Vayu Stuti – वायु स्तुतिः


अथ नखस्तुतिः ।

पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा-
-कुम्भोच्चाद्रिविपाटनाधिकपटु प्रत्येक वज्रायिताः ।
श्रीमत्कण्ठीरवास्यप्रततसुनखरा दारितारातिदूर-
-प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता भूरिभागैः ॥ १ ॥

लक्ष्मीकान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं
पश्याम्युत्तमवस्तु दूरतरतोपास्तं रसो योऽष्टमः ।
यद्रोषोत्कर दक्ष नेत्र कुटिल प्रान्तोत्थिताग्नि स्फुरत्
खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २ ॥

अथ वायुस्तुतिः ।

श्रीमद्विष्ण्वङ्घ्रिनिष्ठातिगुणगुरुतमश्रीमदानन्दतीर्थ-
-त्रैलोक्याचार्यपादोज्ज्वलजलजलसत्पांसवोऽस्मान् पुनन्तु ।
वाचां यत्र प्रणेत्री त्रिभुवनमहिता शारदा शारदेन्दु-
-ज्योत्स्नाभद्रस्मितश्रीधवलितककुभा प्रेमभारं बभार ॥ १ ॥

उत्कण्ठाकुण्ठकोलाहलजवविजिताजस्रसेवानुवृद्ध-
-प्राज्ञात्मज्ञानधूतान्धतमससुमनोमौलिरत्नावलीनाम् ।
भक्त्युद्रेकावगाढप्रघटनसधटात्कारसङ्घृष्यमाण-
प्रान्तप्राग्र्याङ्घ्रिपीठोत्थितकनकरजःपिञ्जरारञ्जिताशाः ॥ २ ॥

जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानां
अग्र्याणामर्पकाणां चिरमुदितचिदानन्दसन्दोहदानाम् ।
एतेषामेष दोषप्रमुषितमनसां द्वेषिणां दूषकाणां
दैत्यानामार्तिमन्धे तमसि विदधतां संस्तवे नास्मि शक्तः ॥ ३ ॥

अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिन् जने ज्ञानमार्गं
वन्द्यं चन्द्रेन्द्ररुद्रद्युमणिफणिवयोनायकाद्यैरिहाद्य ।
मध्वाख्यं मन्त्रसिद्धं किमुत कृतवतो मारुतस्यावतारं
पातारं पारमेष्ट्यं पदमपविपदः प्राप्तुरापन्नपुंसाम् ॥ ४ ॥

उद्यद्विद्युत्प्रचण्डां निजरुचिनिकरव्याप्तलोकावकाशो
बिभ्रद्भीमो भुजे योऽभ्युदितदिनकराभाङ्गदाढ्य प्रकाण्डे ।
वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिं वायुदेवो विदध्यात्
अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामणिर्मे ॥ ५ ॥

संसारोत्तापनित्योपशमदसदयस्नेहहासाम्बुपूर-
-प्रोद्यद्विद्यानवद्यद्युतिमणिकिरणश्रेणिसम्पूरिताशः ।
श्रीवत्साङ्काधिवासोचिततरसरलश्रीमदानन्दतीर्थ-
-क्षीराम्भोधिर्विभिन्द्याद्भवदनभिमतं भूरि मे भूतिहेतुः ॥ ६ ॥

मूर्धन्येषोऽञ्जलिर्मे दृढतरमिह ते बध्यते बन्धपाश-
-च्छेत्रे दात्रे सुखानां भजति भुवि भविष्यद्विधात्रे द्युभर्त्रे ।
अत्यन्तं सन्ततं त्वं प्रदिश पदयुगे हन्त सन्तापभाजा-
-मस्माकं भक्तिमेकां भगवत उत ते माधवस्याथ वायोः ॥ ७ ॥

साभ्रोष्णाभीशुशुभ्रप्रभमभय नभो भूरिभूभृद्विभूति-
-भ्राजिष्णुर्भूरृभूणां भवनमपि विभोऽभेदि बभ्रे बभूवे ।
येन भ्रूविभ्रमस्ते भ्रमयतु सुभृशं बभ्रुवद्दुर्भृताशान्
भ्रान्तिर्भेदावभासस्त्विति भयमभिभूर्भोक्ष्यतो मायिभिक्षून् ॥ ८ ॥

येऽमुं भावं भजन्ते सुरमुखसुजनाराधितं ते तृतीयं
भासन्ते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेषाः ।
वैकुण्ठे कण्ठलग्नस्थिरशुचिविलसत्कान्तितारुण्यलीला-
लावण्यापूर्णकान्ताकुचभरसुलभाश्लेषसम्मोदसान्द्राः ॥ ९ ॥

आनन्दान्मन्दमन्दा ददति हि मरुतः कुन्दमन्दारनन्द्या-
-वर्तामोदान् दधाना मृदुपदमुदितोद्गीतकैः सुन्दरीणाम् ।
वृन्दैरावन्द्यमुक्तेन्द्वहिमगुमदनाहीन्द्रदेवेन्द्रसेव्ये
मौकुन्दे मन्दिरेऽस्मिन्नविरतमुदयन्मोदिनां देवदेव ॥ १० ॥

उत्तप्ताऽत्युत्कटत्विट् प्रकटकटकटध्वानसङ्घट्‍टनोद्य-
-द्विद्युद्व्यूढस्फुलिङ्गप्रकरविकिरणोत्क्वाथिते बाधिताङ्गान् ।
उद्गाढं पात्यमाना तमसि तत इतः किङ्करैः पङ्किले ते
पङ्क्तिर्ग्राव्णां गरिम्णा ग्लपयति हि भवद्वेषिणो विद्वदाद्य ॥ ११ ॥

अस्मिन्नस्मद्गुरूणां हरिचरणचिरध्यानसन्मङ्गलानां
युष्माकं पार्श्वभूमिं धृतरणरणिकस्वर्गिसेव्यां प्रपन्नः ।
यस्तूदास्ते स आस्तेऽधिभवमसुलभक्लेशनिर्मूकमस्त-
-प्रायानन्दं कथञ्चिन्न वसति सततं पञ्चकष्टेऽतिकष्टे ॥ १२ ॥

क्षुत् क्षामान् रूक्षरक्षोरदखरनखरक्षुण्णविक्षोभिताक्षा-
-नामग्नानान्धकूपे क्षुरमुखमुखरैः पक्षिभिर्विक्षताङ्गान् ।
पूयासृङ्मूत्रविष्ठाकृमिकुलकलिले तत्क्षणक्षिप्तशक्त्या-
-द्यस्त्रव्रातार्दितांस्त्वद्द्विष उपजिहते वज्रकल्पा जलूकाः ॥ १३ ॥

मातर्मे मातरिश्वन् पितरतुलगुरो भ्रातरिष्टाप्तबन्धो
स्वामिन् सर्वान्तरात्मन्नजर जरयितर्जन्ममृत्यामयानाम् ।
गोविन्दे देहि भक्तिं भवति च भगवन्नूर्जितां निर्निमित्तां
निर्व्याजां निश्चलां सद्गुणगणबृहतीं शाश्वतीमाशु देव ॥ १४ ॥

विष्णोरत्त्युत्तमत्वादखिलगुणगणैस्तत्र भक्तिं गरिष्ठां
आश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु ।
यः सन्धत्ते विरिञ्चश्वसनविहगपानन्तरुद्रेन्द्रपूर्वे-
-ष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम् ॥ १५ ॥

तत्त्वज्ञान् मुक्तिभाजः सुखयिसि हि गुरो योग्यतातारतम्या-
-दाधत्से मिश्रबुद्धिंस्त्रिदिवनिरयभूगोचरान् नित्यबद्धान् ।
तामिस्रान्धादिकाख्ये तमसि सुबहुलं दुःखयस्यन्यथाज्ञान्
विष्णोराज्ञाभिरित्थं शृतिशतमितिहासादि चाकर्णयामः ॥ १६ ॥

वन्देऽहं तं हनूमानिति महितमहापौरुषो बाहुशाली
ख्यातस्तेऽग्र्योऽवतारः सहित इह बहुब्रह्मचर्यादिधर्मैः ।
सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजां
अंहोमोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे ॥ १७ ॥

प्राक्पञ्चाशत्सहस्रैर्व्यवहितमहितं योजनैः पर्वतं त्वं
यावत्सञ्जीवनाद्यौषधनिधिमधिकप्राण लङ्कामनैषिः ।
अद्राक्षीदुत्पतन्तं तत उत गिरिमुत्पाटयन्तं गृहीत्वा
यान्तं खे राघवाङ्घ्रौ प्रणतमपि तदैकक्षणे त्वां हि लोकः ॥ १८ ॥

क्षिप्तः पश्चात्सत्सलीलं शतमतुलमते योजनानां स उच्च-
-स्तावद्विस्तारवंश्चाप्युपललव इव व्यग्रबुद्ध्या त्वयाऽतः ।
स्वस्वस्थानस्थितातिस्थिरशकलशिलाजालसंश्लेषनष्ट-
-छ्छेदाङ्कः प्रागिवाभूत् कपिवरवपुषस्ते नमः कौशलाय ॥ १९ ॥

दृष्ट्वा दुष्टाधिपोरः स्फुटितकनकसद्वर्म घृष्टास्थिकूटं
निष्पिष्टं हाटकाद्रिप्रकटतटतटाकातिशङ्को जनोऽभूत् ।
येनाऽजौ रावणारिप्रियनटनपटुर्मुष्टिरिष्टं प्रदेष्टुं
किं नेष्टे मे स तेऽष्टापदकटकतटित्कोटिभामृष्टकाष्ठः ॥ २० ॥

देव्यादेशप्रणीतिदृहिणहरवरावध्यरक्षोविघाता-
-द्यासेवोद्यद्दयार्द्रः सहभुजमकरोद्रामनामा मुकुन्दः ।
दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूर्धिविन्यस्य धन्यं
तन्वन्भूयः प्रभूतप्रणयविकसिताब्जेक्षणस्त्वेक्षमाणः ॥ २१ ॥

जघ्ने निघ्नेन विघ्नो बहुलबलबकध्वंसनाद्येन शोच-
-द्विप्रानुक्रोशपाशैरसुविधृतिसुखस्यैकचक्राजनानाम् ।
तस्मै ते देव कुर्मः कुरुकुलपतये कर्मणा च प्रणामान्
किर्मीरं दुर्मतीनां प्रथममथ च यो नर्मणा निर्ममाथ ॥ २२ ॥

निर्मृद्नन्नत्ययत्नं विजरवर जरासन्धकायास्थिसन्धीन्
युद्धे त्वं स्वध्वरे वा पशुमिव दमयन् विष्णुपक्षद्विडीशम् ।
यावत्प्रत्यक्षभूतं निखिलमखभुजं तर्पयामासिथासौ
तावत्याऽयोजि तृप्त्या किमु वद भगवन् राजसूयाश्वमेधे ॥ २३ ॥

क्ष्वेलाक्षीणाट्‍टहासं तव रणमरिहन्नुद्गदोद्दामबाहोः
बह्वक्षौहिण्यनीकक्षपणसुनिपुणं यस्य सर्वोत्तमस्य ।
शुश्रूषार्थं चकर्थ स्वयमयमथ संवक्तुमानन्दतीर्थ-
-श्रीमन्नामन्समर्थस्त्वमपि हि युवयोः पादपद्मं प्रपद्ये ॥ २४ ॥

दृह्यन्तीं हृदृहं मां दृतमनिल बलाद्द्रावयन्तीमविद्या-
-निद्रां विद्राव्य सद्योरचनपटुमथाऽपाद्य विद्यासमुद्र ।
वाग्देवी सा सुविद्याद्रविणद विदिता द्रौपदी रुद्रपत्न्या-
-दुद्रिक्ता द्रागभद्राद्रहयतु दयिता पूर्वभीमाऽज्ञया ते ॥ २५ ॥

याभ्यां शुश्रूषुरासीः कुरुकुलजनने क्षत्रविप्रोदिताभ्यां
ब्रह्मभ्यां बृंहिताभ्यां चितसुखवपुषा कृष्णनामास्पदाभ्याम् ।
निर्भेदाभ्यां विशेषाद्विवचनविषयाभ्याममूभ्यामुभाभ्यां
तुभ्यं च क्षेमदेभ्यः सरिसिजविलसल्लोचनेभ्यो नमोऽस्तु ॥ २६ ॥

गच्छन् सौगन्धिकार्थं पथि स हनुमतः पुच्छमच्छस्य भीमः
प्रोद्धर्तुं नाशकत्स त्वमुमुरुवपुषा भीषयामास चेति ।
पूर्णज्ञानौजसोस्ते गुरुतम वपुषोः श्रीमदानन्दतीर्थ
क्रीडामात्रं तदेतत् प्रमदद सुधियां मोहक द्वेषभाजाम् ॥ २७ ॥

बह्वीः कोटीरटीकः कुटलकटुमतीनुत्कटाटोपकोपान्
द्राक्च त्वं सत्वरत्वाच्चरणद गदया पोथयामासिथारीन् ।
उन्मथ्यातथ्यमिथ्यात्ववचनवचनानुत्पथस्थांस्तथाऽन्यान्
प्रायच्छः स्वप्रियायै प्रियतमकुसुमं प्राण तस्मै नमस्ते ॥ २८ ॥

देहादुत्क्रामितानामधिपतिरसतामक्रमाद्वक्रबुद्धिः
क्रुद्धः क्रोधैकवश्यः क्रिमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् ।
चक्रे भूचक्रमेत्य क्रकचमिव सतां चेतसः कष्टशास्त्रं
दुस्तर्कं चक्रपाणेर्गुणगणविरहं जीवतां चाधिकृत्य ॥ २९ ॥

तद्दुष्प्रेक्षानुसारात्कतिपयकुनरैरादृतोऽन्यैर्विसृष्टो
ब्रह्माऽहं निर्गुणोऽहं वितथमिदमिति ह्येष पाषण्डवादः ।
तद्युक्त्याभासजालप्रसरविषतरूद्दाहदक्षप्रमाण-
-ज्वालामालाधराग्निः पवन विजयते तेऽवतारस्तृतीयः ॥ ३० ॥

आक्रोशन्तो निराशा भयभरविवशस्वाशयाश्छिन्नदर्पा
वाशन्तो देशनाशस्विति बत कुधियां नाशमाशादशाऽशु ।
धावन्तोऽश्लीलशीला वितथशपथशापाशिवाः शान्तशौर्या-
-स्त्वद्व्याख्यासिंहनादे सपदि ददृशिरे मायिगोमायवस्ते ॥ ३१ ॥

त्रिष्वप्येवावतारेष्वरिभिरपघृणं हिंसितो निर्विकारः
सर्वज्ञः सर्वशक्तिः सकलगुणगणापूर्णरूपप्रगल्भः ।
स्वच्छः स्वच्छन्दमृत्युः सुखयसि सुजनं देव किं चित्रमत्र
त्राता यस्य त्रिधामा जगदुत वशगं किङ्कराः शङ्कराद्याः ॥ ३२ ॥

उद्यन्मन्दस्मितश्रीमृदु मधुमधुरालापपीयूषधारा-
-पूरासेकोपशान्तासुखसुजनमनोलोचनापीयमानम् ।
सन्द्रक्ष्ये सुन्दरं सन्दुहदिह महदानन्दमानन्दतीर्थ
श्रीमद्वक्त्रेन्दुबिम्बं दुरतनुदुदितं नित्यदाऽहं कदा नु ॥ ३३ ॥

प्राचीनाचीर्णपुण्योच्चयचतुरतराचारतश्चारुचित्ता-
-नत्युच्चां रोचयन्तीं श्रुतिचितवचनां श्रावकांश्चोद्यचुञ्चून् ।
व्याख्यामुत्खातदुःखां चिरमुचितमहाचार्य चिन्तारतांस्ते
चित्रां सच्छास्त्रकर्ताश्चरणपरिचराञ्छ्रावयास्मांश्च किञ्चित् ॥ ३४ ॥

पीठे रत्नोकपक्लृप्ते रुचिररुचिमणिज्योतिषा सन्निषण्णं
ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्याः ।
सेवन्ते मूर्तिमत्यः सुचरित चरितं भाति गन्धर्व गीतं
प्रत्येकं देवसंसत्स्वपि तव भगवन्नर्तितद्योवधूषु ॥ ३५ ॥

सानुक्रोशैरजस्रं जनिमृतिनिरयाद्यूर्मिमालाविलेऽस्मिन्
संसाराब्धौ निमग्नान् शरणमशरणानिच्छतो वीक्ष्य जन्तून् ।
युष्माभिः प्रार्थितः सन् जलनिधिशयनः सत्यवत्यां महर्षे-
-र्व्यक्तश्चिन्मात्रमूर्तिर्न खलु भगवतः प्राकृतो जातु देहः ॥ ३६ ॥

अस्तव्यस्तं समस्तश्रुतिगतमधमै रत्नपूगं यथाऽन्धै-
-रर्थं लोकोपकृत्यै गुणगणनिलयः सूत्रयामास कृत्स्नम् ।
योऽसौ व्यासाभिधानस्तमहमहरहर्भक्तितस्त्वत्प्रसादात्
सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देवदेवं नमामि ॥ ३७ ॥

आज्ञामन्यैरधार्यां शिरसि परिसरद्रश्मिकोटीरकोटौ
कृष्णस्याक्लिष्टकर्मा दधदनुसराणादर्थितो देवसङ्घैः ।
भूमावागत्य भूमन्नसुकरमकरोर्ब्रह्मसूत्रस्य भाष्यं
दुर्भाष्यं व्यस्य दस्योर्मणिमत उदितं वेदसद्युक्तिभिस्त्वम् ॥ ३८ ॥

भूत्वा क्षेत्रे विशुद्धे द्विजगणनिलये रौप्यपीठाभिधाने
तत्रापि ब्रह्मजातिस्त्रिभुवनविशदे मध्यगेहाख्यगेहे ।
पारिव्राज्याधिराजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा
कृत्वा भाष्याणि सम्यग् व्यतनुत च भवान् भारतार्थप्रकाशम् ॥ ३९ ॥

वन्दे तं त्वां सुपूर्णप्रमतिमनुदिनासेवितं देववृन्दैः
वन्दे वन्दारुमीशे श्रिय उत नियतं श्रीमदानन्दतीर्थम् ।
वन्दे मन्दाकिनीसत्सरिदमलजलासेकसाधिक्यसङ्गं
वन्देऽहं देव भक्त्या भवभयदहनं सज्जनान्मोदयन्तम् ॥ ४० ॥

सुब्रह्मण्याख्यसूरेः सुत इति सुभृशं केशवानन्दतीर्थ-
श्रीमत्पादाब्जभक्तः स्तुतिमकृत हरेर्वायुदेवस्य चास्य ।
तत्पादार्चादरेण ग्रथितपदलसन्मालया त्वेतया ये
संराध्यामू नमन्ति प्रततमतिगुणा मुक्तिमेते व्रजन्ति ॥ ४१ ॥

अथ श्रीनखस्तुतिः ।

पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा
कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः ।
श्रीमत्कण्ठीरवास्य प्रतत सुनखरा दारितारातिदूर-
प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः ॥ १ ॥

लक्ष्मीकान्त समन्ततोऽविकलयन् नैवेशितुस्ते समं
पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः ।
यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुरत्
खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २ ॥

इति श्रीत्रिविक्रमपण्डिताचार्य विरचिता वायुस्तुतिः समाप्ता ।


గమనిక : "శ్రీ దత్తాత్రేయ స్తోత్రనిధి" పుస్తకము ముద్రణ చేయబోతున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed