Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीवेङ्कटेशपदपङ्कजधूलिपङ्क्तिः
संसारसिन्धुतरणे तरणिर्नवीना ।
सर्वाघपुञ्जहरणाय च धूमकेतुः
पायादनन्यशरणं स्वयमेव लोकम् ॥ १ ॥
शेषाद्रिगेह तव कीर्तितरङ्गपुञ्ज
आभूमिनाकमभितस्सकलान्पुनानः ।
मत्कर्णयुग्मविवरे परिगम्य सम्य-
-क्कुर्यादशेषमनिशं खलुतापभङ्गम् ॥ २ ॥
वैकुण्ठराजसकलोऽपि धनेशवर्गो
नीतोऽपमानसरणिं त्वयि विश्वसित्रा ।
तस्मादयं न समयः परिहासवाचां
इष्टं प्रपूर्य कुरु मां कृतकृत्यसङ्घम् ॥ ३ ॥
श्रीमन्नरास्तुकतिचिद्धनिकांश्च केचित्
क्षोणीपतीं कतिचिदत्र च राजलोकान् ।
आराधयन्तु मलशून्यमहं भवन्तं
कल्याणलाभजननायसमर्थमेकम् ॥ ४ ॥
लक्ष्मीपति त्वमखिलेश तव प्रसिद्ध-
-मत्र प्रसिद्धमवनौमदकिञ्चनत्वम् ।
तस्योपयोगकरणाय मया त्वया च
कार्यः समागमैदं मनसि स्थितं मे ॥ ५ ॥
शेषाद्रिनाथभवताऽयमहं सनाथः
सत्यं वदामि भगवंस्त्वमनाथ एव ।
तस्मात्कुरुष्वमदभीप्सित कृत्यजाल-
-मेवत्वदीप्सित कृतौ तु भवान्समर्थः ॥ ६ ॥
क्रुद्धो यदा भवसि तत्क्षणमेव भूपो
रङ्कायते त्वमसि चेत्खलु तोषयुक्तः ।
भूपायतेऽथनिखिलश्रुतिवेद्य रङ्क
इच्छाम्यतस्तव दयाजलवृष्टिपातम् ॥ ७ ॥
अङ्गीकृतं सुविरुदं भगवंस्त्वयेति
मद्भक्तपोषणमहं सततं करोमि ।
आविष्कुरुष्व मयि सत्सततं प्रदीने
चिन्ताप्रहारमयमेव हि योग्यकालः ॥ ८ ॥
सर्वासुजातिषु मया तु सम त्वमेव
निश्चीयते तव विभो करुणाप्रवाहात् ।
प्रह्लादपाण्डुसुत बल्लव गृध्रकादौ
नीचो न भाति मम कोऽप्यत एव हेतोः ॥ ९ ॥
सम्भावितास्तु परिभूतिमथ प्रयान्ति
धूर्ताजपं हि कपटैकपरा जगत्याम् ।
प्राप्ते तु वेङ्कटविभो परिणामकाले
स्याद्वैपरीत्यमिव कौरवपाण्डवानाम् ॥ १० ॥
श्रीवेङ्कटेश तव पादसरोजयुग्मे
संसारदुःखशमनाय समर्पयामि ।
भास्वत्सदष्टकमिदं रचितं [ ॥ ।]
प्रभाकरोऽहमनिशं विनयेन युक्तः ॥ ११ ॥
श्रीशालिवाहनशके शरकाष्टभूमि
सङ्ख्यामितेऽथविजयाभिधवत्सरेऽयम् ।
श्रीकेशवात्मजैदं व्यतनोत्समल्पं
स्तोत्रम् प्रभाकर इति प्रथिताभिधाना ॥ १२ ॥
इति गार्ग्यकुलोत्पन्न यशोदागर्भज केशवात्मज प्रभाकर कृतिषु श्रीवेङ्कटेशाष्टक स्तोत्रम् समाप्तम् ॥
श्रीकृष्णदास तनुजस्य मया तु गङ्गा
विष्णोरकारि किल सूचनयाष्टकं यत् ।
तद्वेङ्कटेशमनसो मुदमातनोतु
तद्भक्तलोकनिवहानन पङ्क्तिगं सत् ॥
पित्रोर्गुरोश्चाप्यपराधकारिणो
भ्रातुस्तथाऽन्यायकृतश्चदुर्गतः ।
तेषु त्वयाऽथापि कृपा विधीयतां
सौहार्दवश्येन मया तु याच्यते ॥
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.