Sri Narasimha Dvatrimshat Beejamala Stotram – श्री नृसिंह द्वात्रिंशद्बीजमाला स्तोत्रम्



उद्गीताढ्यं महाभीमं त्रिनेत्रं चोग्रविग्रहम् ।
उज्ज्वलं तं श्रियाजुष्टं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १ ॥

ग्रन्थान्त वेद्यं देवेशं गगनाश्रय विग्रहम् ।
गर्जनात्रस्त विश्वाण्डं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २ ॥

वीथिहोत्रेक्षणं वीरं विपक्षक्षयदीक्षितम् ।
विश्वम्बरं विरूपाक्षं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३ ॥

रङ्गनाथं दयानाथं दीनबन्धुं जगद्गुरुम् ।
रणकोलाहलं धीरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ४ ॥

मन्त्रराजासनारूढं मार्ताण्डोज्ज्वल तेजसम् ।
मणिरत्नकिरीटाढ्यं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ५ ॥

हाहाहूह्वादि गन्धर्वैः स्तूयमानपदाम्बुजम् ।
उग्ररूपधरं देवं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ६ ॥

विधिवेदप्रदं वीरं विघ्ननाशं रमापतिम् ।
वज्रखड्गधरं धीरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ७ ॥

विष्णुशब्धदलस्तम्भं दुष्टराक्षसनाशनम् ।
दुर्निरीक्षं दुराधर्षं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ८ ॥

ज्वलत्पावकसङ्काशं ज्वालामालामुखाम्बुजम् ।
दारिद्र्यनाशनं श्री तं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ९ ॥

लं बीजं देवतानाथं दीर्घवृत्त महाभुजम् ।
लक्ष्म्यालिङ्गित वक्षस्कं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १० ॥

तन्त्रीभूज जगत्कृत्स्नं धर्मवैकुण्ठनायकम् ।
मन्त्रजापक सान्निध्यं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ११ ॥

सर्वाण्डकोशमालाढ्यं सर्वाण्डान्तरवासिनम् ।
अष्टास्यकण्ठभेरण्डं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १२ ॥

तोमराङ्कुश वज्राणां समदंष्ट्रैर्मुखैः स्थितम् ।
शत्रुक्षयकरं व्याघ्रं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १३ ॥

मुनिमानससञ्चारं भुक्तिमुक्तिफलप्रदम् ।
हयास्यं ज्ञानदातारं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १४ ॥

कं शब्द कङ्कणोपेतं कमलायतलोचनम् ।
सर्वैश्वर्यप्रदं क्रोडं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १५ ॥

नृलोकरक्षणपरं भूतोच्चाटन तत्परम् ।
आञ्जनेयमुखं वीरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १६ ॥

सितवर्णं दीर्घनासं नागाभरणभूषितम् ।
गरुडास्यं महाधीरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १७ ॥

म्हं म्हं म्हं शब्दसहितं मानवाराधनोत्सुकम् ।
भल्लूकवक्त्रं भीतिघ्नं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १८ ॥

भीमाक्षनासिकोपेतं वेदग्रहणतत्परम् ।
धरणीधृतमुत्सङ्गं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १९ ॥

षड्वक्त्रपूजिताङ्घ्र्यब्जं धृष्टकोद्धृतमण्डलम् ।
कोमलाङ्गं महासत्वं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २० ॥

णङ्कारकिङ्किणीजालं ज्ञानमूर्तिं धरापतिम् ।
वराहाङ्गं मुदाराङ्गं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २१ ॥

भयघ्नं सर्वभूतानां प्रह्लादाभीष्टदायिनम् ।
नृसिंहस्तम्भसम्बोध्यं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २२ ॥

द्रव्ययाञ्चापरं विप्रं बलिमानमुषं हरिम् ।
वामनं रूपमास्थाय श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २३ ॥

मृत्युरूपं क्षत्रियाणां मुग्धस्निग्धमुखाम्बुजम् ।
जामदग्न्यं परं देवं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २४ ॥

द्युं शब्दयुक्तकोदण्डं दुष्टरावणमर्दनम् ।
रामं कमलपत्राक्षं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २५ ॥

मृदङ्गगीतप्रणवश्रवणासक्तमानसम् ।
बलरामं हलधरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २६ ॥

द्युं द्युं द्युं द्युं वेणुनादं ब्रह्मरुद्रादिसेवितम् ।
यशोदातनयं कृष्णं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २७ ॥

नलिनाक्षं अग्निरूपं म्लेच्छनाशनतत्परम् ।
ज्वालामालापूरिताङ्गं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २८ ॥

मानायकं महासत्वं ममाभीष्टप्रदायकम् ।
मद्रक्षणपरं शान्तं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २९ ॥

मृत्युटङ्कारसम्युक्तं शार्ङ्गधन्वानमीश्वरम् ।
सद्वस्त्राभरणोपेतं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३० ॥

यन्नामस्मरणात् सर्वभूतवेतालराक्षसाः ।
शत्रवः प्रलयं यान्ति श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३१ ॥

हं बीजनादं सर्वेशं शरणं वरयाम्यहम् ।
उपायभूतं लक्ष्मीशं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३२ ॥

फलश्रुतिः ।
भरद्वाजकृतं स्तोत्रं मन्त्रजार्णवसम्भवम् ।
सकृत्पठनमात्रेण सर्वदुःखविनाशनम् ॥ १ ॥

राजवश्यं जगद्वश्यं सर्ववश्यं भवेद्ध्रुवम् ।
भूतप्रेतपिशाचादि व्याधि दुर्भिक्षतस्कराः ॥ २ ॥

दूरादेव प्रणश्यन्ति सत्यं सत्यं न संशयः ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ ३ ॥

सर्वार्थी सर्वमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।
यं यं कामयते चित्तं तं तं प्राप्नोति निश्चयम् ॥ ४ ॥

इति श्रीभरद्वाजमुनि कृतं श्री नृसिंह द्वात्रिंशद्बीजमाला स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed