Sri Surya Stavaraja Stotram – श्री सूर्य स्तवराज स्तोत्रम्


ब्रह्मोवाच ।
स्तवनं सामवेदोक्तं सूर्यस्य व्याधिमोचनम् ।
सर्वपापहरं सारं धनारोग्यकरं परम् ॥ १ ॥

तं ब्रह्म परमं धाम ज्योतीरूपं सनातनम् ।
त्वामहं स्तोतुमिच्छामि भक्तानुग्रहकारकम् ॥ २ ॥

त्रैलोक्यलोचनं लोकनाथं पापविमोचनम् ।
तपसां फलदातारं दुःखदं पापिनां सदा ॥ ३ ॥

कर्मानुरूपफलदं कर्मबीजं दयानिधिम् ।
कर्मरूपं क्रियारूपमरूपं कर्मबीजकम् ॥ ४ ॥

ब्रह्मविष्णुमहेशानामंशं च त्रिगुणात्मकम् ।
व्याधिदं व्याधिहन्तारं शोकमोहभयापहम् ।
सुखदं मोक्षदं सारं भक्तिदं सर्वकामदम् ॥ ५ ॥

सर्वेश्वरं सर्वरूपं साक्षिणं सर्वकर्मणाम् ।
प्रत्यक्षं सर्वलोकानामप्रत्यक्षं मनोहरम् ॥ ६ ॥

शश्वद्रसहरं पश्चाद्रसदं सर्वसिद्धिदम् ।
सिद्धिस्वरूपं सिद्धेशं सिद्धानां परमं गुरुम् ॥ ७ ॥

स्तवराजमिदं प्रोक्तं गुह्याद्गुह्यतरं परम् ।
त्रिसन्ध्यं यः पठेन्नित्यं व्याधिभ्यः स प्रमुच्यते ॥ ८ ॥

आन्ध्यं कुष्ठं च दारिद्र्यं रोगः शोको भयं कलिः ।
तस्य नश्यति विश्वेश श्रीसूर्यकृपया ध्रुवम् ॥ ९ ॥

महाकुष्ठी च गलितो चक्षुर्हीनो महाव्रणी ।
यक्ष्मग्रस्तो महाशूली नानाव्याधियुतोऽपि वा ॥ १० ॥

मासं कृत्वा हविष्यान्नं श्रुत्वाऽतो मुच्यते ध्रुवम् ।
स्नानं च सर्वतीर्थानां लभते नात्र संशयः ॥ ११ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे गणपतिखण्डे एकोनविंशोऽध्याये ब्रह्मकृत श्री सूर्य स्तवराजम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed