Sri Narasimha Avatara Churnika – श्री नृसिंहावतार चूर्णिका



इत्थं दानवेन्द्रः हिरण्यकशिपुः परिगृह्यमाणवैरः, वैरानुबन्धजाज्वल्यमानरोषानलः, रोषानलजङ्घन्यमानविज्ञानविनयः, विनयगाम्भीर्यजेगीयमानहृदयः, हृदयचाञ्चल्यमानतामसः, तामसगुणचङ्क्रमाणस्थैर्यो भूत्वा, विस्रम्भेण हुङ्कृत्य, बालं प्रह्लादं परमभागवतं धिक्कृत्य भगवन्तं श्रियःपतिं अस्मिन् स्तम्भे दर्शयेति, कनत्कनकमयकङ्कण क्रेङ्कारशब्दपूर्वकं दिग्दन्तिदन्तभेदनपाटवप्रशस्तेन हस्तेन सभामण्डपस्तम्भे प्रताडिते, प्रक्षुभित परिविदलितदशदिगन्तात् तन्महास्तम्भात् बम्भज्यमानात्, प्रोद्भूतैः जञ्जन्यमानैः, प्रलयवेलासम्भूत सप्तस्कन्धबन्धुरसमीरणसङ्घटित घोररजोघुष्यमाण महाबलाहकवर्गनिर्गत-निबिडनिष्ठुर दुस्सहनिर्घातसङ्घ निघोषनिकाशच्छटच्छट स्फटस्फटद्ध्वनिप्रमुख भयङ्करारवपुञ्जैः परिव्याप्तैः निरवकाशं आकाशकुहरान्तरालेषु परिपूरितेषु, प्रक्षुभितप्रकम्पितस्वस्वस्थानतया परवशैः नितान्तदोधूयमानहृदयैः पितामह महेन्द्र वरुण वायुशिखिमुख चराचरजन्तुजालैः सह ब्रह्माण्डकटाहेषु परिस्फोटितेषु, भगवान् श्रियः पतिः श्रीमन्नारायणः, भक्तानामभयङ्करः, दुष्टनिग्रह शिष्टपरिपालनक्षमः, शरणागतवत्सलः, प्रफुल्लपद्मयुगलसङ्काशभास्वर चक्रचापहलकुलिशजलचररेखाङ्कित चारुचरणतलः, चरणचङ्क्रमण घनविनमित विश्वविश्वम्भराभारधौरेय दिक्कुम्भिकुम्भिनसकुम्भिनीधरकूर्मकुलशेखरः, जलराशिजात शुण्डाल शुण्डादण्डमण्डित प्रकाण्डप्रचण्डमहोरुस्तम्भयुगलः, घणघणायमान मणिकिङ्किणीकणमुखरित मेखलावलयवलयित पीताम्बरपरिशोभित कटिप्रदेशः, निर्जरनिम्नगावर्तवर्तुलकमलाकर गम्भीरनाभिविवरः, कुलाचलसानुभागसदृश कर्कशविशालवक्षस्थलः, दुर्जनदनुजधैर्यलतिकालवित्रायमाण रक्षोराजवक्षोभाग विशङ्कटक्षेत्रविलेखनचङ्गलाङ्गलायमान-शरणागतनयन चकोरचन्द्ररेखायमाण वज्रायुधप्रतिमानभासमान निशातनखरतरमुखनखरः, शङ्खचक्र गदाखड्ग कुन्ततोमरप्रमुख नानायुधः, महितमहोत्तुङ्ग महीधरशृङ्गसन्निभः, वीरसागरवेलायमान मालिकाविराजमानः, निरर्गलानेकशतभुजार्गलः, मञ्जुमञ्जीर मणिपुञ्जरञ्जित मञ्जुलहारकेयूरकङ्कणकिरीट- मकरकुण्डलादिभूषणभूषितः, त्रिवलियुतशिखरिशिखराभपरिणद्ध बन्धुरकन्धरः, प्रकम्पनकम्पित पारिजातपादप पल्लवप्रतीकाशकोपावेशसञ्चलिताधरः, शरत्काल मेघजालमध्य धगद्धगायमान तटिल्लतासमान देदीप्यमान दंष्ट्राङ्कुरः, कल्पान्तकाल सकलभुवनग्रसनविलसन विजृम्भमाण सप्तजिह्वजिह्वातुलित तरलतरायमाण विभ्राजमानजिह्वः, मेरुमन्दर महागुहान्तराल विस्तारविपुल वक्त्रनासिकारन्ध्रः नासिकारन्ध्र निस्सरन्निबिडनिश्वासनिकरसङ्घट्‍टनसङ्क्षोभित सन्तप्यमान सप्तसागरः, पूर्वपर्वतविद्योतमान खद्योतमण्डलसदृक्ष समञ्चितलोचनः, लोचनाञ्चलसमुत्कीर्यमाण विलोलकीलाभील विस्फुलिङ्गवितानरोरुध्यमान तारकाग्रहमण्डलः, शक्रचापसुरुचिरादभ्र महाभ्रूलताबन्धबन्धुर भयङ्करवदनः, घनतरगण्डशैलतुल्य कमनीय गण्डभागः, सन्ध्यारागरक्तधाराधर मालिकाप्रतिम महाभ्रङ्कषतन्तन्यमानपटुतर सटाजालः, सटाजालसञ्चालसञ्जात वाताहतिडोलायमान वैमानिकविमानः, निष्कम्पितशङ्खवर्णमहोर्ध्वकर्णः, मन्थदण्डायमान मन्दरवसुन्धराधर परिभ्रमणवेगसमुत्पद्यमान वियन्मण्डलमण्डित सुधाराशिकल्लोल शीकराकारभासुरकेसरः, पर्वाखर्वशिशिरकिरणमयूख गौरतनूरुहः, निजगर्जानिनदनिर्दलित कुमुदसुप्रतीकवामनै रावणसार्वभौमप्रमुख दिगिभराजकर्णकोटरः, धवलधराधर दीर्घदुरवलोकनीय दिव्यदेहः, देहप्रभा पटलनिर्मथ्यमान परिपन्थियातुधान निकुरुम्बगर्वान्धकारः, प्रह्लादहिरण्यकशिपु रञ्जनभञ्जन निमित्तान्तरङ्ग बहिरङ्ग जेगीयमान करुणावीररस सम्युतः, महाप्रभावः, श्रीनारायणनरसिंहः, नारायणवीरसिंहः, नारायणक्रूरसिंहः, नारायणदिव्यसिंहः, नारायणव्याघ्रसिंहः, नारायणपुच्छसिंहः, नारायणपूर्णसिंहः, नारायणरौद्रसिंहः, भीषणभद्रसिंहः, विह्वलनेत्रसिंहः, बृंहितभूतसिंहः, निर्मलचित्रसिंहः, निर्जितकालसिंहः, कल्पितकल्पसिंहः, कामदकामसिंहः, भुवनैकपूर्णसिंहः, कालाग्निरुद्रसिंहः, अनन्तसिंहराजसिंहः, जयसिंहरूपसिंहः, नरसिंहरूपसिंहः, रणसिंहरूपसिंहः, महासिंहरूपसिंहः, अभयङ्कररूपसिंहः, हिरण्यकशिपुहारिसिंहः, प्रह्लादवरदसिंहः, भक्ताभीष्टदायिसिंहः, लक्ष्मीनृसिंहरूपसिंहः, अत्यद्भुतरूपसिंहः, श्रीनृसिंहदेवः, आत्मनः सकलभुवनव्याप्तिं निजभृत्यभाषितं च सत्यं विधातुं, प्रपन्नरक्षणाय परिस्फोटित तन्महास्तम्भे पर्यदृश्यत, पर्यदृश्यत ।

इति श्री नृसिंहावतार चूर्णिका ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed