Sri Devaraja Ashtakam – श्री देवराजाष्टकम्


श्रीमत्काञ्चीमुनिं वन्दे कमलापतिनन्दनम् ।
वरदाङ्घ्रिसदासङ्गरसायनपरायणम्

देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् ।
रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम्

नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचनः ।
शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥ १ ॥

समस्तप्राणिसन्त्राणप्रवीण करुणोल्बण ।
विलसन्तु कटाक्षस्ते मय्यस्मिन् जगताम्पते ॥ २ ॥

निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः ।
पापीयांस ममर्यादं पाहि मां वरदप्रभो ॥ ३ ॥

संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे ।
विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ ४ ॥

पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले ।
कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥ ५ ॥

अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् ।
क्षीणशक्तिबलारोग्यं केवलं क्लेशसम्श्रयम् ॥ ६ ॥

सन्तप्तं विविधैर्दुःखैर्दुर्वचै रेवमादिभिः ।
देवराज दयासिन्धो देवदेव जगत्पते ॥ ७ ॥

त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः ।
कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम् ॥ ८ ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed