Sri Harihara Putra (Ayyappa) Sahasranama Stotram – श्री हरिहरपुत्र (अय्यप्प) सहस्रनाम स्तोत्रम्


अस्य श्रीहरिहरपुत्र सहस्रनाम स्तोत्रमालामन्त्रस्य अर्धनारीश्वर ऋषिः, अनुष्टुप्छन्दः, श्रीहरिहरपुत्रो देवता, ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, श्रीहरिहरपुत्र प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

न्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ॥

एवं हृदयादिन्यासः ॥

ध्यानम् –
ध्यायेदुमापतिरमापतिभाग्यपुत्रं
वेत्रोज्ज्वलत्करतलं भसिताभिरामम् ।
विश्वैकवश्यवपुषं मृगयाविनोदं
वाञ्छानुरूपफलदं वरभूतनाथम् ॥ १ ॥

आश्यामकोमलविशालतनुं विचित्र-
-वासोवसानमरुणोत्पल वामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ २ ॥

स्तोत्रं –

शिवपुत्रो महातेजाः शिवकार्यधुरन्धरः ।
शिवप्रदः शिवज्ञानी शैवधर्मसुरक्षकः ॥ १ ॥

शङ्खधारी सुराध्यक्षश्चन्द्रमौलिः सुरोत्तमः ।
कामेशः कामतेजस्वी कामादिफलसम्युतः ॥ २ ॥

कल्याणः कोमलाङ्गश्च कल्याणफलदायकः ।
करुणाब्धिः कर्मदक्षः करुणारससागरः ॥ ३ ॥

जगत्प्रियो जगद्रक्षो जगदानन्ददायकः ।
जयादिशक्तिसंसेव्यो जनाह्लादो जिगीषुकः ॥ ४ ॥

जितेन्द्रियो जितक्रोधो जितदेवारिसङ्घकः ।
जैमिन्यादृषिसंसेव्यो जरामरणनाशकः ॥ ५ ॥

जनार्दनसुतो ज्येष्ठो ज्येष्ठादिगणसेवितः ।
जन्महीनो जितामित्रो जनकेनाभिपूजितः ॥ ६ ॥

परमेष्ठी पशुपतिः पङ्कजासनपूजितः ।
पुरहन्ता पुरत्राता परमैश्वर्यदायकः ॥ ७ ॥

पवनादिसुरैः सेव्यः पञ्चब्रह्मपरायणः ।
पार्वतीतनयो ब्रह्म परानन्दः परात्परः ॥ ८ ॥

ब्रह्मिष्ठो ज्ञाननिरतो गुणागुणनिरूपकः ।
गुणाध्यक्षो गुणनिधिः गोपालेनाभिपुजितः ॥ ९ ॥

गोरक्षको गोधनदो गजारूढो गजप्रियः ।
गजग्रीवो गजस्कन्धो गभस्तिर्गोपतिः प्रभुः ॥ १० ॥

ग्रामपालो गजाध्यक्षो दिग्गजेनाभिपूजितः ।
गणाध्यक्षो गणपतिर्गवां पतिरहर्पतिः ॥ ११ ॥

जटाधरो जलनिभो जैमिन्यैरभिपूजितः ।
जलन्धरनिहन्ता च शोणाक्षः शोणवासकः ॥ १२ ॥

सुराधिपः शोकहन्ता शोभाक्षः सूर्यतेजसः ।
सुरार्चितः सुरैर्वन्द्यः शोणाङ्गः शाल्मलीपतिः ॥ १३ ॥

सुज्योतिः शरवीरघ्नः शरच्चन्द्रनिभाननः ।
सनकादिमुनिध्येयः सर्वज्ञानप्रदो विभुः ॥ १४ ॥

हलायुधो हंसनिभो हाहाहूहूमुखस्तुतः ।
हरिर्हरप्रियो हंसो हर्यक्षासनतत्परः ॥ १५ ॥

पावनः पावकनिभो भक्तपापविनाशनः ।
भसिताङ्गो भयत्राता भानुमान् भयनाशनः ॥ १६ ॥

त्रिपुण्ड्रकस्त्रिनयनस्त्रिपुण्ड्राङ्कितमस्तकः ।
त्रिपुरघ्नो देववरो देवारिकुलनाशकः ॥ १७ ॥

देवसेनाधिपस्तेजस्तेजोराशिर्दशाननः ।
दारुणो दोषहन्ता च दोर्दण्डो दण्डनायकः ॥ १८ ॥

धनुष्पाणिर्धराध्यक्षो धनिको धर्मवत्सलः ।
धर्मज्ञो धर्मनिरतो धनुः शास्त्रपरायणः ॥ १९ ॥

स्थूलकर्णः स्थूलतनुः स्थूलाक्षः स्थूलबाहुकः ।
तनूत्तमस्तनुत्राणस्तारकस्तेजसां पतिः ॥ २० ॥

योगीश्वरो योगनिधिर्योगीशो योगसंस्थितः ।
मन्दारवाटिकामत्तो मलयाचलवासभूः ॥ २१ ॥

मन्दारकुसुमप्रख्यो मन्दमारुतसेवितः ।
महाभासो महावक्षा मनोहरमदार्चितः ॥ २२ ॥

महोन्नतो महाकायो महानेत्रो महाहनुः ।
मरुत्पूज्यो मानधनो मोहनो मोक्षदायकः ॥ २३ ॥

मित्रो मेधा महौजस्वी महावर्षप्रदायकः ।
भाषको भाष्यशास्त्रज्ञो भानुमान् भानुतेजसः ॥ २४ ॥

भिषग्भवानिपुत्रश्च भवतारणकारणः ।
नीलाम्बरो नीलनिभो नीलग्रीवो निरञ्जनः ॥ २५ ॥

नेत्रत्रयो निषादज्ञो नानारत्नोपशोभितः ।
रत्नप्रभो रमापुत्रो रमया परितोषितः ॥ २६ ॥

राजसेव्यो राजधनः रणदोर्दण्डमण्डितः ।
रमणो रेणुकासेव्यो रजनीचरदारणः ॥ २७ ॥

ईशान इभराट्सेव्य ईषणात्रयनाशनः ।
इडावासो हेमनिभो हैमप्राकारशोभितः ॥ २८ ॥

हयप्रियो हयग्रीवो हंसो हरिहरात्मजः ।
हाटकस्फटिकप्रख्यो हंसारूढेन सेवितः ॥ २९ ॥

वनवासो वनाध्यक्षो वामदेवो वराननः ।
वैवस्वतपतिर्विष्णुः विराड्रूपो विशां पतिः ॥ ३० ॥

वेणुनादो वरग्रीवो वराभयकरान्वितः ।
वर्चस्वी विपुलग्रीवो विपुलाक्षो विनोदवान् ॥ ३१ ॥

वैणवारण्यवासश्च वामदेवेनसेवितः ।
वेत्रहस्तो वेदनिधिर्वंशदेवो वराङ्गकः ॥ ३२ ॥

ह्रीङ्कारो ह्रींमना हृष्टो हिरण्यो हेमसम्भवः ।
हुताशो हुतनिष्पन्नो हुङ्काराकृति सुप्रभः ॥ ३३ ॥

हव्यवाहो हव्यकरश्चाट्‍टहासोऽपराहतः ।
अणुरूपो रूपकरश्चाजरोऽतनुरूपकः ॥ ३४ ॥

हंसमन्त्रश्च हुतभुक् हेमाम्बरः सुलक्षणः ।
नीपप्रियो नीलवासाः निधिपालो निरातपः ॥ ३५ ॥

क्रोडहस्तस्तपस्त्राता तपोरक्षस्तपाह्वयः ।
मूर्धाभिषिक्तो मानी च मन्त्ररूपो मृडो मनुः ॥ ३६ ॥

मेधावी मेधसो मुष्णुः मकरो मकरालयः ।
मार्ताण्डो मञ्जुकेशश्च मासपालो महौषधिः ॥ ३७ ॥

श्रोत्रियः शोभमानश्च सविता सर्वदेशिकः ।
चन्द्रहासः शमः शक्तः शशिभासः शमाधिकः ॥ ३८ ॥

सुदन्तः सुकपोलश्च षड्वर्णः सम्पदोऽधिपः ।
गरलः कालकण्ठश्च गोनेता गोमुखप्रभुः ॥ ३९ ॥

कौशिकः कालदेवश्च क्रोशकः क्रौञ्चभेदकः ।
क्रियाकरः कृपालुश्च करवीरकरेरुहः ॥ ४० ॥

कन्दर्पदर्पहारी च कामदाता कपालकः ।
कैलासवासो वरदो विरोचनो विभावसुः ॥ ४१ ॥

बभ्रुवाहो बलाध्यक्षः फणामणिविभूषणः ।
सुन्दरः सुमुखः स्वच्छः सभासश्च सभाकरः ॥ ४२ ॥

शरानिवृत्तः शक्राप्तः शरणागतपालकः ।
तीक्ष्णदंष्ट्रो दीर्घजिह्वः पिङ्गलाक्षः पिशाचहा ॥ ४३ ॥

अभेद्यश्चाङ्गदार्ढ्यश्च भोजपालोऽथ भूपतिः ।
गृध्रनासोऽविषह्यश्च दिग्देहो दैन्यदाहकः ॥ ४४ ॥

बडबापूरितमुखो व्यापको विषमोचकः ।
हसन्तः समरक्रुद्धः पुङ्गवः पङ्कजासनः ॥ ४५ ॥

विश्वदर्पो निश्चिताज्ञो नागाभरणभूषितः ।
भरतो भैरवाकारो भरणो वामनक्रियः ॥ ४६ ॥

सिंहास्यः सिंहरूपश्च सेनापतिः सकारकः ।
सनातनः सिद्धरूपी सिद्धधर्मपरायणः ॥ ४७ ॥

आदित्यरूपश्चापद्घ्नश्चामृताब्धिनिवासभूः ।
युवराजो योगिवर्य उषस्तेजा उडुप्रभः ॥ ४८ ॥

देवादिदेवो दैवज्ञस्ताम्रोष्ठस्ताम्रलोचनः ।
पिङ्गलाक्षः पिञ्छचूडः फणामणिविभूषितः ॥ ४९ ॥

भुजङ्गभूषणो भोगो भोगानन्दकरोऽव्ययः ।
पञ्चहस्तेन सम्पूज्यः पञ्चबाणेन सेवितः ॥ ५० ॥

भवः शर्वो भानुमयः प्राजापत्यस्वरूपकः ।
स्वच्छन्दश्छन्दःशास्त्रज्ञो दान्तो देवमनुप्रभुः ॥ ५१ ॥

दशभुक्च दशाध्यक्षो दानवानां विनाशनः ।
सहस्राक्षः शरोत्पन्नः शतानन्दसमागमः ॥ ५२ ॥

गृध्राद्रिवासो गम्भीरो गन्धग्राहो गणेश्वरः ।
गोमेधो गण्डकावासो गोकुलैः परिवारितः ॥ ५३ ॥

परिवेषः पदज्ञानी प्रियङ्गुद्रुमवासकः ।
गुहावासो गुरुवरो वन्दनीयो वदान्यकः ॥ ५४ ॥

वृत्ताकारो वेणुपाणिर्वीणादण्डधरो हरः ।
हैमीड्यो होतृसुभगो हौत्रज्ञश्चौजसां पतिः ॥ ५५ ॥

पवमानः प्रजातन्तुप्रदो दण्डविनाशनः ।
निमीड्यो निमिषार्धज्ञो निमिषाकारकारणः ॥ ५६ ॥

लिगुडाभो लिडाकारो लक्ष्मीवन्द्यो वरप्रभुः ।
इडाज्ञः पिङ्गलावासः सुषुम्नामध्यसम्भवः ॥ ५७ ॥

भिक्षाटनो भीमवर्चा वरकीर्तिः सभेश्वरः ।
वाचातीतो वरनिधिः परिवेत्ता प्रमाणकः ॥ ५८ ॥

अप्रमेयोऽनिरुद्धश्चाप्यनन्तादित्यसुप्रभः ।
वेषप्रियो विषग्राहो वरदानकरोत्तमः ॥ ५९ ॥

विपिनो वेदसारश्च वेदान्तैः परितोषितः ।
वक्रागमो वर्चवचा बलदाता विमानवान् ॥ ६० ॥

वज्रकान्तो वंशकरो वटुरक्षाविशारदः ।
वप्रक्रीडो विप्रपूज्यो वेलाराशिश्चलालकः ॥ ६१ ॥

कोलाहलः क्रोडनेत्रः क्रोडास्यश्च कपालभृत् ।
कुञ्जरेड्यो मञ्जुवासाः क्रियमाणः क्रियाप्रदः ॥ ६२ ॥

क्रीडानाथः कीलहस्तः क्रोशमानो बलाधिकः ।
कनको होतृभागी च खवासः खचरः खगः ॥ ६३ ॥

गणको गुणनिर्दुष्टो गुणत्यागी कुशाधिपः ।
पाटलः पत्रधारी च पलाशः पुत्रवर्धनः ॥ ६४ ॥

पितृसच्चरितः प्रेष्ठः पापभस्मा पुनः शुचिः ।
फालनेत्रः फुल्लकेशः फुल्लकल्हारभूषितः ॥ ६५ ॥

फणिसेव्यः पट्‍टभद्रः पटुर्वाग्मी वयोऽधिकः ।
चोरनाट्यश्चोरवेषश्चोरघ्नश्चौर्यवर्धनः ॥ ६६ ॥

चञ्चलाक्षश्चामरको मरीचिर्मदगामिकः ।
मृडाभो मेषवाहश्च मैथिल्यो मोचको मनुः ॥ ६७ ॥

मनुरूपो मन्त्रदेवो मन्त्रराशिर्महादृढः ।
स्थूपिज्ञो धनदाता च देववन्द्यश्च तारणः ॥ ६८ ॥

यज्ञप्रियो यमाध्यक्ष इभक्रीड इभेक्षणः ।
दधिप्रियो दुराधर्षो दारुपालो दनूजहा ॥ ६९ ॥

दामोदरो दामधरो दक्षिणामूर्तिरूपकः ।
शचीपूज्यः शङ्खकर्णश्चन्द्रचूडो मनुप्रियः ॥ ७० ॥

गुडरूपो गुडाकेशः कुलधर्मपरायणः ।
कालकण्ठो गाढगात्रो गोत्ररूपः कुलेश्वरः ॥ ७१ ॥

आनन्दभैरवाराध्यो हयमेधफलप्रदः ।
दध्यन्नासक्तहृदयो गुडान्नप्रीतमानसः ॥ ७२ ॥

घृतान्नासक्तहृदयो गौराङ्गो गर्वभञ्जकः ।
गणेशपूज्यो गगनः गणानां पतिरूर्जितः ॥ ७३ ॥

छद्महीनः शशिरदः शत्रूणां पतिरङ्गिराः ।
चराचरमयः शान्तः शरभेशः शतातपः ॥ ७४ ॥

वीराराध्यो वक्रगमो वेदाङ्गो वेदपारगः ।
पर्वतारोहणः पूषा परमेशः प्रजापतिः ॥ ७५ ॥

भावज्ञो भवरोगघ्नो भवसागरतारणः ।
चिदग्निदेहश्चिद्रूपश्चिदानन्दश्चिदाकृतिः ॥ ७६ ॥

नाट्यप्रियो नरपतिर्नरनारायणार्चितः ।
निषादराजो नीहारो नेष्टा निष्ठुरभाषणः ॥ ७७ ॥

निम्नप्रियो नीलनेत्रो नीलाङ्गो नीलकेशकः ।
सिंहाक्षः सर्वविघ्नेशः सामवेदपरायणः ॥ ७८ ॥

सनकादिमुनिध्येयः शर्वरीशः षडाननः ।
सुरूपः सुलभः स्वर्गः शचीनाथेन पूजितः ॥ ७९ ॥

काकिनः कामदहनो दग्धपापो धराधिपः ।
दामग्रन्थी शतस्त्रीशस्तन्त्रीपालश्च तारकः ॥ ८० ॥

ताम्राक्षस्तीक्ष्णदंष्ट्रश्च तिलभोज्यस्तिलोदरः ।
माण्डुकर्णो मृडाधीशो मेरुवर्णो महोदरः ॥ ८१ ॥

मार्ताण्डभैरवाराध्यो मणिरूपो मरुद्वहः ।
माषप्रियो मधुपानो मृणालो मोहिनीपतिः ॥ ८२ ॥

महाकामेशतनयो माधवो मदगर्वितः ।
मूलाधाराम्बुजावासो मूलविद्यास्वरूपकः ॥ ८३ ॥

स्वाधिष्ठानमयः स्वस्थः स्वस्तिवाक्यः स्रुवायुधः ।
मणिपूराब्जनिलयो महाभैरवपूजितः ॥ ८४ ॥

अनाहताब्जरसिको ह्रीङ्काररसपेशलः ।
भ्रूमध्यवासो भ्रूकान्तो भरद्वाजप्रपूजितः ॥ ८५ ॥

सहस्राराम्बुजावासः सविता सामवाचकः ।
मुकुन्दश्च गुणातीतो गुणपूज्यो गुणाश्रयः ॥ ८६ ॥

धन्यश्च धनभृद्दाहो धनदानकराम्बुजः ।
महाशयो महातीतो मायाहीनो मदार्चितः ॥ ८७ ॥

माठरो मोक्षफलदः सद्वैरिकुलनाशनः ।
पिङ्गलः पिञ्छचूडश्च पिशिताशपवित्रकः ॥ ८८ ॥

पायसान्नप्रियः पर्वपक्षमासविभाजकः ।
वज्रभूषो वज्रकायो विरिञ्चो वरवक्षणः ॥ ८९ ॥

विज्ञानकलिकाबृन्दो विश्वरूपप्रदर्शकः ।
डम्भघ्नो दमघोषघ्नो दासपालस्तपौजसः ॥ ९० ॥

द्रोणकुम्भाभिषिक्तश्च द्रोहिनाशस्तपातुरः ।
महावीरेन्द्रवरदो महासंसारनाशनः ॥ ९१ ॥

लाकिनीहाकिनीलब्धो लवणाम्भोधितारणः ।
काकिलः कालपाशघ्नः कर्मबन्धविमोचकः ॥ ९२ ॥

मोचको मोहनिर्भिन्नो भगाराध्यो बृहत्तनुः ।
अक्षयोऽक्रूरवरदो वक्रागमविनाशनः ॥ ९३ ॥

डाकिनः सूर्यतेजस्वी सर्पभूषश्च सद्गुरुः ।
स्वतन्त्रः सर्वतन्त्रेशो दक्षिणादिगधीश्वरः ॥ ९४ ॥

सच्चिदानन्दकलिकः प्रेमरूपः प्रियङ्करः ।
मिथ्याजगदधिष्ठानो मुक्तिदो मुक्तिरूपकः ॥ ९५ ॥

मुमुक्षुः कर्मफलदो मार्गदक्षोऽथ कर्मठः ।
महाबुद्धो महाशुद्धः शुकवर्णः शुकप्रियः ॥ ९६ ॥

सोमप्रियः स्वरप्रीतः पर्वाराधनतत्परः ।
अजपो जनहंसश्च हलपाणिप्रपूजितः ॥ ९७ ॥

अर्चितो वर्धनो वाग्मी वीरवेषो विधुप्रियः ।
लास्यप्रियो लयकरो लाभालाभविवर्जितः ॥ ९८ ॥

पञ्चाननः पञ्चगूढः पञ्चयज्ञफलप्रदः ।
पाशहस्तः पावकेशः पर्जन्यसमगर्जनः ॥ ९९ ॥

पापारिः परमोदारः प्रजेशः पङ्कनाशनः ।
नष्टकर्मा नष्टवैर इष्टसिद्धिप्रदायकः ॥ १०० ॥

नागाधीशो नष्टपाप इष्टनामविधायकः ।
सामरस्यश्चाप्रमेयः पाषण्डी पर्वतप्रियः ॥ १०१ ॥

पञ्चकृत्यपरः पाता पञ्चपञ्चातिशायिकः ।
पद्माक्षः पद्मवदनः पावकाभः प्रियङ्करः ॥ १०२ ॥

कार्तस्वराङ्गो गौराङ्गो गौरीपुत्रो धनेश्वरः ।
गणेशाश्लिष्टदेहश्च शीतांशुः शुभदीधितिः ॥ १०३ ॥

दक्षध्वंसो दक्षकरो वरः कात्यायनीसुतः ।
सुमुखो मार्गणो गर्भो गर्वभङ्गः कुशासनः ॥ १०४ ॥

कुलपालपतिः श्रेष्ठो पवमानः प्रजाधिपः ।
दर्शप्रियो निर्विकारो दीर्घकायो दिवाकरः ॥ १०५ ॥

भेरीनादप्रियो बृन्दो बृहत्सेनः सुपालकः ।
सुब्रह्मा ब्रह्मरसिको रसज्ञो रजताद्रिभाः ॥ १०६ ॥

तिमिरघ्नो मिहिराभो महानीलसमप्रभः ।
श्रीचन्दनविलिप्ताङ्गः श्रीपुत्रः श्रीतरुप्रियः ॥ १०७ ॥

लाक्षावर्णो लसत्कर्णो रजनीध्वंसिसन्निभः ।
बिन्दुप्रियोऽम्बिकापुत्रो बैन्दवो बलनायकः ॥ १०८ ॥

आपन्नतारकस्तप्तस्तप्तकृच्छ्रफलप्रदः ।
मरुद्वृधो महाखर्वश्चीरवासाः शिखिप्रियः ॥ १०९ ॥

आयुष्माननघो दूत आयुर्वेदपरायणः ।
हंसः परमहंसश्चाप्यवधूताश्रमप्रियः ॥ ११० ॥

आशुवेगोऽश्वहृदयो हयधैर्यफलप्रदः ।
सुमुखो दुर्मुखोऽविघ्नो निर्विघ्नो विघ्ननाशनः ॥ १११ ॥

आर्यो नाथोऽर्यमाभासः फल्गुणः फाललोचनः ।
अरातिघ्नो घनग्रीवो ग्रीष्मसूर्यसमप्रभः ॥ ११२ ॥

किरीटी कल्पशास्त्रज्ञः कल्पानलविधायकः ।
ज्ञानविज्ञानफलदो विरिञ्चारिविनाशनः ॥ ११३ ॥

वीरमार्ताण्डवरदो वीरबाहुश्च पूर्वजः ।
वीरसिंहासनो विज्ञो वीरकार्योऽस्तदानवः ॥ ११४ ॥

नरवीरसुहृद्भ्राता नागरत्नविभूषितः ।
वाचस्पतिः पुरारातिः संवर्तः समरेश्वरः ॥ ११५ ॥

उरुवाग्मी ह्युमापुत्र उडुलोकसुरक्षकः ।
शृङ्गाररससम्पूर्णः सिन्दूरतिलकाङ्कितः ॥ ११६ ॥

कुङ्कुमाङ्कितसर्वाङ्गः कालकेयविनाशनः ।
मत्तनागप्रियो नेता नागगन्धर्वपूजितः ॥ ११७ ॥

सुस्वप्नबोधको बोधो गौरीदुःस्वप्ननाशनः ।
चिन्ताराशिपरिध्वंसी चिन्तामणिविभूषितः ॥ ११८ ॥

चराचरजगत्स्रष्टा चलत्कुण्डलकर्णयुक् ।
मुकुरास्यो मूलनिधिर्निधिद्वयनिषेवितः ॥ ११९ ॥

नीराजनप्रीतमनाः नीलनेत्रो नयप्रदः ।
केदारेशः किरातश्च कालात्मा कल्पविग्रहः ॥ १२० ॥

कल्पान्तभैरवाराध्यः काकपत्रशरायुधः ।
कलाकाष्ठास्वरूपश्च ऋतुवर्षादिमासवान् ॥ १२१ ॥

दिनेशमण्डलावासो वासवादिप्रपूजितः ।
बहुलस्तम्बकर्मज्ञः पञ्चाशद्वर्णरूपकः ॥ १२२ ॥

चिन्ताहीनश्चिदाक्रान्तः चारुपालो हलायुधः ।
बन्धूककुसुमप्रख्यः परगर्वविभञ्जनः ॥ १२३ ॥

विद्वत्तमो विराधघ्नः सचित्रश्चित्रकर्मकः ।
सङ्गीतलोलुपमनाः स्निग्धगम्भीरगर्जितः ॥ १२४ ॥

तुङ्गवक्त्रः स्तवरसश्चाभ्राभो भ्रमरेक्षणः ।
लीलाकमलहस्ताब्जो बालकुन्दविभूषितः ॥ १२५ ॥

लोध्रप्रसवशुद्धाभः शिरीषकुसुमप्रियः ।
त्रासत्राणकरस्तत्त्वं तत्त्ववाक्यार्थबोधकः ॥ १२६ ॥

वर्षीयांश्च विधिस्तुत्यो वेदान्तप्रतिपादकः ।
मूलभूतो मूलतत्त्वं मूलकारणविग्रहः ॥ १२७ ॥

आदिनाथोऽक्षयफलपाणिर्जन्माऽपराजितः ।
गानप्रियो गानलोलो महेशो विज्ञमानसः ॥ १२८ ॥

गिरिजास्तन्यरसिको गिरिराजवरस्तुतः ।
पीयूषकुम्भहस्ताब्जः पाशत्यागी चिरन्तनः ॥ १२९ ॥

सुधालालसवक्त्राब्जः सुरद्रुमफलेप्सितः ।
रत्नहाटकभूषाङ्गो रावणादिप्रपूजितः ॥ १३० ॥

कनत्कालेशसुप्रीतः क्रौञ्चगर्वविनाशनः ।
अशेषजनसम्मोह आयुर्विद्याफलप्रदः ॥ १३१ ॥

अवबद्धदुकूलाङ्गो हारालङ्कृतकन्धरः ।
केतकीकुसुमप्रीतः कलभैः परिवारितः ॥ १३२ ॥

केकाप्रियः कार्तिकेयः सारङ्गनिनदप्रियः ।
चातकालापसन्तुष्टश्चमरीमृगसेवितः ॥ १३३ ॥

आम्रकूटाद्रिसञ्चारी चाम्नायफलदायकः ।
धृताक्षसूत्रपाणिश्चाप्यक्षिरोगविनाशनः ॥ १३४ ॥

मुकुन्दपूज्यो मोहाङ्गो मुनिमानसतोषितः ।
तैलाभिषिक्तसुशिरास्तर्जनीमुद्रिकायुतः ॥ १३५ ॥

तटातकामनः प्रीतस्तमोगुणविनाशनः ।
अनामयोऽप्यनादर्शश्चार्जुनाभो हुतप्रियः ॥ १३६ ॥

षाड्गुण्यपरिसम्पूर्णः सप्ताश्वादिग्रहैः स्तुतः ।
वीतशोकः प्रसादज्ञः सप्तप्राणवरप्रदः ॥ १३७ ॥

सप्तार्चिश्च त्रिनयनस्त्रिवेणीफलदायकः ।
कृष्णवर्त्मा वेदमुखो दारुमण्डलमध्यगः ॥ १३८ ॥

वीरनूपुरपादाब्जो वीरकङ्कणपाणिमान् ।
विश्वमूर्तिः शुद्धमुखः शुद्धभस्मानुलेपनः ॥ १३९ ॥

शुम्भध्वंसिनीसम्पूज्यो रक्तबीजकुलान्तकः ।
निषादादिस्वरप्रीतः नमस्कारफलप्रदः ॥ १४० ॥

भक्तारिपञ्चतादायी सज्जीकृतशरायुधः ।
अभयङ्करमन्त्रज्ञः कुब्जिकामन्त्रविग्रहः ॥ १४१ ॥

धूम्रास्त्रश्चोग्रतेजस्वी दशकण्ठविनाशनः ।
आशुगायुधहस्ताब्जो गदायुधकराम्बुजः ॥ १४२ ॥

पाशायुधसुपाणिश्च कपालायुधसद्भुजः ।
सहस्रशीर्षवदनः सहस्रद्वयलोचनः ॥ १४३ ॥

नानाहेतिर्धनुष्पाणिः नानास्रग्भूषणप्रियः ।
आश्यामकोमलतनुरारक्तापाङ्गलोचनः ॥ १४४ ॥

द्वादशाहक्रतुप्रीतः पौण्डरीकफलप्रदः ।
आप्तोर्यामक्रतुमयश्चयनादिफलप्रदः ॥ १४५ ॥

पशुबन्धस्यफलदो वाजपेयात्मदैवतः ।
आब्रह्मकीटजननावनात्मा चम्पकप्रियः ॥ १४६ ॥

पशुपाशविभागज्ञः परिज्ञानप्रदायकः ।
कल्पेश्वरः कल्पवर्यो जातवेदा प्रभाकरः ॥ १४७ ॥

कुम्भीश्वरः कुम्भपाणिः कुङ्कुमाक्तललाटकः ।
शिलीध्रपत्रसङ्काशः सिंहवक्त्रप्रमर्दनः ॥ १४८ ॥

कोकिलक्वणनाकर्णी कालनाशनतत्परः ।
नैय्यायिकमतघ्नश्च बौद्धसङ्घविनाशनः ॥ १४९ ॥

धृतहेमाब्जपाणिश्च होमसन्तुष्टमानसः ।
पितृयज्ञस्यफलदः पितृवज्जनरक्षकः ॥ १५० ॥

पदातिकर्मनिरतः पृषदाज्यप्रदायकः ।
महासुरवधोद्युक्तः स्वास्त्रप्रत्यस्त्रवर्षकः ॥ १५१ ॥

महावर्षतिरोधानः नागाधृतकराम्बुजः ।
नमः स्वाहा वषट् वौषट् पल्लवप्रतिपादकः ॥ १५२ ॥

महिरसदृशग्रीवो महिरसदृशस्तवः ।
तन्त्रीवादनहस्ताग्रः सङ्गीतप्रीतमानसः ॥ १५३ ॥

चिदंशमुकुरावासो मणिकूटाद्रिसञ्चरः ।
लीलासञ्चारतनुको लिङ्गशास्त्रप्रवर्तकः ॥ १५४ ॥

राकेन्दुद्युतिसम्पन्नो यागकर्मफलप्रदः ।
मैनाकगिरिसञ्चारी मधुवंशविनाशनः ।
तालखण्डपुरावासः तमालनिभतैजसः ॥ १५५ ॥

इति श्री हरिहरपुत्र सहस्रनाम स्तोत्रम् ॥


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed