Kakaradi Kali Sahasranama Stotram – ककारादि श्री काली सहस्रनाम स्तोत्रम्


अस्य श्रीसर्वसाम्राज्य मेधाकालीस्वरूप ककारात्मक सहस्रनामस्तोत्र मन्त्रस्य महाकाल ऋषिः अनुष्टुप् छन्दः श्रीदक्षिण महाकाली देवता ह्रीं बीजं हूं शक्तिः क्रीं कीलकं कालीवरदानाद्यखिलेष्टार्थे पाठे विनियोगः ।

ऋष्यादिन्यासः –
ओं महाकाल ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
श्री दक्षिण महाकाली देवतायै नमः हृदये ।
ह्रीं बीजाय नमः गुह्ये ।
हूं शक्तये नमः पादयोः ।
क्रीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं क्रां अङ्गुष्ठाभ्यां नमः ।
ओं क्रीं तर्जनीभ्यां नमः ।
ओं क्रूं मध्यमाभ्यां नमः ।
ओं क्रैं अनामिकाभ्यां नमः ।
ओं क्रौं कनिष्ठिकाभ्यां नमः ।
ओं क्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादि न्यासः –
ओं क्रां हृदयाय नमः ।
ओं क्रीं शिरसे स्वाहा ।
ओं क्रूं शिखायै वषट् ।
ओं क्रैं कवचाय हुम् ।
ओं क्रौं नेत्रत्रयाय वौषट् ।
ओं क्रः अस्त्राय फट् ।

अथ ध्यानम् ।
करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥ १ ॥

सद्यश्छिन्नशिरः खड्गवामोर्ध्वाधः कराम्बुजाम् ।
अभयं वरदं चैव दक्षिणाधोर्ध्वपाणिकाम् ॥ २ ॥

महामेघप्रभां श्यामां तथा चैव दिगम्बराम् ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ॥ ३ ॥

कर्णावतंसतानीत शवयुग्मभयानकाम् ।
घोरदंष्ट्राकरालास्यां पीनोन्नतपयोधराम् ॥ ४ ॥

शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् ।
सृक्काद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥ ५ ॥

घोररूपां महारौद्रीं श्मशानालयवासिनीम् ।
दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् ॥ ६ ॥

शवरूपमहादेवहृदयोपरि संस्थिताम् ।
शिवाभिर्घोररूपाभिश्चतुर्दिक्षु समन्विताम् ॥ ७ ॥

महाकालेन सार्धोर्धमुपविष्टरतातुराम् ।
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।
एवं सञ्चिन्तयेद्देवीं श्मशानालयवासिनीम् ॥ ८ ॥

अथ स्तोत्रम् ।
ओं क्रीं काली क्रूं कराली च कल्याणी कमला कला ।
कलावती कलाढ्या च कलापूज्या कलात्मिका ॥ १ ॥

कलादृष्टा कलापुष्टा कलामस्ता कलाकरा ।
कलाकोटिसमाभासा कलाकोटिप्रपूजिता ॥ २ ॥

कलाकर्म कलाधारा कलापारा कलागमा ।
कलाधारा कमलिनी ककारा करुणा कविः ॥ ३ ॥

ककारवर्णसर्वाङ्गी कलाकोटिप्रभूषिता ।
ककारकोटिगुणिता ककारकोटिभूषणा ॥ ४ ॥

ककारवर्णहृदया ककारमनुमण्डिता ।
ककारवर्णनिलया ककशब्दपरायणा ॥ ५ ॥

ककारवर्णमुकुटा ककारवर्णभूषणा ।
ककारवर्णरूपा च काकशब्दपरायणा ॥ ६ ॥

कवीरास्फालनरता कमलाकरपूजिता ।
कमलाकरनाथा च कमलाकररूपधृक् ॥ ७ ॥

कमलाकरसिद्धिस्था कमलाकरपारदा ।
कमलाकरमध्यस्था कमलाकरतोषिता ॥ ८ ॥

कथङ्कारपरालापा कथङ्कारपरायणा ।
कथङ्कारपदान्तस्था कथङ्कारपदार्थभूः ॥ ९ ॥

कमलाक्षी कमलजा कमलाक्षप्रपूजिता ।
कमलाक्षवरोद्युक्ता ककारा कर्बुराक्षरा ॥ १० ॥

करतारा करच्छिन्ना करश्यामा करार्णवा ।
करपूज्या कररता करदा करपूजिता ॥ ११ ॥

करतोया करामर्षा कर्मनाशा करप्रिया ।
करप्राणा करकजा करका करकान्तरा ॥ १२ ॥

करकाचलरूपा च करकाचलशोभिनी ।
करकाचलपुत्री च करकाचलतोषिता ॥ १३ ॥

करकाचलगेहस्था करकाचलरक्षिणी ।
करकाचलसम्मान्या करकाचलकारिणी ॥ १४ ॥

करकाचलवर्षाढ्या करकाचलरञ्जिता ।
करकाचलकान्तारा करकाचलमालिनी ॥ १५ ॥

करकाचलभोज्या च करकाचलरूपिणी ।
करामलकसंस्था च करामलकसिद्धिदा ॥ १६ ॥

करामलकसम्पूज्या करामलकतारिणी ।
करामलककाली च करामलकरोचिनी ॥ १७ ॥

करामलकमाता च करामलकसेविनी ।
करामलकबद्ध्येया करामलकदायिनी ॥ १८ ॥

कञ्जनेत्रा कञ्जगतिः कञ्जस्था कञ्जधारिणी ।
कञ्जमालाप्रियकरी कञ्जरूपा च कञ्जजा ॥ १९ ॥

कञ्जजातिः कञ्जगतिः कञ्जहोमपरायणा ।
कञ्जमण्डलमध्यस्था कञ्जाभरणभूषिता ॥ २० ॥

कञ्जसम्माननिरता कञ्जोत्पत्तिपरायणा ।
कञ्जराशिसमाकारा कञ्जारण्यनिवासिनी ॥ २१ ॥

करञ्जवृक्षमध्यस्था करञ्जवृक्षवासिनी ।
करञ्जफलभूषाढ्या करञ्जवनवासिनी ॥ २२ ॥

करञ्जमालाभरणा करवालपरायणा ।
करवालप्रहृष्टात्मा करवालप्रियागतिः ॥ २३ ॥

करवालप्रियाकन्था करवालविहारिणी ।
करवालमयी कर्मा करवालप्रियङ्करी ॥ २४ ॥

कबन्धमालाभरणा कबन्धराशिमध्यगा ।
कबन्धकूटसंस्थाना कबन्धानन्तभूषणा ॥ २५ ॥

कबन्धनादसन्तुष्टा कबन्धासनधारिणी ।
कबन्धगृहमध्यस्था कबन्धवनवासिनी ॥ २६ ॥

कबन्धकाञ्चीकरणी कबन्धराशिभूषणा ।
कबन्धमालाजयदा कबन्धदेहवासिनी ॥ २७ ॥

कबन्धासनमान्या च कपालमाल्यधारिणी ।
कपालमालामध्यस्था कपालव्रततोषिता ॥ २८ ॥

कपालदीपसन्तुष्टा कपालदीपरूपिणी ।
कपालदीपवरदा कपालकज्जलस्थिता ॥ २९ ॥

कपालमालाजयदा कपालजपतोषिणी ।
कपालसिद्धिसंहृष्टा कपालभोजनोद्यता ॥ ३० ॥

कपालव्रतसंस्थाना कपालकमलालया ।
कवित्वामृतसारा च कवित्वामृतसागरा ॥ ३१ ॥

कवित्वसिद्धिसंहृष्टा कवित्वादानकारिणी ।
कविपूज्या कविगतिः कविरूपा कविप्रिया ॥ ३२ ॥

कविब्रह्मानन्दरूपा कवित्वव्रततोषिता ।
कविमानससंस्थाना कविवाञ्छाप्रपूरणी ॥ ३३ ॥

कविकण्ठस्थिता कं ह्रीं कङ्कङ्कं कविपूर्तिदा ।
कज्जला कज्जलादानमानसा कज्जलप्रिया ॥ ३४ ॥

कपालकज्जलसमा कज्जलेशप्रपूजिता ।
कज्जलार्णवमध्यस्था कज्जलानन्दरूपिणी ॥ ३५ ॥

कज्जलप्रियसन्तुष्टा कज्जलप्रियतोषिणी ।
कपालमालाभरणा कपालकरभूषणा ॥ ३६ ॥

कपालकरभूषाढ्या कपालचक्रमण्डिता ।
कपालकोटिनिलया कपालदुर्गकारिणी ॥ ३७ ॥

कपालगिरिसंस्थाना कपालचक्रवासिनी ।
कपालपात्रसन्तुष्टा कपालार्घ्यपरायणा ॥ ३८ ॥

कपालार्घ्यप्रियप्राणा कपालार्घ्यवरप्रदा ।
कपालचक्ररूपा च कपालरूपमात्रगा ॥ ३९ ॥

कदली कदलीरूपा कदलीवनवासिनी ।
कदलीपुष्पसम्प्रीता कदलीफलमानसा ॥ ४० ॥

कदलीहोमसन्तुष्टा कदलीदर्शनोद्यता ।
कदलीगर्भमध्यस्था कदलीवनसुन्दरी ॥ ४१ ॥

कदम्बपुष्पनिलया कदम्बवनमध्यगा ।
कदम्बकुसुमामोदा कदम्बवनतोषिणी ॥ ४२ ॥

कदम्बपुष्पसम्पूज्या कदम्बपुष्पहोमदा ।
कदम्बपुष्पमध्यस्था कदम्बफलभोजिनी ॥ ४३ ॥

कदम्बकाननान्तःस्था कदम्बाचलवासिनी ।
कक्षपा कक्षपाराध्या कक्षपासनसंस्थिता ॥ ४४ ॥

कर्णपूरा कर्णनासा कर्णाढ्या कालभैरवी ।
कलप्रीता कलहदा कलहा कलहातुरा ॥ ४५ ॥

कर्णयक्षी कर्णवार्ता कथिनी कर्णसुन्दरी ।
कर्णपिशाचिनी कर्णमञ्जरी कविकक्षदा ॥ ४६ ॥

कविकक्षविरूपाढ्या कविकक्षस्वरूपिणी ।
कस्तूरीमृगसंस्थाना कस्तूरीमृगरूपिणी ॥ ४७ ॥

कस्तूरीमृगसन्तोषा कस्तूरीमृगमध्यगा ।
कस्तूरीरसनीलाङ्गी कस्तूरीगन्धतोषिता ॥ ४८ ॥

कस्तूरीपूजकप्राणा कस्तूरीपूजकप्रिया ।
कस्तूरीप्रेमसन्तुष्टा कस्तूरीप्राणधारिणी ॥ ४९ ॥

कस्तूरीपूजकानन्दा कस्तूरीगन्धरूपिणी ।
कस्तूरीमालिकारूपा कस्तूरीभोजनप्रिया ॥ ५० ॥

कस्तूरीतिलकानन्दा कस्तूरीतिलकप्रिया ।
कस्तूरीहोमसन्तुष्टा कस्तूरीतर्पणोद्यता ॥ ५१ ॥

कस्तूरीमार्जनोद्युक्ता कस्तूरीचक्रपूजिता ।
कस्तूरीपुष्पसम्पूज्या कस्तूरीचर्वणोद्यता ॥ ५२ ॥

कस्तूरीगर्भमध्यस्था कस्तूरीवस्त्रधारिणी ।
कस्तूरिकामोदरता कस्तूरीवनवासिनी ॥ ५३ ॥

कस्तूरीवनसंरक्षा कस्तूरीप्रेमधारिणी ।
कस्तूरीशक्तिनिलया कस्तूरीशक्तिकुण्डगा ॥ ५४ ॥

कस्तूरीकुण्डसंस्नाता कस्तूरीकुण्डमज्जना ।
कस्तूरीजीवसन्तुष्टा कस्तूरीजीवधारिणी ॥ ५५ ॥

कस्तूरीपरमामोदा कस्तूरीजीवनक्षमा ।
कस्तूरीजातिभावस्था कस्तूरीगन्धचुम्बना ॥ ५६ ॥

कस्तूरीगन्धसंशोभाविराजितकपालभूः ।
कस्तूरीमदनान्तःस्था कस्तूरीमदहर्षदा ॥ ५७ ॥

कस्तूरीकवितानाढ्या कस्तूरीगृहमध्यगा ।
कस्तूरीस्पर्शकप्राणा कस्तूरीनिन्दकान्तका ॥ ५८ ॥

कस्तूर्यामोदरसिका कस्तूरीक्रीडनोद्यता ।
कस्तूरीदाननिरता कस्तूरीवरदायिनी ॥ ५९ ॥

कस्तूरीस्थापनासक्ता कस्तूरीस्थानरञ्जिनी ।
कस्तूरीकुशलप्राणा कस्तूरीस्तुतिवन्दिता ॥ ६० ॥

कस्तूरीवन्दकाराध्या कस्तूरीस्थानवासिनी ।
कहरूपा कहाढ्या च कहानन्दा कहात्मभूः ॥ ६१ ॥

कहपूज्या कहात्याख्या कहहेया कहात्मिका ।
कहमालाकण्ठभूषा कहमन्त्रजपोद्यता ॥ ६२ ॥

कहनामस्मृतिपरा कहनामपरायणा ।
कहपारायणरता कहदेवी कहेश्वरी ॥ ६३ ॥

कहहेतु कहानन्दा कहनादपरायणा ।
कहमाता कहान्तःस्था कहमन्त्रा कहेश्वरी ॥ ६४ ॥

कहगेया कहाराध्या कहध्यानपरायणा ।
कहतन्त्रा कहकहा कहचर्यापरायणा ॥ ६५ ॥

कहाचारा कहगतिः कहताण्डवकारिणी ।
कहारण्या कहरतिः कहशक्तिपरायणा ॥ ६६ ॥

कहराज्यनता कर्मसाक्षिणी कर्मसुन्दरी ।
कर्मविद्या कर्मगतिः कर्मतन्त्रपरायणा ॥ ६७ ॥

कर्ममात्रा कर्मगात्रा कर्मधर्मपरायणा ।
कर्मरेखानाशकर्त्री कर्मरेखाविनोदिनी ॥ ६८ ॥

कर्मरेखामोहकरी कर्मकीर्तिपरायणा ।
कर्मविद्या कर्मसारा कर्माधारा च कर्मभूः ॥ ६९ ॥

कर्मकारी कर्महारी कर्मकौतुकसुन्दरी ।
कर्मकाली कर्मतारा कर्मच्छिन्ना च कर्मदा ॥ ७० ॥

कर्मचाण्डालिनी कर्मवेदमाता च कर्मभूः ।
कर्मकाण्डरतानन्ता कर्मकाण्डानुमानिता ॥ ७१ ॥

कर्मकाण्डपरीणाहा कमठी कमठाकृतिः ।
कमठाराध्यहृदया कमठाकण्ठसुन्दरी ॥ ७२ ॥

कमठासनसंसेव्या कमठी कर्मतत्परा ।
करुणाकरकान्ता च करुणाकरवन्दिता ॥ ७३ ॥

कठोरकरमाला च कठोरकुचधारिणी ।
कपर्दिनी कपटिनी कठिना कङ्कभूषणा ॥ ७४ ॥

करभोरूः कठिनदा करभा करभालया ।
कलभाषामयी कल्पा कल्पना कल्पदायिनी ॥ ७५ ॥

कमलस्था कलामाला कमलास्या क्वणत्प्रभा ।
ककुद्मिनी कष्टवती करणीयकथार्चिता ॥ ७६ ॥

कचार्चिता कचतनुः कचसुन्दरधारिणी ।
कठोरकुचसंलग्ना कटिसूत्रविराजिता ॥ ७७ ॥

कर्णभक्षप्रिया कन्दा कथा कन्दगतिः कलिः ।
कलिघ्नी कलिदूती च कविनायकपूजिता ॥ ७८ ॥

कणकक्षानियन्त्री च कश्चित्कविवरार्चिता ।
कर्त्री च कर्तृकाभूषा कारिणी कर्णशत्रुपा ॥ ७९ ॥

करणेशी करणपा कलवाचा कलानिधिः ।
कलना कलनाधारा कारिका करका करा ॥ ८० ॥

कलज्ञेया कर्कराशिः कर्कराशिप्रपूजिता ।
कन्याराशिः कन्यका च कन्यकाप्रियभाषिणी ॥ ८१ ॥

कन्यकादानसन्तुष्टा कन्यकादानतोषिणी ।
कन्यादानकरानन्दा कन्यादानग्रहेष्टदा ॥ ८२ ॥

कर्षणा कक्षदहना कामिता कमलासना ।
करमालानन्दकर्त्री करमालाप्रतोषिता ॥ ८३ ॥

करमालाशयानन्दा करमालासमागमा ।
करमालासिद्धिदात्री करमालाकरप्रिया ॥ ८४ ॥

करप्रिया कररता करदानपरायणा ।
कलानन्दा कलिगतिः कलिपूज्या कलिप्रसूः ॥ ८५ ॥

कलनादनिनादस्था कलनादवरप्रदा ।
कलनादसमाजस्था कहोला च कहोलदा ॥ ८६ ॥

कहोलगेहमध्यस्था कहोलवरदायिनी ।
कहोलकविताधारा कहोलऋषिमानिता ॥ ८७ ॥

कहोलमानसाराध्या कहोलवाक्यकारिणी ।
कर्तृरूपा कर्तृमयी कर्तृमाता च कर्तरी ॥ ८८ ॥

कनीया कनकाराध्या कनीनकमयी तथा ।
कनीयानन्दनिलया कनकानन्दतोषिता ॥ ८९ ॥

कनीयककरा काष्ठा कथार्णवकरी करी ।
करिगम्या करिगतिः करिध्वजपरायणा ॥ ९० ॥

करिनाथप्रिया कण्ठा कथानकप्रतोषिता ।
कमनीया कमनका कमनीयविभूषणा ॥ ९१ ॥

कमनीयसमाजस्था कमनीयव्रतप्रिया ।
कमनीयगुणाराध्या कपिला कपिलेश्वरी ॥ ९२ ॥

कपिलाराध्यहृदया कपिलाप्रियवादिनी ।
कहचक्रमन्त्रवर्णा कहचक्रप्रसूनका ॥ ९३ ॥

कएईलह्रींस्वरूपा च कएईलह्रींवरप्रदा ।
कएईलह्रींसिद्धिदात्री कएईलह्रींस्वरूपिणी ॥ ९४ ॥

कएईलह्रींमन्त्रवर्णा कएईलह्रीम्प्रसूकला ।
कएवर्गा कपाटस्था कपाटोद्घाटनक्षमा ॥ ९५ ॥

कङ्काली च कपाली च कङ्कालप्रियभाषिणी ।
कङ्कालभैरवाराध्या कङ्कालमानसंस्थिता ॥ ९६ ॥

कङ्कालमोहनिरता कङ्कालमोहदायिनी ।
कलुषघ्नी कलुषहा कलुषार्तिविनाशिनी ॥ ९७ ॥

कलिपुष्पा कलादाना कशिपुः कश्यपार्चिता ।
कश्यपा कश्यपाराध्या कलिपूर्णकलेवरा ॥ ९८ ॥

कलेवरकरी काञ्ची कवर्गा च करालका ।
करालभैरवाराध्या करालभैरवेश्वरी ॥ ९९ ॥

कराला कलनाधारा कपर्दीशवरप्रदा ।
कपर्दीशप्रेमलता कपर्दिमालिकायुता ॥ १०० ॥

कपर्दिजपमालाढ्या करवीरप्रसूनदा ।
करवीरप्रियप्राणा करवीरप्रपूजिता ॥ १०१ ॥

कर्णिकारसमाकारा कर्णिकारप्रपूजिता ।
करीषाग्निस्थिता कर्षा कर्षमात्रसुवर्णदा ॥ १०२ ॥

कलशा कलशाराध्या कषाया करिगानदा ।
कपिला कलकण्ठी च कलिकल्पलता मता ॥ १०३ ॥

कल्पमाता कल्पलता कल्पकारी च कल्पभूः ।
कर्पूरामोदरुचिरा कर्पूरामोदधारिणी ॥ १०४ ॥

कर्पूरमालाभरणा कर्पूरवासपूर्तिदा ।
कर्पूरमालाजयदा कर्पूरार्णवमध्यगा ॥ १०५ ॥

कर्पूरतर्पणरता कटकाम्बरधारिणी ।
कपटेश्ववरसम्पूज्या कपटेश्वररूपिणी ॥ १०६ ॥

कटुः कपिध्वजाराध्या कलापपुष्पधारिणी ।
कलापपुष्परुचिरा कलापपुष्पपूजिता ॥ १०७ ॥

क्रकचा क्रकचाराध्या कथम्ब्रूमा करालता ।
कथङ्कारविनिर्मुक्ता काली कालक्रिया क्रतुः ॥ १०८ ॥

कामिनी कामिनीपूज्या कामिनीपुष्पधारिणी ।
कामिनीपुष्पनिलया कामिनीपुष्पपूर्णिमा ॥ १०९ ॥

कामिनीपुष्पपूजार्हा कामिनीपुष्पभूषणा ।
कामिनीपुष्पतिलका कामिनीकुण्डचुम्बना ॥ ११० ॥

कामिनीयोगसन्तुष्टा कामिनीयोगभोगदा ।
कामिनीकुण्डसम्मग्ना कामिनीकुण्डमध्यगा ॥ १११ ॥

कामिनीमानसाराध्या कामिनीमानतोषिता ।
कामिनीमानसञ्चारा कालिका कालकालिका ॥ ११२ ॥

कामा च कामदेवी च कामेशी कामसम्भवा ।
कामभावा कामरता कामार्ता काममञ्जरी ॥ ११३ ॥

काममञ्जीररणिता कामदेवप्रियान्तरा ।
कामकाली कामकला कालिका कमलार्चिता ॥ ११४ ॥

कादिका कमला काली कालानलसमप्रभा ।
कल्पान्तदहना कान्ता कान्तारप्रियवासिनी ॥ ११५ ॥

कालपूज्या कालरता कालमाता च कालिनी ।
कालवीरा कालघोरा कालसिद्धा च कालदा ॥ ११६ ॥

कालाञ्जनसमाकारा कालञ्जरनिवासिनी ।
कालऋद्धिः कालवृद्धिः कारागृहविमोचिनी ॥ ११७ ॥

कादिविद्या कादिमाता कादिस्था कादिसुन्दरी ।
काशी काञ्ची च काञ्चीशा काशीशवरदायिनी ॥ ११८ ॥

क्रीम्बीजा चैव क्रीं बीजहृदयाय नमः स्मृता ।
काम्या काम्यगतिः काम्यसिद्धिदात्री च कामभूः ॥ ११९ ॥

कामाख्या कामरूपा च कामचापविमोचिनी ।
कामदेवकलारामा कामदेवकलालया ॥ १२० ॥

कामरात्रिः कामदात्री कान्ताराचलवासिनी ।
कामरूपा कामगतिः कामयोगपरायणा ॥ १२१ ॥

कामसम्मर्दनरता कामगेहविकाशिनी ।
कालभैरवभार्या च कालभैरवकामिनी ॥ १२२ ॥

कालभैरवयोगस्था कालभैरवभोगदा ।
कामधेनुः कामदोग्ध्री काममाता च कान्तिदा ॥ १२३ ॥

कामुका कामुकाराध्या कामुकानन्दवर्धिनी ।
कार्तवीर्या कार्तिकेया कार्तिकेयप्रपूजिता ॥ १२४ ॥

कार्या कारणदा कार्यकारिणी कारणान्तरा ।
कान्तिगम्या कान्तिमयी कान्त्या कात्यायनी च का ॥ १२५ ॥

कामसारा च काश्मीरा काश्मीराचारतत्परा ।
कामरूपाचाररता कामरूपप्रियंवदा ॥ १२६ ॥

कामरूपाचारसिद्धिः कामरूपमनोमयी ।
कार्तिकी कार्तिकाराध्या काञ्चनारप्रसूनभूः ॥ १२७ ॥

काञ्चनारप्रसूनाभा काञ्चनारप्रपूजिता ।
काञ्चरूपा काञ्चभूमिः कांस्यपात्रप्रभोजिनी ॥ १२८ ॥

कांस्यध्वनिमयी कामसुन्दरी कामचुम्बना ।
काशपुष्पप्रतीकाशा कामद्रुमसमागमा ॥ १२९ ॥

कामपुष्पा कामभूमिः कामपूज्या च कामदा ।
कामदेहा कामगेहा कामबीजपरायणा ॥ १३० ॥

कामध्वजसमारूढा कामध्वजसमास्थिता ।
काश्यपी काश्यपाराध्या काश्यपानन्ददायिनी ॥ १३१ ॥

कालिन्दीजलसङ्काशा कालिन्दीजलपूजिता ।
कादेवपूजानिरता कादेवपरमार्थदा ॥ १३२ ॥

कर्मणा कर्मणाकारा कामकर्मणकारिणी ।
कार्मणत्रोटनकरी काकिनी कारणाह्वया ॥ १३३ ॥

काव्यामृता च कालिङ्गा कालिङ्गमर्दनोद्यता ।
कालागुरुविभूषाढ्या कालागुरुविभूतिदा ॥ १३४ ॥

कालागुरुसुगन्धा च कालागुरुप्रतर्पणा ।
कावेरीनीरसम्प्रीता कावेरीतीरवासिनी ॥ १३५ ॥

कालचक्रभ्रमाकारा कालचक्रनिवासिनी ।
कानना काननाधारा कारुः कारुणिकामयी ॥ १३६ ॥

काम्पिल्यवासिनी काष्ठा कामपत्नी च कामभूः ।
कादम्बरीपानरता तथा कादम्बरी कला ॥ १३७ ॥

कामवन्द्या च कामेशी कामराजप्रपूजिता ।
कामराजेश्वरीविद्या कामकौतुकसुन्दरी ॥ १३८ ॥

काम्बोजजा काञ्छिनदा कांस्यकाञ्चनकारिणी ।
काञ्चनाद्रिसमाकारा काञ्चनाद्रिप्रदानदा ॥ १३९ ॥

कामकीर्तिः कामकेशी कारिका कान्तराश्रया ।
कामभेदी च कामार्तिनाशिनी कामभूमिका ॥ १४० ॥

कालनिर्णाशिनी काव्यवनिता कामरूपिणी ।
कायस्थाकामसन्दीप्तिः काव्यदा कालसुन्दरी ॥ १४१ ॥

कामेशी कारणवरा कामेशीपूजनोद्यता ।
काञ्चीनूपुरभूषाढ्या कुङ्कुमाभरणान्विता ॥ १४२ ॥

कालचक्रा कालगतिः कालचक्रमनोभवा ।
कुन्दमध्या कुन्दपुष्पा कुन्दपुष्पप्रिया कुजा ॥ १४३ ॥

कुजमाता कुजाराध्या कुठारवरधारिणी ।
कुञ्जरस्था कुशरता कुशेशयविलोचना ॥ १४४ ॥

कुनटी कुररी कुद्रा कुरङ्गी कुटजाश्रया ।
कुम्भीनसविभूषा च कुम्भीनसवधोद्यता ॥ १४५ ॥

कुम्भकर्णमनोल्लासा कुलचूडामणिः कुला ।
कुलालगृहकन्या च कुलचूडामणिप्रिया ॥ १४६ ॥

कुलपूज्या कुलाराध्या कुलपूजापरायणा ।
कुलभूषा तथा कुक्षिः कुररीगणसेविता ॥ १४७ ॥

कुलपुष्पा कुलरता कुलपुष्पपरायणा ।
कुलवस्त्रा कुलाराध्या कुलकुण्डसमप्रभा ॥ १४८ ॥

कुलकुण्डसमोल्लासा कुण्डपुष्पपरायणा ।
कुण्डपुष्पप्रसन्नास्या कुण्डगोलोद्भवात्मिका ॥ १४९ ॥

कुण्डगोलोद्भवाधारा कुण्डगोलमयी कुहूः ।
कुण्डगोलप्रियप्राणा कुण्डगोलप्रपूजिता ॥ १५० ॥

कुण्डगोलमनोल्लासा कुण्डगोलबलप्रदा ।
कुण्डदेवरता क्रुद्धा कुलसिद्धिकरा परा ॥ १५१ ॥

कुलकुण्डसमाकारा कुलकुण्डसमानभूः ।
कुण्डसिद्धिः कुण्डऋद्धिः कुमारीपूजनोद्यता ॥ १५२ ॥

कुमारीपूजकप्राणा कुमारीपूजकालया ।
कुमारीकामसन्तुष्टा कुमारीपूजनोत्सुका ॥ १५३ ॥

कुमारीव्रतसन्तुष्टा कुमारीरूपधारिणी ।
कुमारीभोजनप्रीता कुमारी च कुमारदा ॥ १५४ ॥

कुमारमाता कुलदा कुलयोनिः कुलेश्वरी ।
कुललिङ्गा कुलानन्दा कुलरम्या कुतर्कधृक् ॥ १५५ ॥

कुन्ती च कुलकान्ता च कुलमार्गपरायणा ।
कुल्ला च कुरुकुल्ला च कुल्लुका कुलकामदा ॥ १५६ ॥

कुलिशाङ्गी कुब्जिका च कुब्जिकानन्दवर्धिनी ।
कुलीना कुञ्जरगतिः कुञ्जरेश्वरगामिनी ॥ १५७ ॥

कुलपाली कुलवती तथैव कुलदीपिका ।
कुलयोगेश्वरी कुण्डा कुङ्कुमारुणविग्रहा ॥ १५८ ॥

कुङ्कुमानन्दसन्तोषा कुङ्कुमार्णववासिनी ।
कुङ्कुमाकुसुमप्रीता कुलभूः कुलसुन्दरी ॥ १५९ ॥

कुमुद्वती कुमुदिनी कुशला कुलटालया ।
कुलटालयमध्यस्था कुलटासङ्गतोषिता ॥ १६० ॥

कुलटाभवनोद्युक्ता कुशावर्ता कुलार्णवा ।
कुलार्णवाचाररता कुण्डली कुण्डलाकृतिः ॥ १६१ ॥

कुमतिश्च कुलश्रेष्ठा कुलचक्रपरायणा ।
कूटस्था कूटदृष्टिश्च कुन्तला कुन्तलाकृतिः ॥ १६२ ॥

कुशलाकृतिरूपा च कूर्चबीजधरा च कूः ।
कुं कुं कुं कुं शब्दरता क्रुं क्रुं क्रुं क्रुं परायणा ॥ १६३ ॥

कुं कुं कुं शब्दनिलया कुक्कुरालयवासिनी ।
कुक्कुरासङ्गसम्युक्ता कुक्कुरानन्तविग्रहा ॥ १६४ ॥

कूर्चारम्भा कूर्चबीजा कूर्चजापपरायणा ।
कुलिनी कुलसंस्थाना कूर्चकण्ठपरागतिः ॥ १६५ ॥

कूर्चवीणाभालदेशा कूर्चमस्तकभूषिता ।
कुलवृक्षगता कूर्मा कूर्माचलनिवासिनी ॥ १६६ ॥

कुलबिन्दुः कुलशिवा कुलशक्तिपरायणा ।
कुलबिन्दुमणिप्रख्या कुङ्कुमद्रुमवासिनी ॥ १६७ ॥

कुचमर्दनसन्तुष्टा कुचजापपरायणा ।
कुचस्पर्शनसन्तुष्टा कुचालिङ्गनहर्षदा ॥ १६८ ॥

कुमतिघ्नी कुबेरार्च्या कुचभूः कुलनायिका ।
कुगायना कुचधरा कुमाता कुन्ददन्तिनी ॥ १६९ ॥

कुगेया कुहराभासा कुगेयाकुघ्नदारिका ।
कीर्तिः किरातिनी क्लिन्ना किन्नरा किन्नरीक्रिया ॥ १७० ॥

क्रीङ्कारा क्रीञ्जपासक्ता क्रीं हूं स्त्रीं मन्त्ररूपिणी ।
किर्मीरितदृशापाङ्गी किशोरी च किरीटिनी ॥ १७१ ॥

कीटभाषा कीटयोनिः कीटमाता च कीटदा ।
किंशुका कीरभाषा च क्रियासारा क्रियावती ॥ १७२ ॥

कीङ्कींशब्दपरा क्लां क्लीं क्लूं क्लैं क्लौं मन्त्ररूपिणी ।
कां कीं कूं कैं स्वरूपा च कः फट् मन्त्रस्वरूपिणी ॥ १७३ ॥

केतकीभूषणानन्दा केतकीभरणान्विता ।
कैकदा केशिनी केशी केशिसूदनतत्परा ॥ १७४ ॥

केशरूपा केशमुक्ता कैकेयी कौशिकी तथा ।
कैरवा कैरवाह्लादा केशरा केतुरूपिणी ॥ १७५ ॥

केशवाराध्यहृदया केशवासक्तमानसा ।
क्लैब्यविनाशिनी क्लैं च क्लैं बीजजपतोषिता ॥ १७६ ॥

कौशल्या कोशलाक्षी च कोशा च कोमला तथा ।
कोलापुरनिवासा च कोलासुरविनाशिनी ॥ १७७ ॥

कोटिरूपा कोटिरता क्रोधिनी क्रोधरूपिणी ।
केका च कोकिला कोटिः कोटिमन्त्रपरायणा ॥ १७८ ॥

कोट्यनन्तमन्त्रयुक्ता कैरूपा केरलाश्रया ।
केरलाचारनिपुणा केरलेन्द्रगृहस्थिता ॥ १७९ ॥

केदाराश्रमसंस्था च केदारेश्वरपूजिता ।
क्रोधरूपा क्रोधपदा क्रोधमाता च कौशिकी ॥ १८० ॥

कोदण्डधारिणी क्रौञ्चा कौशल्या कौलमार्गगा ।
कौलिनी कौलिकाराध्या कौलिकागारवासिनी ॥ १८१ ॥

कौतुकी कौमुदी कौला कौमारी कौरवार्चिता ।
कौण्डिन्या कौशिकी क्रोधज्वालाभासुररूपिणी ॥ १८२ ॥

कोटिकालानलज्वाला कोटिमार्तण्डविग्रहा ।
कृत्तिका कृष्णवर्णा च कृष्णा कृत्या क्रियातुरा ॥ १८३ ॥

कृशाङ्गी कृतकृत्या च क्रः फट् स्वाहा स्वरूपिणी ।
क्रौं क्रौं हूं फट् मन्त्रवर्णा क्रीं ह्रीं हूं फट् नमः स्वधा ॥ १८४ ॥

क्रीं क्रीं ह्रीं ह्रीं तथा ह्रूं ह्रूं फट् स्वाहा मन्त्ररूपिणी ।
इति श्रीसर्वसाम्राज्यमेधानाम सहस्रकम् ॥ १८५ ॥

इति श्रीरुद्रयामले कालीतन्त्रे ककारादि श्री काली सहस्रनाम स्तोत्रम् ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed