Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
रामानुजाय मुनये नम उक्ति मात्रं
कामातुरोऽपि कुमतिः कलयन्नभीक्षम् ।
यामामनन्ति यमिनां भगवज्जनानां
तामेव विन्दति गतिं तमसः परस्तात् ॥ १ ॥
सोमावचूडसुरशेखरदुष्करेण
कामातिगोऽपि तपसा क्षपयन्नघानि ।
रामानुजाय मुनये नम इत्यनुक्त्वा
कोवा महीसहचरे कुरुतेऽनुरागम् ॥ २ ॥
रामानुजाय नम इत्यसकृद्गृणीते
यो मान मात्सर मदस्मर दूषितोऽपि ।
प्रेमातुरः प्रियतमामपहाय पद्मां
भूमा भुजङ्गशयनस्तमनुप्रयाति ॥ ३ ॥
वामालकानयनवागुरिकागृहीतं
क्षेमाय किञ्चिदपि कर्तुमनीहमानम् ।
रामानुजो यतिपतिर्यदि नेक्षते मां
मा मामकोऽयमिति मुञ्चति माधवोऽपि ॥ ४ ॥
रामानुजेति यदितं विदितं जगत्यां
नामीपि न श्रुतिसमीपमुपैति येषाम् ।
मा मा मदीय इति सद्भिरुपेक्षितास्ते
कामानुविद्धमनसो निपतन्त्यधोऽधः ॥ ५ ॥
नामानुकीर्त्य नरकार्तिहरं यदीयं
व्योमाधिरोहति पदं सकलोऽपि लोकः ।
रामानुजो यतिपतिर्यदि नाविरासीत्
को मादृशः प्रभविता भवमुत्तरीतुम् ॥ ६ ॥
सीमामहीध्रपरिधिं पृथिवीमवाप्तुं
वैमानिकेश्वरपुरीमधिवासितुं वा ।
व्योमाधिरोढुमपि न स्पृहयन्ति नित्यं
रामानुजाङ्घ्रियुगलं शरणं प्रपन्नाः ॥ ७ ॥
मा मा धुनोति मनसोऽपि न गोचरं यत्
भूमासखेन पुरुषेण सहानुभूय ।
प्रेमानुविद्धहृदयप्रियभक्तलभ्ये
रामानुजाङ्घ्रिकमले रमतां मनो मे ॥ ८ ॥
श्लोकाष्टकमिदं पुण्यं यो भक्त्या प्रत्यहं पठेत् ।
आकारत्रयसम्पन्नः शोकाब्धिं तरति द्रुतम् ॥
इतर श्री गुरु स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.