Sri Ravi Ashtakam – श्री रवि अष्टकम्


उदयाद्रिमस्तकमहामणिं लसत्
कमलाकरैकसुहृदं महौजसम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ १ ॥

तिमिरापहारनिरतं निरामयं
निजरागरञ्जितजगत्त्रयं विभुम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ २ ॥

दिनरात्रिभेदकरमद्भुतं परं
सुरवृन्दसंस्तुतचरित्रमव्ययम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ३ ॥

श्रुतिसारपारमजरामयं परं
रमणीयविग्रहमुदग्ररोचिषम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ४ ॥

शुकपक्षतुण्डसदृशाश्वमण्डलं
अचलावरोहपरिगीतसाहसम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ५ ॥

श्रुतितत्त्वगम्यमखिलाक्षिगोचरं
जगदेकदीपमुदयास्तरागिणम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ६ ॥

श्रितभक्तवत्सलमशेषकल्मष-
-क्षयहेतुमक्षयफलप्रदायिनम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ७ ॥

अहमन्वहं सतुरगक्षताटवी-
-शतकोटिहालकमहामहीधनम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ८ ॥

इति सौरमष्टकमहर्मुखे रविं
प्रणिपत्य यः पठति भक्तितो नरः ।
स विमुच्यते सकलरोगकल्मषैः
सवितुः समीपमपि सम्यगाप्नुयात् ॥ ९ ॥

इति श्री रवि अष्टकम् ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed