Sri Bhoothanatha Manasa Ashtakam – श्री भूतनाथ मानसाष्टकम्


श्रीविष्णुपुत्रं शिवदिव्यबालं
मोक्षप्रदं दिव्यजनाभिवन्द्यम् ।
कैलासनाथप्रणवस्वरूपं
श्रीभूतनाथं मनसा स्मरामि ॥ १ ॥

अज्ञानघोरान्धधर्मप्रदीपं
प्रज्ञानदानप्रणवं कुमारम् ।
लक्ष्मीविलासैकनिवासरङ्गं
श्रीभूतनाथं मनसा स्मरामि ॥ २ ॥

लोकैकवीरं करुणातरङ्गं
सद्भक्तदृश्यं स्मरविस्मयाङ्गम् ।
भक्तैकलक्ष्यं स्मरसङ्गभङ्गं
श्रीभूतनाथं मनसा स्मरामि ॥ ३ ॥

लक्ष्मी तव प्रौढमनोहरश्री-
-सौन्दर्यसर्वस्वविलासरङ्गम् ।
आनन्दसम्पूर्णकटाक्षलोलं
श्रीभूतनाथं मनसा स्मरामि ॥ ४ ॥

पूर्णकटाक्षप्रभयाविमिश्रं
सम्पूर्णसुस्मेरविचित्रवक्त्रम् ।
मायाविमोहप्रकरप्रणाशं
श्रीभूतनाथं मनसा स्मरामि ॥ ५ ॥

विश्वाभिरामं गुणपूर्णवर्णं
देहप्रभानिर्जितकामदेवम् ।
कुपेट्यदुःखर्वविषादनाशं
श्रीभूतनाथं मनसा स्मरामि ॥ ६ ॥

मालाभिरामं परिपूर्णरूपं
कालानुरूपप्रकटावतारम् ।
कालान्तकानन्दकरं महेशं
श्रीभूतनाथं मनसा स्मरामि ॥ ७ ॥

पापापहं तापविनाशमीशं
सर्वाधिपत्यपरमात्मनाथम् ।
श्रीसूर्यचन्द्राग्निविचित्रनेत्रं
श्रीभूतनाथं मनसा स्मरामि ॥ ८ ॥

इति श्री भूतनाथ मानसाष्टकम् ।


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed