Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पूर्वाङ्गं पश्यतु ॥
हरिद्रा गणपति पूजा पश्यतु ॥
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थ सिद्ध्यर्थं श्रीमदाञ्जनेय स्वामि देवता प्रीत्यर्थं यथाशक्ति षोडशोपचार पूजां करिष्ये ॥
ध्यानम् –
अतुलितबलधामं स्वर्णशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं
रघुपतिप्रियभक्तं वातजातं नमामि ॥
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥
ओं श्री हनुमते नमः ध्यायामि ।
आवाहनम् –
रामचन्द्रपदाम्भोजयुगल स्थिरमासनम् ।
आवाहयामि वरदं हनूमन्तमभीष्टदम् ॥
ओं श्री हनुमते नमः आवाहयामि ।
आसनम् –
नवरत्ननिबद्धाश्रं चतुरश्रं सुशोभनम् ।
सौवर्णमासनं तुभ्यं दास्यामि कपिनायक ॥
ओं श्री हनुमते नमः सिंहासनं समर्पयामि ।
पाद्यम् –
सुवर्णकलशानीतं गङ्गादि सलिलैर्युतम् ।
पादयोः पाद्यमनघं प्रतिगृह्य प्रसीद मे ॥
ओं श्री हनुमते नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
लक्ष्मणप्राणसंरक्ष सीताशोकविनाशन ।
गृहाणार्घ्यं मया दत्तं अञ्जनाप्रियनन्दन ॥
ओं श्री हनुमते नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
वालाग्रसेतुबन्धाय शताननवधाय च ।
तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥
ओं श्री हनुमते नमः मुखे आचमनीयं समर्पयामि ।
मधुपर्कम् –
अर्जुनध्वजसंवास दशाननमदापह ।
मधुपर्कं प्रदास्यामि हनुमन् प्रतिगृह्यताम् ॥
ओं श्री हनुमते नमः मधुपर्कं समर्पयामि ।
स्नानम् –
गङ्गादिसर्वतीर्थेभ्यः समानीतैर्नवोदकैः ।
भवन्तं स्नपयिष्यामि कपिनायक गृह्यताम् ॥
ओं श्री हनुमते नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।
वस्त्रम् –
पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् ।
दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥
उत्तरीयं तु दास्यामि संसारोत्तारकारण ।
गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥
ओं श्री हनुमते नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतम् –
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं चोत्तरीयं गृहाण रामकिङ्कर ॥
ओं श्री हनुमते नमः यज्ञोपवीतं समर्पयामि ।
गन्धम् –
कस्तूरीकुङ्कुमामिश्रं कर्पूरागरुवासितम् ।
श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥
ओं श्री हनुमते नमः दिव्य श्रीचन्दनं समर्पयामि ।
आभरणम् –
भूषणानि महार्हाणि किरीटप्रमुखान्यहम् ।
तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक ॥
ओं श्री हनुमते नमः सर्वाभरणानि समर्पयामि ।
अक्षतान् –
शालीयानक्षतान् रम्यान् पद्मरागसमप्रभान् ।
अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे ॥
ओं श्री हनुमते नमः अक्षतान् समर्पयामि ।
पुष्पाणि –
सुगन्धीनि सुरूपाणि वन्यानि विविधानि च ।
चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥
तुलसीदल बिल्वानि मनसा कल्पितानि च ।
गृहाण हनुमद्देव प्रणतोऽस्मि पदाम्बुजे ॥
ओं श्री हनुमते नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
अथ अङ्गपूजा –
ओं मारुतये नमः – पादौ पूजयामि ।
ओं सुग्रीवसखाय नमः – गुल्फौ पूजयामि ।
ओं अङ्गदमित्राय नमः – जङ्घे पूजयामि ।
ओं रामदासाय नमः – ऊरू पूजयामि ।
ओं अक्षघ्नाय नमः – कटिं पूजयामि ।
ओं लङ्कादहनाय नमः – वालं पूजयामि ।
ओं सञ्जीवननगाहर्त्रे नमः – स्कन्धौ पूजयामि ।
ओं सौमित्रिप्राणदात्रे नमः – वक्षःस्थलं पूजयामि ।
ओं कुण्ठितदशकण्ठाय नमः – कण्ठं पूजयामि ।
ओं रामाभिषेककारिणे नमः – हस्तौ पूजयामि ।
ओं मन्त्ररचितरामायणाय नमः – वक्त्रं पूजयामि ।
ओं प्रसन्नवदनाय नमः – वदनं पूजयामि ।
ओं पिङ्गलनेत्राय नमः – नेत्रौ पूजयामि ।
ओं श्रुतिपरायणाय नमः – श्रोत्रे पूजयामि ।
ओं ऊर्ध्वपुण्ड्रधारिणे नमः – ललाटं पूजयामि ।
ओं मणिकण्ठमालिकाय नमः – शिरः पूजयामि ।
ओं सर्वाभीष्टप्रदाय नमः – सर्वाण्यङ्गनि पूजयामि ।
अथ अष्टोत्तरशतनाम पूजा –
श्री आञ्जनेय अष्टोत्तरशतनामावली पश्यतु ॥
धूपम् –
दिव्यं सगुग्गुलं रम्यं दशाङ्गेन समन्वितम् ।
गृहाण मारुते धूपं सुप्रियं घ्राणतत्परम् ॥
ओं श्री हनुमते नमः धूपं आघ्रापयामि ।
दीपम् –
साज्यं त्रिवर्ति सम्युक्तं वह्निना योजितं मया ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥
ओं श्री हनुमते नमः दीपं दर्शयामि ।
नैवेद्यम् –
मणिपात्र सहस्राढ्यं दिव्यान्नं घृतपायसं
आपूपलड्डूकोपेतं मधुराम्रफलैर्युतम् ।
हिङ्गू जीरक सम्युक्तं षड्रसोपेतमुत्तमं
नैवेद्यमर्पयाम्यद्य गृहाणेदं कपीश्वर ॥
ओं श्री हनुमते नमः ___ नैवेद्यं समर्पयामि ।
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ताम्बूलम् –
नागवल्लीदलोपेतं क्रमुकैर्मधुरैर्युतम् ।
ताम्बूलमर्पयाम्यद्य कर्पूरादि सुवासितम् ॥
ओं श्री हनुमते नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
आरार्तिकं तमोहारि शतसूर्य समप्रभम् ।
अर्पयामि तव प्रीत्यै अन्धकार निषूदनम् ॥
ओं श्री हनुमते नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
मन्त्रपुष्पम् –
ओं आञ्जनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमत् प्रचोदयात् ॥
ओं श्री हनुमते नमः मन्त्रपुष्पं समर्पयामि ।
आत्मप्रदक्षिण-
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष कपीश्वर ॥
ओं श्री हनुमते नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
सर्वोपचाराः –
ओं श्री हनुमते नमः छत्रं आच्छादयामि ।
ओं श्री हनुमते नमः चामरैर्वीजयामि ।
ओं श्री हनुमते नमः नृत्यं दर्शयामि ।
ओं श्री हनुमते नमः गीतं श्रावयामि ।
ओं श्री हनुमते नमः आन्दोलिकानारोहयामि ।
ओं श्री हनुमते नमः अश्वानारोहयामि ।
ओं श्री हनुमते नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
प्रार्थना –
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥ १ ॥
आञ्जनेयमतिपाटलाननं
काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं
भावयामि पवमाननन्दनम् ॥ २ ॥
मर्कटेश महोत्साह सर्वसिद्धिप्रदायक ।
शत्रून् संहर मां रक्ष श्रियं दापय मे प्रभो ॥ ३ ॥
क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व कपिनायक ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व वानरोत्तम ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं कपीश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्रीमदाञ्जनेय स्वामि सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्त पापक्षयकरं श्रीआञ्जनेय पादोदकं पावनं शुभम् ॥
श्री आञ्जनेयाय नमः प्रसादं शिरसा गृह्णामि ।
ओं शान्तिः शान्तिः शान्तिः ॥
इतर श्री हनुमान् स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

