Sri Bhadrakali Ashtakam 2 – श्री भद्रकाल्यष्टकम् २


श्रीमच्छङ्करपाणिपल्लवकिरल्लोलम्बमालोल्लस-
-न्मालालोलकलापकालकबरीभारावलीभासुरीम् ।
कारुण्यामृतवारिराशिलहरीपीयूषवर्षावलीं
बालाम्बां ललितालकामनुदिनं श्रीभद्रकालीं भजे ॥ १ ॥

हेलादारितदारिकासुरशिरःश्रीवीरपाणोन्मद-
-श्रेणीशोणितशोणिमाधरपुटीं वीटीरसास्वादिनीम् ।
पाटीरादिसुगन्धिचूचुकतटीं शाटीकुटीरस्तनीं
घोटीवृन्दसमानधाटियुयुधीं श्रीभद्रकालीं भजे ॥ २ ॥

बालार्कायुतकोटिभासुरकिरीटामुक्तमुग्धालक-
-श्रेणीनिन्दितवासिकामरुसरोजाकाञ्चलोरुश्रियम् ।
वीणावादनकौशलाशयशयश्यानन्दसन्दायिनी-
-मम्बामम्बुजलोचनामनुदिनं श्रीभद्रकालीं भजे ॥ ३ ॥

मातङ्गश्रुतिभूषिणीं मधुधरीवाणीसुधामोषिणीं
भ्रूविक्षेपकटाक्षवीक्षणविसर्गक्षेमसंहारिणीम् ।
मातङ्गीं महिषासुरप्रमथिनीं माधुर्यधुर्याकर-
-श्रीकारोत्तरपाणिपङ्कजपुटीं श्रीभद्रकालीं भजे ॥ ४ ॥

मातङ्गाननबाहुलेयजननीं मातङ्गसङ्गामिनीं
चेतोहारितनुच्छवीं शफरिकाचक्षुष्मतीमम्बिकाम् ।
जृम्भत्प्रौढिनिशुम्भशुम्भमथिनीमम्भोजभूपूजितां
सम्पत्सन्ततिदायिनीं हृदि सदा श्रीभद्रकालीं भजे ॥ ५ ॥

आनन्दैकतरङ्गिणीममलहृन्नालीकहंसीमणीं
पीनोत्तुङ्गघनस्तनां घनलसत्पाटीरपङ्कोज्ज्वलाम् ।
क्षौमावीतनितम्बबिम्बरशनास्यूतक्वणत् किङ्किणीं
एणाङ्काम्बुजभासुरास्यनयनां श्रीभद्रकालीं भजे ॥ ६ ॥

कालाम्भोदकलायकोमलतनुच्छायाशितीभूतिमत्
सङ्ख्यानान्तरितस्तनान्तरलसन्मालाकिलन्मौक्तिकाम् ।
नाभीकूपसरोजनालविलसच्छातोदरीशापदीं
दूरीकुर्वयि देवि घोरदुरितं श्रीभद्रकालीं भजे ॥ ७ ॥

आत्मीयस्तनकुम्भकुङ्कुमरजःपङ्कारुणालङ्कृत-
-श्रीकण्ठौरसभूरिभूतिममरीकोटीरहीरायिताम् ।
वीणापाणिसनन्दनन्दितपदामेणीविशालेक्षणां
वेणीह्रीणितकालमेघपटलीं श्रीभद्रकालीं भजे ॥ ८ ॥

देवीपादपयोजपूजनमिति श्रीभद्रकाल्यष्टकं
रोगौघाघघनानिलायितमिदं प्रातः प्रगेयं पठन् ।
श्रेयः श्रीशिवकीर्तिसम्पदमलं सम्प्राप्य सम्पन्मयीं
श्रीदेवीमनपायिनीं गतिमयन् सोऽयं सुखी वर्तते ॥

इति श्रीनारायणगुरुविरचितं श्रीभद्रकाल्यष्टकम् ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed