Devi Narayaniyam Dasakam 7 – सप्तम दशकम् (७) – शुकोत्पत्तिः


कृष्णस्य तस्यारणितः शुकाख्य-
-स्तव प्रसादादजनिष्ट पुत्रः ।
हृष्टो मुनिर्मङ्गलकर्म चक्रे
तत्रादितेया ववृषुः सुमानि ॥ ७-१ ॥

केचिज्जगुः केचन वाद्यघोषं
चक्रुश्च नाके ननृतुः स्त्रियश्च ।
वायुर्ववौ स्पर्शसुखः सुगन्धः
शुकोद्भवे सर्वजनाः प्रहृष्टाः ॥ ७-२ ॥

बालः स सद्यो ववृधे सुचेता
बृहस्पतेरात्तसमस्तविद्यः ।
दत्वा विनीतो गुरुदक्षिणां च
प्रत्यागतो हर्षयति स्म तातम् ॥ ७-३ ॥

युवानमेकान्ततपःप्रवृत्तं
व्यासः कदाचिच्छुकमेवमूचे ।
वेदांश्च शास्त्राणि च वेत्सि पुत्र
कृत्वा विवाहं भव सद्गृहस्थः ॥ ७-४ ॥

सर्वाश्रमाणां कवयो विशिष्टा
गृहाश्रमं श्रेष्ठतरं वदन्ति ।
तमाश्रितस्तिष्ठति लोक एष
यजस्व देवान् विधिवत्पितॄंश्च ॥ ७-५ ॥

तवास्तु सत्पुत्र ऋणादहं च
मुच्येय मां त्वं सुखिनं कुरुष्व ।
पुत्रः सुखायात्र परत्र च स्या-
-त्त्वां पुत्र तीव्रैरलभे तपोभिः ॥ ७-६ ॥

किञ्च प्रमाथीनि सदेन्द्रियाणि
हरन्ति चित्तं प्रसभं नरस्य ।
पश्यन् पिता मे जननीं तपस्वी
पराशरोऽपि स्मरमोहितोऽभूत् ॥ ७-७ ॥

य आश्रमादाश्रममेति तत्त-
-त्कर्माणि कुर्वन् स सुखी सदा स्यात् ।
गृहाश्रमो नैव च बन्धहेतु-
-स्त्वया च धीमन् क्रियतां विवाहः ॥ ७-८ ॥

एवं ब्रुवाणोऽपि शुकं विवाहा-
-द्यसक्तमाज्ञाय पितेव रागी ।
पुराणकर्ता च जगद्गुरुः स
मायानिमग्नोऽश्रुविलोचनोऽभूत् ॥ ७-९ ॥

भोगेषु मे निस्पृहताऽस्तु मातः
प्रलोभितो मा करवाणि पापम् ।
मा बाधतां मां तव देवि माया
मायाधिनाथे सततं नमस्ते ॥ ७-१० ॥

अष्टम दशकम् (८) – परमज्ञानोपदेशम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed