Navagraha Beeja Mantras – नवग्रह बीज मन्त्राः


– सङ्ख्या पाठः –
रवेः सप्तसहस्राणि चन्द्रस्यैकादश स्मृताः ।
भौमे दशसहस्राणि बुधे चाष्टसहस्रकम् ।
एकोनविंशतिर्जीवे भृगोर्नृपसहस्रकम् ।
त्रयोविंशतिः सौरेश्च राहोरष्टादश स्मृताः ।
केतोः सप्तसहस्राणि जपसङ्ख्याः प्रकीर्तिताः ॥ १

रवि – ७०००
चन्द्र – ११०००
भौम – १००००
बुध – ८०००
बृहस्पति – १९०००
शुक्र – १६०००
शनि – २३०००
राहु – १८०००
केतु – ७०००

– सङ्ख्या निर्णयं –
कल्पोक्तैव कृते सङ्ख्या त्रेतायां द्विगुणा भवेत् ।
द्वापरे त्रिगुणा प्रोक्ता कलौ सङ्ख्या चतुर्गुणा ॥ २
इति वैशम्पायनसंहितावचनम् ।

– जपपद्धतिः –

आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम ______ ग्रहपीडापरिहारार्थं ______ ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथासङ्ख्यकं ______ ग्रहस्य बीजमन्त्र जपं करिष्ये ॥

– सूर्यः –

ध्यानम् –
पद्मासनः पद्मकरो द्विबाहुः
पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो लोकगुरुः किरीटी
मयि प्रसादं विदधातु देवः ॥

लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मने गन्धं परिकल्पयामि ।
हं आकाशात्मने पुष्पं परिकल्पयामि ।
यं वाय्वात्मने धूपं परिकल्पयामि ।
रं अग्न्यात्मने दीपं परिकल्पयामि ।
वं अमृतात्मने नैवेद्यं परिकल्पयामि ।
सं सर्वात्मने सर्वोपचारान् परिकल्पयामि ।

बीजमन्त्रः –
ओं ह्रां ह्रीं ह्रौं सः सूर्याय नमः ।

– चन्द्रः –

ध्यानम् –
श्वेताम्बरः श्वेतवपुः किरीटी
श्वेतद्युतिर्दण्डधरो द्विबाहुः ।
चन्द्रोऽमृतात्मा वरदः किरीटी
श्रेयांसि मह्यं विदधातु देवः ॥

बीजमन्त्रः –
ओं श्रां श्रीं श्रौं सः चन्द्राय नमः ।

– भौमः –

ध्यानम् –
रक्ताम्बरो रक्तवपुः किरीटी
चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश्च शूली
सदा मम स्याद्वरदः प्रशान्तः ॥

बीजमन्त्रः –
ओं क्रां क्रीं क्रौं सः भौमाय नमः ।

– बुधः –

ध्यानम् –
पीताम्बरः पीतवपुः किरीटी
चतुर्भुजो दण्डधरश्च सौम्यः ।
चर्मासिधृत् सोमसुतः सु मेरुः
सिंहाधिरूढो वरदो बुधोऽस्तु ॥

बीजमन्त्रः –
ओं ब्रां ब्रीं ब्रौं सः बुधाय नमः ।

– बृहस्पतिः –

ध्यानम् –
स्वर्णाम्बरः स्वर्णवपुः किरीटी
चतुर्भुजो देवगुरुः प्रशान्तः ।
दधाति दण्डं च कमण्डलुं च
तथाऽक्षसूत्रं वरदोऽस्तु मह्यम् ॥

बीजमन्त्रः –
ओं ग्रां ग्रीं ग्रौं सः गुरवे नमः ।

– शुक्रः –

ध्यानम् –
श्वेताम्बरः श्वेतवपुः किरीटी
चतुर्भुजो दैत्यगुरुः प्रशान्तः ।
तथासि दण्डं च कमण्डलुं च
तथाक्षसूत्राद्वरदोऽस्तु मह्यम् ॥

बीजमन्त्रः –
ओं द्रां द्रीं द्रौं सः शुक्राय नमः ।

– शनिः –

ध्यानम् –
नीलद्युतिः नीलवपुः किरीटी
गृध्रस्थितश्चापकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रशान्तः
सदास्तु मह्यं वरमन्दगामी ॥

बीजमन्त्रः –
ओं प्रां प्रीं प्रौं सः शनैश्चराय नमः ।

– राहुः –

ध्यानम् –
नीलाम्बरो नीलवपुः किरीटी
करालवक्त्रः करवालशूली ।
चतुर्भुजश्चर्मधरश्च राहुः
सिंहाधिरूढो वरदोऽस्तु मह्यम् ॥

बीजमन्त्रः –
ओं भ्रां भ्रीं भ्रौं सः राहवे नमः ।

– केतुः –

ध्यानम् –
धूम्रो द्विबाहुर्वरदो गदाभृ-
-द्गृध्रासनस्थो विकृताननश्च ।
किरीटकेयूरविभूषिताङ्गः
सदास्तु मे केतुगणः प्रशान्तः ॥

बीजमन्त्रः –
ओं स्रां स्रीं स्रौं सः केतवे नमः ।

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत ____ ग्रहस्य मन्त्रजपेन ____ सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed