Sri Narasimha Stuti (Narayana Pandita Krutam) – श्री नृसिंह स्तुतिः (नारायणपण्डित कृतम्)


उदयरविसहस्रद्योतितं रूक्षवीक्षं
प्रलय जलधिनादं कल्पकृद्वह्निवक्त्रम् ।
सुरपतिरिपुवक्षश्छेद रक्तोक्षिताङ्गं
प्रणतभयहरं तं नारसिंहं नमामि ॥

प्रलयरविकरालाकाररुक्चक्रवालं
विरलयदुरुरोचीरोचिताशान्तराल ।
प्रतिभयतमकोपात्युत्कटोच्चाट्‍टहासिन्
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १ ॥

सरसरभसपादापातभाराभिराव
प्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्वम् ।
रिपुरुधिरनिषेकेणैव शोणाङ्घ्रिशालिन्
दह दह नरसिंहासह्यवीर्याहितं मे ॥ २ ॥

तव घनघनघोषो घोरमाघ्राय जङ्घा-
-परिघमलघुमूरुव्याजतेजोगिरिं च ।
घनविघटितमागाद्दैत्यजङ्घालसङ्घो
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ३ ॥

कटकिकटकराजद्धाटकाग्र्यस्थलाभा
प्रकटपटतटित्ते सत्कटिस्थाऽतिपट्वी ।
कटुककटुकदुष्टाटोपदृष्टिप्रमुष्टौ
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ४ ॥

प्रखरनखरवज्रोत्खातरूक्षादिवक्षः
शिखरिशिखररक्तैराक्तसन्दोहदेह ।
सुवलिभशुभकुक्षे भद्रगम्भीरनाभे
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ५ ॥

स्फुरयति तव साक्षात्सैव नक्षत्रमाला
क्षपितदितिजवक्षोव्याप्तनक्षत्रमार्गम् ।
अरिदरधरजान्वासक्त हस्तद्वयाहो
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ६ ॥

कटुविकटसटौघोद्घट्‍टनाद्भ्रष्टभूयो-
-घनपटलविशालाकाशलब्धावकाशम् ।
करपरिघविमर्दप्रोद्यमं ध्यायतस्ते
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ७ ॥

हयलुठदलघिष्ठोत्कण्ठदष्टोष्ठविद्यु-
-त्सटशठकठिनोरः पीठभित्सुष्ठुनिष्ठाम् ।
पठति नु तव कण्ठाधिष्ठघोरान्त्रमाला
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ८ ॥

हृतबहुमिहिराभासह्यसंहाररंहो
हुतवह बहुहेतिह्रेषिकानन्तहेति ।
अहितविहितमोहं संवहन् सैंहमास्यं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ९ ॥

गुरुगुरुगिरिराजत्कन्दरान्तर्गते वा
दिनमणिमणिशृङ्गे वन्तवह्निप्रदीप्ते ।
दधदतिकटुदंष्ट्रे भीषणोज्जिह्ववक्त्रे
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १० ॥

अपरितविबुधाब्धिध्यानधैर्यं विदध्य-
-द्विविधविबुधधीश्रद्धापितेन्द्रारिनाशम् ।
निदधदतिकटाहोद्धट्‍टनेद्धाट्‍टहासं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ११ ॥

त्रिभुवनतृणमात्रत्राणतृष्णं तु नेत्र-
-त्रयमतिलघितार्चिर्विष्टपाविष्टपादम् ।
नवतररविरत्नं धारयन् रूक्षवीक्षं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १२ ॥

भ्रमदभिभवभूभृद्भूरिभूभारसद्भि-
-द्भिदभिनव विदभ्रूविभ्रमादभ्रशुभ्र ।
ऋभुभवभयभेत्तर्भासि भोभोविभाभि-
-र्दह दह नरसिंहासह्यवीर्याहितं मे ॥ १३ ॥

श्रवणखचितचञ्चत्कुण्डलोच्चण्डगण्ड
भ्रुकुटिकटुललाटश्रेष्ठनासारुणोष्ठ ।
वरद सुरद राजत्केशरोत्सारितारे
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १४ ॥

प्रविकचकचराजद्रत्नकोटीरशालिन्
गलगतगलदुस्रोदाररत्नाङ्गदाढ्य ।
कनककटककाञ्चीशिञ्जिनीमुद्रिकावन्
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १५ ॥

अरिदरमसिखेटौ बाणचापे गदां स-
-न्मुसलमपि कराभ्यामङ्कुशं पाशवर्यम् ।
करयुगल धृतान्त्रस्रग्विभिन्नारिवक्षो
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १६ ॥

चट चट चट दूरं मोहय भ्रामयारीन्
कडि कडि कडि कामं ज्वालय स्फोटयस्व ।
जहि जहि जहि वेगं शात्रवं सानुबन्धं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १७ ॥

विधिभवविबुधेशभ्रामकाग्निस्फुलिङ्ग-
-प्रसविविकटदंष्ट्रोज्जिह्ववक्त्र त्रिनेत्र ।
कल कल कल कामं पाहि मां ते सुभक्तं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १८ ॥

कुरु कुरु करुणां तां साङ्कुरां दैत्यपोते
दिश दिश विशदां मे शाश्वतीं देव दृष्टिम् ।
जय जय जय मुर्तेऽनार्त जेतव्यपक्षं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १९ ॥

स्तुतिरियमहितघ्नी सेविता नारसिंही
तनुरिव परिशान्ता मालिनी साभितोलम् ।
तदखिलगुरुमाग्न्यश्रीदरूपा लसद्भिः
सुनियमनयकृत्यैः सद्गुणैर्नित्ययुक्ता ॥ २० ॥

लिकुचतिलकसूनुः सद्धितार्थानुसारी
नरहरिनुतिमेतां शत्रुसंहारहेतुम् ।
अकृत सकलपापध्वंसिनीं यः पठेत्तां
व्रजति नृहरिलोकं कामलोभाद्यसक्तः ॥ २१ ॥

इति श्रीमन्नारायणपण्डिताचार्य विरचिता श्री नरसिंह स्तुतिः ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed