Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीवेङ्कटेशपदपङ्कजधूलिपङ्क्तिः
संसारसिन्धुतरणे तरणिर्नवीना ।
सर्वाघपुञ्जहरणाय च धूमकेतुः
पायादनन्यशरणं स्वयमेव लोकम् ॥ १ ॥
शेषाद्रिगेह तव कीर्तितरङ्गपुञ्ज
आभूमिनाकमभितस्सकलान्पुनानः ।
मत्कर्णयुग्मविवरे परिगम्य सम्य-
-क्कुर्यादशेषमनिशं खलुतापभङ्गम् ॥ २ ॥
वैकुण्ठराजसकलोऽपि धनेशवर्गो
नीतोऽपमानसरणिं त्वयि विश्वसित्रा ।
तस्मादयं न समयः परिहासवाचां
इष्टं प्रपूर्य कुरु मां कृतकृत्यसङ्घम् ॥ ३ ॥
श्रीमन्नरास्तुकतिचिद्धनिकांश्च केचित्
क्षोणीपतीं कतिचिदत्र च राजलोकान् ।
आराधयन्तु मलशून्यमहं भवन्तं
कल्याणलाभजननायसमर्थमेकम् ॥ ४ ॥
लक्ष्मीपति त्वमखिलेश तव प्रसिद्ध-
-मत्र प्रसिद्धमवनौमदकिञ्चनत्वम् ।
तस्योपयोगकरणाय मया त्वया च
कार्यः समागमैदं मनसि स्थितं मे ॥ ५ ॥
शेषाद्रिनाथभवताऽयमहं सनाथः
सत्यं वदामि भगवंस्त्वमनाथ एव ।
तस्मात्कुरुष्वमदभीप्सित कृत्यजाल-
-मेवत्वदीप्सित कृतौ तु भवान्समर्थः ॥ ६ ॥
क्रुद्धो यदा भवसि तत्क्षणमेव भूपो
रङ्कायते त्वमसि चेत्खलु तोषयुक्तः ।
भूपायतेऽथनिखिलश्रुतिवेद्य रङ्क
इच्छाम्यतस्तव दयाजलवृष्टिपातम् ॥ ७ ॥
अङ्गीकृतं सुविरुदं भगवंस्त्वयेति
मद्भक्तपोषणमहं सततं करोमि ।
आविष्कुरुष्व मयि सत्सततं प्रदीने
चिन्ताप्रहारमयमेव हि योग्यकालः ॥ ८ ॥
सर्वासुजातिषु मया तु सम त्वमेव
निश्चीयते तव विभो करुणाप्रवाहात् ।
प्रह्लादपाण्डुसुत बल्लव गृध्रकादौ
नीचो न भाति मम कोऽप्यत एव हेतोः ॥ ९ ॥
सम्भावितास्तु परिभूतिमथ प्रयान्ति
धूर्ताजपं हि कपटैकपरा जगत्याम् ।
प्राप्ते तु वेङ्कटविभो परिणामकाले
स्याद्वैपरीत्यमिव कौरवपाण्डवानाम् ॥ १० ॥
श्रीवेङ्कटेश तव पादसरोजयुग्मे
संसारदुःखशमनाय समर्पयामि ।
भास्वत्सदष्टकमिदं रचितं [ ॥ ।]
प्रभाकरोऽहमनिशं विनयेन युक्तः ॥ ११ ॥
श्रीशालिवाहनशके शरकाष्टभूमि
सङ्ख्यामितेऽथविजयाभिधवत्सरेऽयम् ।
श्रीकेशवात्मजैदं व्यतनोत्समल्पं
स्तोत्रम् प्रभाकर इति प्रथिताभिधाना ॥ १२ ॥
इति गार्ग्यकुलोत्पन्न यशोदागर्भज केशवात्मज प्रभाकर कृतिषु श्रीवेङ्कटेशाष्टक स्तोत्रम् समाप्तम् ॥
श्रीकृष्णदास तनुजस्य मया तु गङ्गा
विष्णोरकारि किल सूचनयाष्टकं यत् ।
तद्वेङ्कटेशमनसो मुदमातनोतु
तद्भक्तलोकनिवहानन पङ्क्तिगं सत् ॥
पित्रोर्गुरोश्चाप्यपराधकारिणो
भ्रातुस्तथाऽन्यायकृतश्चदुर्गतः ।
तेषु त्वयाऽथापि कृपा विधीयतां
सौहार्दवश्येन मया तु याच्यते ॥
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

