Trucha Kalpa Surya Arghya Krama – तृचाकल्प सूर्य अर्घ्यप्रदान क्रमः


आचम्य । प्राणानायम्य । देशकालौ संकीर्त्य । गणपति पूजां कृत्वा ।

संकल्पः –
पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ श्रुति स्मृति पुराणोक्त फलप्राप्त्यर्थं श्रीसवितृसूर्यनारायण प्रीत्यर्थं भविष्योत्तरपुराणोक्त तृचार्घ्य पूर्वक प्रसन्नार्घ्यप्रदानानि च करिष्ये ।

ध्यानम् –
ध्येयः सदा सवितृमंडलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुर्धृतशंखचक्रः ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां उ॒द्यन्न॒द्य मि॑त्रमहः ह्रां ओं । मित्राय नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रीं आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ह्रीं ओं । रवये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ २ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं हृ॒द्रो॒गं मम॑ सूर्य ह्रूं ओं । सूर्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ३ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रैं हरि॒माणं᳚ च नाशय ह्रैं ओं । भानवे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ४ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं शुके᳚षु मे हरि॒माणं᳚ ह्रौं ओं । खगाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ५ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रः रोप॒णाका᳚सु दध्मसि ह्रः ओं । पूष्णे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ६ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां अथो᳚ हारिद्र॒वेषु॑ मे ह्रां ओं । हिरण्यगर्भाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ७ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रीं हरि॒माणं॒ निद॑ध्मसि ह्रीं ओं । मरीचये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ८ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं उद॑गाद॒यमा᳚दि॒त्यः ह्रूं ओं । आदित्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ९ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रैं विश्वे᳚न॒ सह॑सा स॒ह ह्रैं ओं । सवित्रे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १० ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्न्॑ ह्रौं ओं । अर्काय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ ११ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रः मो अ॒हं द्वि॑ष॒ते र॑धम् ह्रः ओं । भास्कराय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १२ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ह्रां ह्रीं ओं । मित्ररविभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १३ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं हैं हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ह्रूं ह्रैं ओं । सूर्यभानुभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १४ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ह्रौं ह्रः ओं । खगपूषभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १५ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ह्रां ह्रीं ओं । हिरण्यगर्भमरीचिभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १६ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं ह्रैं उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ह्रूं ह्रैं ओं । आदित्यसवितृभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १७ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ह्रौं ह्रः ओं । अर्कभास्कराभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १८ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं ह्रूं ह्रैं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय । ह्रां ह्रीं ह्रूं ह्रैं ओं । मित्ररविसूर्यभानुभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ १९ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः ह्रां ह्रीं शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि । अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि । ह्रौं ह्रः ह्रां ह्रीं ओं । खगपूषहिरण्यगर्भमरीचिभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ २० ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं ह्रैं ह्रौं ह्रः उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् । ह्रूं ह्रैं ह्रौं ह्रः ओं । आदित्यसवित्रर्कभास्करेभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ २१ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ।
हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ।
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ।
अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ।
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ।
द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ।
ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ओं । मित्र रवि सूर्य भानु खग पूष हिरण्यगर्भ मरीच्यादित्यसवित्रर्क भास्करेभ्यो नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः इदमर्घ्यं समर्पयामि ॥ २२, २३, २४ ॥ (इति त्रिः)

——
प्रार्थन प्रसन्नार्घ्यप्रदानं –

ओं अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् । होता᳚रं रत्न॒धात॑मम् ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः ऋग्वेदात्मने प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १ ॥

ओं इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑: स्थोपा॒यव॑: स्थ दे॒वो व॑: सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वती॒: पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्माः मा व॑: स्ते॒न ई॑शत॒ माऽघशग्ं॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून् पा॑हि ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः यजुर्वेदात्मने प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ २ ॥

ओं अग्न॒ आ या᳚हि वी॒तये᳚ गृणा॒नो ह॒व्यदा᳚तये । नि होता᳚ सत्सि ब॒र्हिषि॑ ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः सामवेदात्मने प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ३ ॥

ओं शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं योर॒भिस्र॑वन्तु नः ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः अथर्ववेदात्मने प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ४ ॥

ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः उपनिषदात्मने प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ५ ॥

ओं आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्य॑ञ्च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑ ॥
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ६ ॥

ओं उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा᳚य॒ सूर्य᳚म् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ७ ॥

ओं उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य᳚न्त॒ उत्त॑रम् ।
दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति॑रुत्त॒मम् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ८ ॥

ओं चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा᳚पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ९ ॥

ओं हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो᳚म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १० ॥

ओं स॒वि॒ता प॒श्चाता᳚त्सवि॒ता पु॒रस्ता᳚त्सवि॒तोत्त॒रात्ता᳚त्सवि॒ताध॒रात्ता᳚त् ।
स॒वि॒ता न॑: सुवतु स॒र्वता᳚तिं सवि॒ता नो᳚ रासतां दी॒र्घमायु॑: ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ ११ ॥

ओं आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डल॒ग्ं॒ स ऋ॒चां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिर्दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजूग्ं॑षि॒ स यजु॑षा मण्डल॒ग्ं॒ स यजु॑षां लो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो᳚ऽन्तरा॑दि॒त्ये हि॑र॒ण्मय॒: पुरु॑षः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १२ ॥

ओं आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ यश॒श्चक्षु॒: श्रोत्र॑मा॒त्मा मनो॑ म॒न्युर्मनु॑र्मृ॒त्युः
स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः कः किं कं तत्स॒त्यमन्न॑म॒मृतो॑
जी॒वो विश्व॑: कत॒मः स्वय॒म्भु ब्रह्मै॒तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पति॒र्ब्रह्म॑ण॒: सायु॑ज्यग्ं सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व
दे॒वता॑ना॒ग्ं सायु॑ज्यग्ं सा॒र्ष्टिताग्ं॑ समानलो॒कता॑माप्नोति॒ य ए॒वं वेदे᳚त्युप॒निषत् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १३ ॥

ओं घृणि॒: सूर्य॑ आदि॒त्यो न प्रभा॑ वा॒त्यक्ष॑रम् । मधु॑ क्षरन्ति॒ तद्र॑सम् ।
स॒त्यं वै तद्रस॒मापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १४ ॥

ओं भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि । तन्नो॑ आदित्यः प्रचो॒दया᳚त् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १५ ॥

ओं आ॒दि॒त्याय॑ वि॒द्महे॑ सहस्रक॒राय॑ धीमहि । तन्न॑: सूर्यः प्रचो॒दया᳚त् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १६ ॥

ओं हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि । तन्नो॑ हंसः प्रचो॒दया᳚त् ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः प्रार्थन प्रसन्नार्घ्यं समर्पयामि ॥ १७ ॥

अनेन तृचार्घ्यपूर्वक प्रार्थन प्रसन्नार्घ्यप्रदानैश्च भगवान् सर्वात्मकः श्रीपद्मिनी उषा छाया समेत श्रीसवितृसूर्यनारायण सुप्रीतो सुप्रसन्नो भवंतु ॥


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed