Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीगायत्री जगन्माता परब्रह्मस्वरूपिणी ।
परमार्थप्रदा जप्या ब्रह्मतेजोविवर्धिनी ॥ १ ॥
ब्रह्मास्त्ररूपिणी भव्या त्रिकालध्येयरूपिणी ।
त्रिमूर्तिरूपा सर्वज्ञा वेदमाता मनोन्मनी ॥ २ ॥
बालिका तरुणी वृद्धा सूर्यमण्डलवासिनी ।
मन्देहदानवध्वंसकारिणी सर्वकारणा ॥ ३ ॥
हंसारूढा वृषारूढा गरुडारोहिणी शुभा ।
षट्कुक्षिस्त्रिपदा शुद्धा पञ्चशीर्षा त्रिलोचना ॥ ४ ॥
त्रिवेदरूपा त्रिविधा त्रिवर्गफलदायिनी ।
दशहस्ता चन्द्रवर्णा विश्वामित्रवरप्रदा ॥ ५ ॥
दशायुधधरा नित्या सन्तुष्टा ब्रह्मपूजिता ।
आदिशक्तिर्महाविद्या सुषुम्नाख्या सरस्वती ॥ ६ ॥
चतुर्विंशत्यक्षराढ्या सावित्री सत्यवत्सला ।
सन्ध्या रात्रिः प्रभाताख्या साङ्ख्यायनकुलोद्भवा ॥ ७ ॥
सर्वेश्वरी सर्वविद्या सर्वमन्त्रादिरव्यया ।
शुद्धवस्त्रा शुद्धविद्या शुक्लमाल्यानुलेपना ॥ ८ ॥
सुरसिन्धुसमा सौम्या ब्रह्मलोकनिवासिनी ।
प्रणवप्रतिपाद्यार्था प्रणतोद्धरणक्षमा ॥ ९ ॥
जलाञ्जलिसुसन्तुष्टा जलगर्भा जलप्रिया ।
स्वाहा स्वधा सुधासंस्था श्रौषड्वौषड्वषट्क्रिया ॥ १० ॥
सुरभिः षोडशकला मुनिबृन्दनिषेविता ।
यज्ञप्रिया यज्ञमूर्तिः स्रुक्स्रुवाज्यस्वरूपिणी ॥ ११ ॥
अक्षमालाधरा चाऽक्षमालासंस्थाऽक्षराकृतिः ।
मधुच्छन्दऋषिप्रीता स्वच्छन्दा छन्दसां निधिः ॥ १२ ॥
अङ्गुलीपर्वसंस्थाना चतुर्विंशतिमुद्रिका ।
ब्रह्ममूर्ती रुद्रशिखा सहस्रपरमाऽम्बिका ॥ १३ ॥
विष्णुहृद्गा चाग्निमुखी शतमध्या दशावरा ।
सहस्रदलपद्मस्था हंसरूपा निरञ्जना ॥ १४ ॥
चराचरस्था चतुरा सूर्यकोटिसमप्रभा ।
पञ्चवर्णमुखी धात्री चन्द्रकोटिशुचिस्मिता ॥ १५ ॥
महामाया विचित्राङ्गी मायाबीजनिवासिनी ।
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा जगद्धिता ॥ १६ ॥
मर्यादापालिका मान्या महामन्त्रफलप्रदा ।
इत्यष्टोत्तरनामानि गायत्र्याः प्रोक्तवान्मुनिः ॥ १७ ॥
एतदष्टोत्तरशतं नित्यं भक्तियुतः शुचिः ।
त्रिसन्ध्यं यः पठेत्सर्वमन्त्रसिद्धिमवाप्नुयात् ॥ १८ ॥
इति श्रीवसिष्ठ प्रोक्त श्री गायत्र्यष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री गायत्री स्तोत्राणि पश्यतु ।
పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.