Sri Gayatri Tarpanam – श्री गायत्री तर्पणम्


(एतत् पद्धतिपाठः श्रीमद्देवीभागवते एकादशस्कन्धे सप्तदशोऽध्याये दृश्यते)

विनियोगः –
ओं गायत्र्या गायत्री छन्दः, विश्वामित्र ऋषिः, सविता देवता, गायत्री तर्पणे विनियोगः ।

तर्पण मन्त्राः –
ओं भूः ऋग्वेद पुरुषं तर्पयामि ।
ओं भुवः यजुर्वेद पुरुषं तर्पयामि ।
ओं स्वः सामवेद पुरुषं तर्पयामि ।
ओं महः अथर्ववेद पुरुषं तर्पयामि ।
ओं जनः इतिहासपुराण पुरुषं तर्पयामि ।
ओं तपः सर्वागम पुरुषं तर्पयामि ।
ओं सत्यं सत्यलोक पुरुषं तर्पयामि ।
ओं भूः भूर्लोक पुरुषं तर्पयामि ।
ओं भुवः भुवर्लोक पुरुषं तर्पयामि ।
ओं स्वः स्वर्गलोक पुरुषं तर्पयामि ।
ओं भूः एकपदा गायत्रीं तर्पयामि ।
ओं भुवः द्विपदा गायत्रीं तर्पयामि ।
ओं स्वः त्रिपदा गायत्रीं तर्पयामि ।
ओं भूर्भुवःस्वः चतुष्पदा गायत्रीं तर्पयामि ।
ओं उषसीं तर्पयामि ।
ओं गायत्रीं तर्पयामि ।
ओं सावित्रीं तर्पयामि ।
ओं सरस्वतीं तर्पयामि ।
ओं वेदमातरं तर्पयामि ।
ओं पृथिवीं तर्पयामि ।
ओं अजां तर्पयामि ।
ओं कौशिकीं तर्पयामि ।
ओं साङ्कृतीं तर्पयामि ।
ओं सार्वजितीं तर्पयामि ।

ओं तच्छ॒ं योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ ।
गा॒तुं य॒ज्ञप॑तये । दैवी॓ः स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शं नो॑ अस्तु द्वि॒पदे॓ । शं चतु॑ष्पदे ॥

ओं शान्ति॒ः शान्ति॒ः शान्ति॑ः ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed