Trailokya Vijaya Narasimha Kavacham – श्री नृसिंह कवचम् (त्रैलोक्यविजयम्)



नारद उवाच ।
इन्द्रादिदेववृन्देश ईड्येश्वर जगत्पते ।
महाविष्णोर्नृसिंहस्य कवचं ब्रूहि मे प्रभो ।
यस्य प्रपठनाद्विद्वांस्त्रैलोक्यविजयी भवेत् ॥ १ ॥

ब्रह्मोवाच ।
शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोधन ।
कवचं नरसिंहस्य त्रैलोक्यविजयी भवेत् ॥ २ ॥

स्रष्टाऽहं जगतां वत्स पठनाद्धारणाद्यतः ।
लक्ष्मीर्जगत्त्रयं पाति संहर्ता च महेश्वरः ॥ ३ ॥

पठनाद्धारणाद्देवा बहवश्च दिगीश्वराः ।
ब्रह्ममन्त्रमयं वक्ष्ये भ्रान्त्यादिविनिवारकम् ॥ ४ ॥

यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी भवेत् ।
पठनाद्धारणाद्यस्य शास्ता च क्रोधभैरवः ॥ ५ ॥

त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दस्तु गायत्री नृसिंहो देवता विभुः ॥ ६ ॥

चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्तितः ।
क्ष्रौं बीजं मे शिरः पातु चन्द्रवर्णो महामनुः ॥ ७ ॥

ओं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ ८ ॥

द्वात्रिंशदक्षरो मन्त्रो मन्त्रराजः सुरद्रुमः ।
कण्ठं पातु ध्रुवं क्ष्रौं हृद्भगवते चक्षुषी मम ॥ ९ ॥

नरसिंहाय च ज्वालामालिने पातु कर्णकम् ।
दीप्तदंष्ट्राय च तथा अग्निनेत्राय नासिकाम् ॥ १० ॥

सर्वरक्षोघ्नाय तथा सर्वभूतहिताय च ।
सर्वज्वरविनाशाय दह दह पदद्वयम् ॥ ११ ॥

रक्ष रक्ष वर्ममन्त्रः स्वाहा पातु मुखं मम ।
तारादिरामचन्द्राय नमः पातु हृदं मम ॥ १२ ॥

क्लीं पायात् पार्श्वयुग्मं च तारो नमः पदं ततः ।
नारायणाय नाभिं च आं ह्रीं क्रों क्ष्रौं च हुं फट् ॥ १३ ॥

षडक्षरः कटिं पातु ओं नमो भगवते पदम् ।
वासुदेवाय च पृष्ठं क्लीं कृष्णाय उरुद्वयम् ॥ १४ ॥

क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात् पदद्वयम् ॥ १५ ॥

क्ष्रौं नृसिंहाय क्ष्रौं ह्रीं च सर्वाङ्गं मे सदाऽवतु ।
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥ १६ ॥

तव स्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ।
गुरुपूजां विधायाथ गृह्णीयात् कवचं ततः ॥ १७ ॥

सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ॥ १८ ॥

हवनादीन् दशांशेन कृत्वा सत्साधकोत्तमः ।
ततस्तु सिद्धकवचो रूपेण मदनोपमः ॥ १९ ॥

स्पर्धामुद्धूय भवने लक्ष्मीर्वाणी वसेन्मुखे ।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत् सकृत् ॥ २० ॥

अपि वर्षसहस्राणां पूजानां फलमाप्नुयात् ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि ॥ २१ ॥

कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ।
योषिद्वामभुजे चैव पुरुषो दक्षिणे करे ॥ २२ ॥

बिभृयात् कवचं पुण्यं सर्वसिद्धियुतो भवेत् ।
काकवन्ध्या च या नारी मृतवत्सा च या भवेत् ॥ २३ ॥

जन्मवन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥ २४ ॥

त्रैलोक्यं क्षोभयत्येवं त्रैलोक्यविजयी भवेत् ।
भूतप्रेतपिशाचाश्च राक्षसा दानवाश्च ये ॥ २५ ॥

तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ।
यस्मिन् गृहे च कवचं ग्रामे वा यदि तिष्ठति ।
तद्देशं तु परित्यज्य प्रयान्ति ह्यातिदूरतः ॥ २६ ॥

इति श्रीब्रह्मसंहितायां सप्तदशोऽध्याये त्रैलोक्यविजयं नाम श्री नृसिंह कवचम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed