Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री महागणाधिपतये नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओम् ।
शुचिः –
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥
प्रार्थना –
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।
सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥
यः शिवो नाम रूपाभ्यां या देवी सर्वमङ्गला ।
तयोः संस्मरणान्नित्यं सर्वदा जय मङ्गलम् ॥
तदेव लग्नं सुदिनं तदेव
ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
एषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥
श्रीलक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः ।
वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरन्दराभ्यां नमः ।
अरुन्धतीवसिष्ठाभ्यां नमः ।
श्रीसीतारामाभ्यां नमः ।
मातापितृभ्यो नमः ।
सर्वेभ्यो महाजनेभ्यो नमः ।
आचम्य –
ओं केशवाय स्वाहा ।
ओं नारायणाय स्वाहा ।
ओं माधवाय स्वाहा ।
ओं गोविन्दाय नमः ।
ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः ।
ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः ।
ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः ।
ओं सङ्कर्षणाय नमः ।
ओं वासुदेवाय नमः ।
ओं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं अधोक्षजाय नमः ।
ओं नारसिंहाय नमः ।
ओं अच्युताय नमः ।
ओं जनार्दनाय नमः ।
ओं उपेन्द्राय नमः ।
ओं हरये नमः ।
ओं श्रीकृष्णाय नमः ।
दीपाराधनम् –
दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
भो दीप देवि रूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्पूजां करिष्यामि तावत्त्वं सुस्थिरो भव ॥
दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु ॥
पूजार्थे हरिद्रा कुङ्कुम विलेपनं करिष्ये ॥
भूतोच्चाटनम् –
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमि भारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाऽज्ञया ॥
प्राणायामम् –
ओं भूः ओं भुव॑: ओग्ं सुव॑: ओं मह॑: ओं जन॑: ओं तप॑: ओग्ं सत्यम् ।
ओं तत्स॑वितु॒र्वरे᳚ण्यं॒ भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ।
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
सङ्कल्पम् –
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वर प्रीत्यर्थं शुभाभ्यां शुभे शोभने मुहूर्ते श्रीमहाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीयपरार्थे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य ___ प्रदेशे ___, ___ नद्योः मध्यप्रदेशे लक्ष्मीनिवासगृहे समस्त देवता ब्राह्मण आचार्य हरि हर गुरु चरण सन्निधौ अस्मिन् वर्तमने व्यावहरिक चान्द्रमानेन श्री ____ (*१) नाम संवत्सरे ___ अयने (*२) ___ ऋतौ (*३) ___ मासे(*४) ___ पक्षे (*५) ___ तिथौ (*६) ___ वासरे (*७) ___ नक्षत्रे (*८) ___ योगे (*९) ___ करण (*१०) एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीमान् ___ गोत्रोद्भवस्य ___ नामधेयस्य (मम धर्मपत्नी श्रीमतः ___ गोत्रस्य ___ नामधेयः समेतस्य) मम/अस्माकं सहकुटुम्बस्य क्षेम स्थैर्य धैर्य वीर्य विजय अभय आयुः आरोग्य ऐश्वर अभिवृद्ध्यर्थं धर्म अर्थ काम मोक्ष चतुर्विध पुरुषार्थ फल सिद्ध्यर्थं धन कनक वस्तु वाहन समृद्ध्यर्थं सर्वाभीष्ट सिद्ध्यर्थं श्री _____ उद्दिश्य श्री _____ प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भवता नियमेन सम्भविता प्रकारेण यावच्छक्ति ध्यान आवाहनादि षोडशोपचार* पूजां करिष्ये ॥
(निर्विघ्न पूजा परिसमाप्त्यर्थं आदौ श्रीमहागणपति पूजां करिष्ये ।)
तदङ्ग कलशाराधनं करिष्ये ।
कलशाराधनम् –
कलशे गन्ध पुष्पाक्षतैरभ्यर्च्य ।
कलशे उदकं पूरयित्वा ।
कलशस्योपरि हस्तं निधाय ।
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृता ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ।
ओं आक॒लशे᳚षु धावति प॒वित्रे॒ परि॑षिच्यते ।
उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ।
आपो॒ वा इ॒दग्ं सर्वं॒ विश्वा॑ भू॒तान्याप॑:
प्रा॒णा वा आप॑: प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑:
स॒म्राडापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ग्॒स्यापो॒
ज्योती॒ग्॒ष्यापो॒ यजू॒ग्॒ष्याप॑: स॒त्यमाप॒:
सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒: सुव॒राप॒ ओम् ॥
गङ्गे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी ।
भागीरथीति विख्याताः पञ्चगङ्गाः प्रकीर्तिताः ॥
आयान्तु श्री ____ पूजार्थं मम दुरितक्षयकारकाः ।
ओं ओं ओं कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य,
देवं सम्प्रोक्ष्य, आत्मानं च सम्प्रोक्ष्य ॥
शङ्खपूजा –
कलशोदकेन शङ्खं पूरयित्वा ॥
शङ्खे गन्धकुङ्कुमपुष्पतुलसीपत्रैरलङ्कृत्य ॥
शङ्खं चन्द्रार्क दैवतं मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं विन्द्यादग्रे गङ्गा सरस्वतीम् ॥
त्रैलोक्येयानि तीर्थानि वासुदेवस्यदद्रया ।
शङ्खे तिष्ठन्तु विप्रेन्द्रा तस्मात् शङ्खं प्रपूजयेत् ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥
गर्भादेवारिनारीणां विशीर्यन्ते सहस्रधा ।
नवनादेनपाताले पाञ्चजन्य नमोऽस्तु ते ॥
ओं शङ्खाय नमः ।
ओं धवलाय नमः ।
ओं पाञ्चजन्याय नमः ।
ओं शङ्खदेवताभ्यो नमः ।
सकलपूजार्थे अक्षतान् समर्पयामि ॥
घण्टपूजा –
ओं जयध्वनि मन्त्रमातः स्वाहा ।
घण्टदेवताभ्यो नमः ।
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ।
घण्टानादम् –
आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् ।
घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥
इति घण्टानादं कृत्वा ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

