Sri Gayatri Ashtakam 2 – श्री गायत्री अष्टकम् – २


सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदां
शिवामाद्यां वन्द्यां त्रिभुवनमयीं वेदजननीम् ।
परां शक्तिं स्रष्टुं विविधविधरूपां गुणमयीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ १ ॥

विशुद्धां सत्त्वस्थामखिलदुरवस्थादिहरणीं
निराकारां सारां सुविमल तपोमूर्तिमतुलाम् ।
जगज्ज्येष्ठां श्रेष्ठामसुरसुरपूज्यां श्रुतिनुतां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ २ ॥

तपोनिष्ठाभीष्टां स्वजनमनसन्तापशमनीं
दयामूर्तिं स्फूर्तिं यतितति प्रसादैकसुलभाम् ।
वरेण्यां पुण्यां तां निखिलभवबन्धापहरणीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ३ ॥

सदाराध्यां साध्यां सुमतिमतिविस्तारकरणीं
विशोकामालोकां हृदयगतमोहान्धहरणीम् ।
परां दिव्यां भव्यामगमभवसिन्ध्वेक तरणीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ४ ॥

अजां द्वैतां त्रैतां विविधगुणरूपां सुविमलां
तमोहन्त्रीं तन्त्रीं श्रुतिमधुरनादां रसमयीम् ।
महामान्यां धन्यां सततकरुणाशील विभवां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ५ ॥

जगद्धात्रीं पात्रीं सकलभवसंहारकरणीं
सुवीरां धीरां तां सुविमल तपोराशिसरणीम् ।
अनेकामेकां वै त्रिजगत्सदधिष्ठानपदवीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ६ ॥

प्रबुद्धां बुद्धां तां स्वजनततिजाड्यापहरणीं
हिरण्यां गुण्यां तां सुकविजन गीतां सुनिपुणीम् ।
सुविद्यां निरवद्याममलगुणगाथां भगवतीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ७ ॥

अनन्तां शान्तां यां भजति बुधवृन्दः श्रुतिमयीं
सुगेयां ध्येयां यां स्मरति हृदि नित्यं सुरपतिः ।
सदा भक्त्या शक्त्या प्रणतमतिभिः प्रीतिवशगां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ८ ॥

शुद्धचित्तः पठेद्यस्तु गायत्र्या अष्टकं शुभम् ।
अहो भाग्यो भवेल्लोके तस्मिन् माता प्रसीदति ॥ ९ ॥

इति श्री गायत्री अष्टकम् ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed