Sri Gayatri Tattva Mala Mantram – श्री गायत्री तत्त्वमालामन्त्रम्


अस्य श्रीगायत्रीतत्त्वमालामन्त्रस्य विश्वामित्र ऋषिः अनुष्टुप् छन्दः परमात्मा देवता हलो बीजानि स्वराः शक्तयः अव्यक्तं कीलकं मम समस्तपापक्षयार्थे श्रीगायत्री मालामन्त्र जपे विनियोगः ।

चतुर्विंशति तत्त्वानां यदेकं तत्त्वमुत्तमम् ।
अनुपाधि परं ब्रह्म तत्परं ज्योतिरोमिति ॥ १ ॥

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य तत्परं ज्योतिरोमिति ॥ २ ॥

तदित्यादिपदैर्वाच्यं परमं पदमव्ययम् ।
अभेदत्वं पदार्थस्य तत्परं ज्योतिरोमिति ॥ ३ ॥

यस्य मायांशभागेन जगदुत्पद्यतेऽखिलम् ।
तस्य सर्वोत्तमं रूपमरूपस्याभिधीमहि ॥ ४ ॥

यं न पश्यन्ति परमं पश्यन्तोऽपि दिवौकसः ।
तं भूताखिलदेवं तु सुपर्णमुपधावताम् ॥ ५ ॥

यदंशः प्रेरितो जन्तुः कर्मपाशनियन्त्रितः ।
आजन्मकृतपापानामपहन्ता द्विजन्मनाम् ॥ ६ ॥

इदं महामुनिप्रोक्तं गायत्रीतत्त्वमुत्तमम् ।
यः पठेत्परया भक्त्या स याति परमां गतिम् ॥ ७ ॥

सर्ववेदपुराणेषु साङ्गोपाङ्गेषु यत्फलम् ।
सकृदस्य जपादेव तत्फलं प्राप्नुयान्नरः ॥ ८ ॥

अभक्ष्यभक्षणात्पूतो भवति । अगम्यागमनात्पूतो भवति । सर्वपापेभ्यः पूतो भवति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । मध्यं दिनमुपयुञ्जानोऽसत् प्रतिग्रहादिभ्यो मुक्तो भवति । अनुपप्लवं पुरुषार्थमभिवदन्ति । यं यं काममभिध्यायति तत्तदेवाप्नोति पुत्रपौत्रान् कीर्तिसौभाग्यांश्चोपलभते । सर्वभूतात्ममित्रो देहान्ते तद्विशिष्टो गायत्र्या परमं पदमवाप्नोति ॥

इति श्रीवेदसारे श्री गायत्री तत्त्वमालामन्त्रम् ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed