Sri Anjaneya (Hanuman) Shodasopachara Puja – श्री आञ्जनेय षोडशोपचार पूजा


पूर्वाङ्गं पश्यतु ॥

हरिद्रा गणपति पूजा पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थ सिद्ध्यर्थं श्रीमदाञ्जनेय स्वामि देवता प्रीत्यर्थं यथाशक्ति षोडशोपचार पूजां करिष्ये ॥

ध्यानम् –
अतुलितबलधामं स्वर्णशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं
रघुपतिप्रियभक्तं वातजातं नमामि ॥
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥
ओं श्री हनुमते नमः ध्यायामि ।

आवाहनम् –
रामचन्द्रपदाम्भोजयुगल स्थिरमासनम् ।
आवाहयामि वरदं हनूमन्तमभीष्टदम् ॥
ओं श्री हनुमते नमः आवाहयामि ।

आसनम् –
नवरत्ननिबद्धाश्रं चतुरश्रं सुशोभनम् ।
सौवर्णमासनं तुभ्यं दास्यामि कपिनायक ॥
ओं श्री हनुमते नमः सिंहासनं समर्पयामि ।

पाद्यम् –
सुवर्णकलशानीतं गङ्गादि सलिलैर्युतम् ।
पादयोः पाद्यमनघं प्रतिगृह्य प्रसीद मे ॥
ओं श्री हनुमते नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
लक्ष्मणप्राणसंरक्ष सीताशोकविनाशन ।
गृहाणार्घ्यं मया दत्तं अञ्जनाप्रियनन्दन ॥
ओं श्री हनुमते नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
वालाग्रसेतुबन्धाय शताननवधाय च ।
तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥
ओं श्री हनुमते नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –
अर्जुनध्वजसंवास दशाननमदापह ।
मधुपर्कं प्रदास्यामि हनुमन् प्रतिगृह्यताम् ॥
ओं श्री हनुमते नमः मधुपर्कं समर्पयामि ।

स्नानम् –
गङ्गादिसर्वतीर्थेभ्यः समानीतैर्नवोदकैः ।
भवन्तं स्नपयिष्यामि कपिनायक गृह्यताम् ॥
ओं श्री हनुमते नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।

वस्त्रम् –
पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् ।
दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥
उत्तरीयं तु दास्यामि संसारोत्तारकारण ।
गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥
ओं श्री हनुमते नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं चोत्तरीयं गृहाण रामकिङ्कर ॥
ओं श्री हनुमते नमः यज्ञोपवीतं समर्पयामि ।

गन्धम् –
कस्तूरीकुङ्कुमामिश्रं कर्पूरागरुवासितम् ।
श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥
ओं श्री हनुमते नमः दिव्य श्रीचन्दनं समर्पयामि ।

आभरणम् –
भूषणानि महार्हाणि किरीटप्रमुखान्यहम् ।
तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक ॥
ओं श्री हनुमते नमः सर्वाभरणानि समर्पयामि ।

अक्षतान् –
शालीयानक्षतान् रम्यान् पद्मरागसमप्रभान् ।
अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे ॥
ओं श्री हनुमते नमः अक्षतान् समर्पयामि ।

पुष्पाणि –
सुगन्धीनि सुरूपाणि वन्यानि विविधानि च ।
चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥
तुलसीदल बिल्वानि मनसा कल्पितानि च ।
गृहाण हनुमद्देव प्रणतोऽस्मि पदाम्बुजे ॥
ओं श्री हनुमते नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।

अथ अङ्गपूजा –
ओं मारुतये नमः – पादौ पूजयामि ।
ओं सुग्रीवसखाय नमः – गुल्फौ पूजयामि ।
ओं अङ्गदमित्राय नमः – जङ्घे पूजयामि ।
ओं रामदासाय नमः – ऊरू पूजयामि ।
ओं अक्षघ्नाय नमः – कटिं पूजयामि ।
ओं लङ्कादहनाय नमः – वालं पूजयामि ।
ओं सञ्जीवननगाहर्त्रे नमः – स्कन्धौ पूजयामि ।
ओं सौमित्रिप्राणदात्रे नमः – वक्षःस्थलं पूजयामि ।
ओं कुण्ठितदशकण्ठाय नमः – कण्ठं पूजयामि ।
ओं रामाभिषेककारिणे नमः – हस्तौ पूजयामि ।
ओं मन्त्ररचितरामायणाय नमः – वक्त्रं पूजयामि ।
ओं प्रसन्नवदनाय नमः – वदनं पूजयामि ।
ओं पिङ्गलनेत्राय नमः – नेत्रौ पूजयामि ।
ओं श्रुतिपरायणाय नमः – श्रोत्रे पूजयामि ।
ओं ऊर्ध्वपुण्ड्रधारिणे नमः – ललाटं पूजयामि ।
ओं मणिकण्ठमालिकाय नमः – शिरः पूजयामि ।
ओं सर्वाभीष्टप्रदाय नमः – सर्वाण्यङ्गनि पूजयामि ।

अथ अष्टोत्तरशतनाम पूजा –

श्री आञ्जनेय अष्टोत्तरशतनामावली पश्यतु ।

ओं श्री हनुमते नमः अष्टोत्तरशतनाम पूजां समर्पयामि ।

धूपम् –
दिव्यं सगुग्गुलं रम्यं दशाङ्गेन समन्वितम् ।
गृहाण मारुते धूपं सुप्रियं घ्राणतत्परम् ॥
ओं श्री हनुमते नमः धूपं आघ्रापयामि ।

दीपम् –
साज्यं त्रिवर्ति सम्युक्तं वह्निना योजितं मया ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥
ओं श्री हनुमते नमः दीपं दर्शयामि ।

नैवेद्यम् –
मणिपात्र सहस्राढ्यं दिव्यान्नं घृतपायसं
आपूपलड्डूकोपेतं मधुराम्रफलैर्युतम् ।
हिङ्गू जीरक सम्युक्तं षड्रसोपेतमुत्तमं
नैवेद्यमर्पयाम्यद्य गृहाणेदं कपीश्वर ॥
ओं श्री हनुमते नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ । ओं व्या॒नाय॒ स्वाहा᳚ ।
ओं उ॒दा॒नाय॒ स्वाहा᳚ । ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ॥

ताम्बूलम् –
नागवल्लीदलोपेतं क्रमुकैर्मधुरैर्युतम् ।
ताम्बूलमर्पयाम्यद्य कर्पूरादि सुवासितम् ॥
ओं श्री हनुमते नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
आरार्तिकं तमोहारि शतसूर्य समप्रभम् ।
अर्पयामि तव प्रीत्यै अन्धकार निषूदनम् ॥
ओं श्री हनुमते नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पम् –
ओं आञ्जनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमत् प्रचोदयात् ॥
ओं श्री हनुमते नमः मन्त्रपुष्पं समर्पयामि ।

आत्मप्रदक्षिण-
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देव शरणागतवत्सल ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष कपीश्वर ।
ओं श्री हनुमते नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

सर्वोपचाराः –
ओं श्री हनुमते नमः छत्रं आच्छादयामि ।
ओं श्री हनुमते नमः चामरैर्वीजयामि ।
ओं श्री हनुमते नमः नृत्यं दर्शयामि ।
ओं श्री हनुमते नमः गीतं श्रावयामि ।
ओं श्री हनुमते नमः आन्दोलिकानारोहयामि ।
ओं श्री हनुमते नमः अश्वानारोहयामि ।
ओं श्री हनुमते नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।

प्रार्थना –
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥ १ ॥
आञ्जनेयमतिपाटलाननं
काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं
भावयामि पवमाननन्दनम् ॥ २ ॥
मर्कटेश महोत्साह सर्वसिद्धिप्रदायक ।
शत्रून् संहर मां रक्ष श्रियं दापय मे प्रभो ॥ ३ ॥

क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व कपिनायक ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व वानरोत्तम ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं कपीश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ।

अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्रीमदाञ्जनेय स्वामि सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्त पापक्षयकरं श्रीआञ्जनेय पादोदकं पावनं शुभम् ॥
श्री आञ्जनेयाय नमः प्रसादं शिरसा गृह्णामि ।

ओं शान्तिः शान्तिः शान्तिः ॥


इतर श्री हनुमान् स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed