Sri Gayatri Shapa Vimochanam – श्री गायत्री शापविमोचनम्


१। ब्रह्म शापविमोचनम् –
अस्य श्रीब्रह्मशापविमोचन मन्त्रस्य निग्रहानुग्रहकर्ता प्रजापतिरृषिः, कामधुगायत्री छन्दः, भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिः, सविता देवता, ब्रह्मशापविमोचनार्थे जपे विनियोगः ॥

मन्त्रम् –
सवितुर्ब्रह्मो मेत्युपासनात्तद्ब्रह्मविदो विदुस्तां प्रयतन्ति धीराः ।
सुमनसा वाचा ममाग्रतः ॥

ओं देवी गायत्री त्वं ब्रह्मशापाद्विमुक्ता भव ॥ (इति त्रिवारं पठेत्)

२। विश्वामित्र शापविमोचनम् –
अस्य श्रीविश्वामित्रशापविमोचन मन्त्रस्य नूतनसृष्टिकर्ता विश्वामित्र ऋषिः, वाग्देहा गायत्री छन्दः, विश्वामित्रानुगृहिता गायत्री शक्तिः, सविता देवता, विश्वामित्रशापविमोचनार्थे जपे विनियोगः ॥

मन्त्रम् –
ओं तत्त्वानि चाङ्गेष्वग्निचितो धियांसः त्रिगर्भां यदुद्भवां देवाश्शोचिरे विश्वसृष्टिं, तां कल्याणीमिष्टकरीं प्रपद्ये यन्मुखान्निस्सृतो वेदगर्भः ॥

ओं देवी गायत्री त्वं विश्वामित्रशापाद्विमुक्ता भव ॥ (इति त्रिवारं पठेत्)

३। वसिष्ठ शाप विमोचनम् –
अस्य श्रीवसिष्ठशापविमोचन मन्त्रस्य वसिष्ठ ऋषिः, विश्वोद्भवा गायत्री छन्दः, वसिष्ठानुगृहिता गायत्री शक्तिः, सविता देवता, वसिष्ठशापविमोचनार्थे जपे विनियोगः ॥

मन्त्रम् –
ओं तत्त्वानि चाङ्गेष्वग्निचितो धियांसः ध्यायन्ति विष्णोरायुधानि बिभ्रत्, जनानता सा परमं च शश्वत्, गायत्रीमासाच्छुरनुत्तमं च धाम ॥

ओं देवी गायत्री त्वं वसिष्ठशापाद्विमुक्ता भव ॥ (इति त्रिवारं पठेत्)

प्रार्थना –
सोऽहमर्कमहं ज्योतिरर्कज्योतिरहं शिवः ।
आत्मज्योतिरहं शुक्लः शुक्लज्योतिरसोऽहमोम् ॥ १ ॥

अहो विष्णुमहेशेशे दिव्ये सिद्धे सरस्वति ।
अजरे अमरे चैव ब्रह्मयोनिर्नमोऽस्तु ते ॥ २ ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed