Trucha Kalpa Surya Namaskara Krama – तृचाकल्प सूर्य नमस्कार क्रमः


आचम्य । प्राणानायम्य । देशकालौ संकीर्त्य । गणपति पूजां कृत्वा ।

संकल्पः –
पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ श्रुति स्मृति पुराणोक्त फलप्राप्त्यर्थं श्रीसवितृसूर्यनारायण प्रीत्यर्थं भविष्योत्तरपुराणोक्त तृचकल्पविधिना एकावृत्त्या नमस्काराख्यं कर्म करिष्ये ॥

ध्यानम् –
ध्येयः सदा सवितृमंडलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुर्धृतशंखचक्रः ॥

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यं प्रणामोऽष्टांग उच्यते ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां उ॒द्यन्न॒द्य मि॑त्रमहः ह्रां ओं । मित्राय नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रीं आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ह्रीं ओं । रवये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ २ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं हृ॒द्रो॒गं मम॑ सूर्य ह्रूं ओं । सूर्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ३ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रैं हरि॒माणं᳚ च नाशय ह्रैं ओं । भानवे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ४ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं शुके᳚षु मे हरि॒माणं᳚ ह्रौं ओं । खगाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ५ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रः रोप॒णाका᳚सु दध्मसि ह्रः ओं । पूष्णे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ६ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां अथो᳚ हारिद्र॒वेषु॑ मे ह्रां ओं । हिरण्यगर्भाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ७ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रीं हरि॒माणं॒ निद॑ध्मसि ह्रीं ओं । मरीचये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ८ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं उद॑गाद॒यमा᳚दि॒त्यः ह्रूं ओं । आदित्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ९ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रैं विश्वे᳚न॒ सह॑सा स॒ह ह्रैं ओं । सवित्रे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १० ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्न्॑ ह्रौं ओं । अर्काय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ११ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रः मो अ॒हं द्वि॑ष॒ते र॑धम् ह्रः ओं । भास्कराय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १२ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ह्रां ह्रीं ओं । मित्ररविभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १३ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं हैं हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ह्रूं ह्रैं ओं । सूर्यभानुभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १४ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ह्रौं ह्रः ओं । खगपूषभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १५ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ह्रां ह्रीं ओं । हिरण्यगर्भमरीचिभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १६ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं ह्रैं उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ह्रूं ह्रैं ओं । आदित्यसवितृभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १७ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ह्रौं ह्रः ओं । अर्कभास्कराभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १८ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं ह्रूं ह्रैं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय । ह्रां ह्रीं ह्रूं ह्रैं ओं । मित्ररविसूर्यभानुभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १९ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः ह्रां ह्रीं शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि । अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि । ह्रौं ह्रः ह्रां ह्रीं ओं । खगपूषहिरण्यगर्भमरीचिभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ २० ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं ह्रैं ह्रौं ह्रः उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् । ह्रूं ह्रैं ह्रौं ह्रः ओं । आदित्यसवित्रर्कभास्करेभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ २१ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ।
हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ।
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ।
अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ।
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ।
द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ।
ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ओं । मित्र रवि सूर्य भानु खग पूष हिरण्यगर्भ मरीच्यादित्यसवित्रर्क भास्करेभ्यो नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ २२, २३, २४ ॥ (इति त्रिः)

अनेन मया कृत तृचाकल्पनमस्कारेण भगवान् सर्वात्मकः श्रीपद्मिनी उषा छाया समेत श्रीसवितृसूर्यनारायण सुप्रीतो सुप्रसन्नो भवंतु ॥


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed