Sri Gayatri Lahari – श्री गायत्री लहरी



अमन्दानन्देनामरवरगृहे वासनिरतां
नरं गायन्तं या भुवि भवभयात्त्रायत इह ।
सुरेशैः सम्पूज्यां मुनिगणनुतां तां सुखकरीं
नमामो गायत्रीं निखिलमनुजाघौघशमनीम् ॥ १ ॥

अवामा सम्युक्तं सकलमनुजैर्जाप्यमभिती
ह्यपायात्पायाद्भूरथ भुवि भुवः स्वः पदमिति ।
पदं तन्मे पादाववतु सवितुश्चैव जघने
वरेण्यं श्रोणिं मे सततमवतान्नाभिमपि च ॥ २ ॥

पदं भर्गो देवस्य मम हृदयं धीमहि तथा
गलं पायान्नित्यं धिय इह पदं चैव रसनाम् ।
तथा नेत्रे योऽव्यादलकमवतान्नः पदमिति
शिरोदेशं पायान्मम तु परितश्चान्तिमपदम् ॥ ३ ॥

अये दिव्ये देवि त्रिदशनिवहैर्वन्दितपदे
न शेकुस्त्वां स्तोतुं भगवति महान्तोऽपि मुनयः ।
कथङ्कारं तर्हिस्तुतिततिरियं मे शुभतरा
तथा पूर्णा भूयात् त्रुटिपरियुता भावरहिता ॥ ४ ॥

भजन्तं निर्व्याजं तव सुखदमन्त्रं विजयिनं
जनं यावज्जीवं जपति जननि त्वं सुखयसि ।
न वा कामं काचित् कलुषकणिकाऽपि स्पृशति तं
संसारं संसारं सरति सहसा तस्य सततम् ॥ ५ ॥

दधानां ह्याधानं सितकुवलयास्फालनरुचां
स्वयं विभ्राजन्तीं त्रिभुवनजनाह्लादनकरीम् ।
अलं चालं चालं मम चकितचित्तं सुचपलं
चलच्चन्द्रास्ये त्वद्वदनरुचमाचामय चिरम् ॥ ६ ॥

ललामे भाले ते बहुतर विशालेऽति विमले
कला चञ्चच्चान्द्री रुचिरतिलकावेन्दुकलया ।
नितान्तं गोमाया निविड तमसो नाश व्यसना
तमो मे गाढं हि हृदयसदनस्थं ग्लपयतु ॥ ७ ॥

अये मातः किं ते चरण शरणं संश्रयवतां
जनानामन्तस्थो वृजिन हुतभुक् प्रज्वलति यः ।
तदस्याशु सम्यक् प्रशमनहितायैव विधृतं
करे पात्रं पुण्यं सलिलभरितं काष्ठरचितम् ॥ ८ ॥

अथाहोस्विन्मातः सरिदधिपतेः सारमखिलं
सुधारूपं कूपं लघुतरमनूपं कलयति ।
स्वभक्तेभ्यो नित्यं वितरसि जनोद्धारिणि शुभे
विहीने दीनेऽस्मिन् मय्यपि सकरुणां कुरु कृपाम् ॥ ९ ॥

सदैव त्वत्पाणौ विधृतमरविन्दं द्युतिकरं
त्विदं दर्शं दर्शं रविशशिसमं नेत्रयुगलम् ।
विचिन्त्य स्वां वृत्तिं भ्रमविषमजालेऽस्ति पतितं
इदं मन्ये नो चेत् कथमिति भवेदर्धविकचम् ॥ १० ॥

स्वयं मातः किं वा त्वमसि जलजानामपि खनि-
-र्यतस्ते सर्वाङ्गं कमलमयमेवास्ति किमु नो ।
तथा भीत्या तस्माच्छरणमुपयातः कमलराट्
प्रयुञ्जानोऽश्रान्तं भवति तदिहैवासनविधौ ॥ ११ ॥

दिवौकोभिर्वन्द्ये विकसित सरोजाक्षि सुखदे
कृपादृष्टेर्वृष्टिः सुनिपतति यस्योपरि तव ।
तदीयां वाञ्छां हि द्रुतमनु विदधासि सफलां
अतोमन्तोस्तन्तून् मम सपदि छित्वाऽम्ब सुखय ॥ १२ ॥

करेऽक्षाणां माला प्रविलसति या तेऽतिविमले
किमर्थं सा कान् वा गणयसि जनान् भक्ति निरतान् ।
जपन्ती कं मन्त्रं प्रशमयसि दुःखं जनिजुषा
मये का वा वाञ्छा भवति तव त्वत्र सुवरदे ॥ १३ ॥

न मन्ये धन्येऽहं त्ववितथमिदं लोकगदितं
ममात्रोक्तिर्मत्वा कमलपति फुल्लं तव करम् ।
विजृम्भा सम्युक्त द्युतिमिदमभि कोकनदमि-
-त्यरं जानानेयं मधुकरतति संविलसति ॥ १४ ॥

महामोहाम्भोधौ मम निपतिता जीवनतरि-
-र्निरालम्बा दोला चलति दुरवस्थामधिगता ।
जलावर्त व्यालो ग्रसितुमभितो वाञ्छति च तां
करालम्बं दत्वा भगवति द्रुतं तारय शिवे ॥ १५ ॥

दधानासित्वं यत् स्ववपुषि पयोधार युगल-
-मिति श्रुत्वा लोकैर्मम मनसि चिन्ता समभवत् ।
कथं स्यात् सा तस्मादलक लतिका मस्तक भुवि
शिरोद्यौ हृद्येयं जलदपटली खेलति किल ॥ १६ ॥

तथा तत्रैवोपस्थितमपि निशीथिन्यधिपतेः
प्रपश्यामि श्यामे सह सहचरैस्तारक गणैः ।
अहोरात्र क्रीडा परवशमितास्तेऽपि चकिता-
-श्चिरं चिक्रीडन्ते तदपि महदाश्चर्यचरितम् ॥ १७ ॥

यदाहुस्तं मुक्ता पटल जटितं रत्नमुकुटं
न धत्ते तेषां सा वचनरचना साधुपदवीम् ।
निशैषा केशास्तु नहि विगत वेशा ध्रुवमिति
प्रसन्नाऽध्यासन्ना विधुपरिषदेषा विलसति ॥ १८ ॥

त्रिबीजे हे देवि त्रिप्रणवसहिते त्र्यक्षरयुते
त्रिमात्रा राजन्ते भुवनविभवे ह्योमितिपदे ।
त्रिकालं संसेव्ये त्रिगुणवति च त्रिस्वरमयि
त्रिलोकेशैः पूज्ये त्रिभुवनभयात्त्राहि सततम् ॥ १९ ॥

न चन्द्रो नैवेमे नभसि वितता तारकगणाः
त्विषां राशी रम्या तव चरणयोरम्बुनिचये ।
पतित्वा कल्लोलैः सह परिचयाद्विस्तृतिमिता
प्रभा सैवाऽनन्ता गगनमुकुरे दीव्यति सदा ॥ २० ॥

त्वमेव ब्रह्माणी त्वमसि कमला त्वं नगसुता
त्रिसन्ध्यं सेवन्ते चरणयुगलं ये तव जनाः ।
जगज्जाले तेषां निपतित जनानामिह शुभे
समुद्धारार्थं किं मतिमति मतिस्ते न भवति ॥ २१ ॥

अनेकैः पापौघैर्लुलित वपुषं शोक सहितं
लुठन्तं दीनं मां विमल पदयो रेणुषु तव ।
गलद्बाष्पं शश्वद् जननि सहसाश्वासनवचो
ब्रुवाणोत्तिष्ठ त्वं अमृतकणिकां पास्यसि कदा ॥ २२ ॥

न वा मादृक् पापी न हि तव समा पापहरणी
न दुर्बुद्धिर्मादृक् न च तव समा धी वितरिणी ।
न मादृग् गर्विष्ठो न हि तव समा गर्वहरणी
हृदि स्मृत्वा ह्येवं मयि कुरु यथेच्छा तव यथा ॥ २३ ॥

दरीधर्ति स्वान्तेऽक्षर वर चतुर्विंशतिमितं
त्वदन्तर्मन्त्रं यत्त्वयि निहित चेतो हि मनुजः ।
समन्ताद्भास्वन्तं भवति भुवि सञ्जीवनवनं
भवाम्भोधेः पारं व्रजति स नितरां सुखयुतः ॥ २४ ॥

भगवति लहरीयं रुद्रदेव प्रणीता
तव चरणसरोजे स्थाप्यते भक्तिभावैः ।
कुमतितिमिरपङ्कस्याङ्कमग्नं सशङ्कं
अयि खलु कुरु दत्वा वीतशङ्कं स्वमङ्कम् ॥ २५ ॥

इति श्री रुद्रदेव विरचित श्री गायत्री लहरी ॥


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed