुचारुनाम्नां
सन्धर्भितां ललितरत्नकदम्बकेन ।
सन्नामकां दृढगुणां द्विजकण्ठगां यः
कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ ११

इति यमकृत श्री शिवकेशव स्तुति ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed