Manu Krutha Surya Stuti – श्री सूर्य स्तुतिः (मनु कृतम्)


मनुरुवाच ।
नमो नमो वरेण्याय वरदायाऽम्शुमालिने ।
ज्योतिर्मय नमस्तुभ्यमनन्तायाजिताय ते ॥ १ ॥

त्रिलोकचक्षुषे तुभ्यं त्रिगुणायामृताय च ।
नमो धर्माय हंसाय जगज्जननहेतवे ॥ २ ॥

नरनारीशररीराय नमो मीढुष्टमाय ते ।
प्रज्ञानायाखिलेशाय सप्ताश्वाय त्रिमूर्तये ॥ ३ ॥

नमो व्याहृतिरूपाय त्रिलक्षायाऽऽशुगामिने ।
हर्यश्वाय नमस्तुभ्यं नमो हरितवाहवे ॥ ४ ॥

एकलक्षविलक्षाय बहुलक्षाय दण्डिने ।
एकसंस्थद्विसंस्थाय बहुसंस्थाय ते नमः ॥ ५ ॥

शक्तित्रयाय शुक्लाय रवये परमेष्ठिने ।
त्वं शिवस्त्वं हरिर्देव त्वं ब्रह्मा त्वं दिवस्पतिः ॥ ६ ॥

त्वमोङ्कारो वषट्कारः स्वधा स्वाहा त्वमेव हि ।
त्वामृते परमात्मानं न तत्पश्यामि दैवतम् ॥ ७ ॥

इति श्रीसौरपुराणे प्रथमोऽध्याये मनुकृत श्री सूर्य स्तुतिः ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed