Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
यं ध्यायसे स क्व तवास्ति देव
इत्युक्त ऊचे पितरं सशस्त्रम् ।
प्रह्लाद आस्तेखिलगो हरिः स
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ १ ॥
तदा पदाताडयदादिदैत्यः
स्तम्भं ततोऽह्नाय घुरूरुशब्दम् ।
चकार यो लोकभयङ्करं स
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ २ ॥
स्तम्भं विनिर्भिद्य विनिर्गतो यो
भयङ्कराकार उदस्तमेघः ।
जटानिपातैः स च तुङ्गकर्णो
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ३ ॥
पञ्चाननास्यो मनुजाकृतिर्यो
भयङ्करस्तीक्ष्णनखायुधोऽरिम् ।
धृत्वा निजोर्वोर्विददार सोऽसौ
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ४ ॥
वरप्रदोक्तेरविरोधतोऽरिं
जघान भृत्योक्तमृतं हि कुर्वन् ।
स्रग्वत्तदन्त्रं निदधौ स्वकण्ठे
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ५ ॥
विचित्रदेहोऽपि विचित्रकर्मा
विचित्रशक्तिः स च केसरीह ।
पापं च तापं विनिवार्य दुःखं
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ६ ॥
प्रह्लादः कृतकृत्योऽभूद्यत्कृपालेशतोऽमराः ।
निष्कण्टकं स्वधामापुः श्रीनृसिंहः स पातु माम् ॥ ७ ॥
दंष्ट्राकरालवदनो रिपूणां भयकृद्भयम् ।
इष्टदो हरति स्वस्य वासुदेवः स पातु माम् ॥ ८ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री लक्ष्मीनृसिंहाष्टकम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.