Devi Narayaniyam Dasakam 6 – षष्ठ दशकम् (६) – व्यासनारदसमागमम्


त्वदिच्छया देवि पुलस्त्यवाचा
पराशराद्विष्णुपुराणकर्तुः ।
मुनेर्हरिर्लोकहिताय दीपा-
-द्यथा प्रदीपोऽजनि कृष्णनामा ॥ ६-१ ॥

वेदं चतुर्धा व्यदधत्स कृष्ण-
-द्वैपायनो व्यास इति प्रसिद्धः ।
वेदान्तसूत्राणि पुराणजालं
महेतिहासं च महांश्चकार ॥ ६-२ ॥

तपः प्रवृत्तः कलविङ्कपोतं
मात्रा स संलालितमाश्रमान्ते ।
पश्यन्नधन्यामनपत्यतां स्वां
सपुत्रभाग्यातिशयं च दध्यौ ॥ ६-३ ॥

सत्पुत्रलाभाय तपश्चिकीर्षु-
-स्तीव्रं महामेरुसमीपमेत्य ।
आराधनीयः क इति क्षणं स
चिन्तातुरो लोकगुरुः स्थितोऽभूत् ॥ ६-४ ॥

श्रीनारदस्तत्र समागतस्त्व-
-त्कृपाकटाक्षाङ्कुरवन्महर्षिः ।
अर्घ्यादिसम्पूजित आसनस्थो
व्यासेन पृष्टः प्रहसन्निवाह ॥ ६-५ ॥

किं चिन्तया कृष्ण भजस्व देवीं
कृपावती वाञ्छितदानदक्षा ।
अहेतुरेषा खलु सर्वहेतु-
-र्निरस्तसाम्यातिशया निरीहा ॥ ६-६ ॥

सैषा महाशक्तिरिति प्रसिद्धा
यदाज्ञया ब्रह्मरमेशरुद्राः ।
ब्रह्माण्डसर्गस्थितिसंहृतीश्च
कुर्वन्ति काले न च ते स्वतन्त्राः ॥ ६-७ ॥

यस्याश्च ते शक्तिभिरेव सर्व-
-कर्माणि कुर्वन्ति सुरासुराद्याः ।
मर्त्या मृगाः कृष्ण पतत्रिणश्च
शक्तेर्विधेयाः क इहाविधेयः ॥ ६-८ ॥

प्रत्यक्षमुख्यैर्न च सा प्रमाणै-
-र्ज्ञेया तपोभिः कठिनैर्व्रतैश्च ।
न वेदशास्त्राध्ययनेन चापि
भक्त्यैव जानाति पुमान् महेशीम् ॥ ६-९ ॥

तामेव भक्त्या सततं भजस्व
सर्वार्थदां कृष्ण तवास्तु भद्रम् ।
इत्यूचुषि ब्रह्मसुते गते स
व्यासस्तपोऽर्थं गिरिमारुरोह ॥ ६-१० ॥

इहास्मि पर्याकुलचित्तवृत्ति-
-र्गुरुं न पश्यामि महत्तमं च ।
सन्मार्गतो मां नय विश्वमातः
प्रसीद मे त्वां शरणं व्रजामि ॥ ६-११ ॥

सप्तम दशकम् (७) – शुकोत्पत्तिः >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed