Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
जाता सुतेला मनुसप्तमस्य
सम्प्रार्थितोऽनेन मुनिर्वसिष्ठः ।
शम्भोः कटाक्षेण सुतां कुमारं
चक्रे स कालेन बभूव राजा ॥ ५-१ ॥
सुद्युम्ननामा मृगयाविहारी
गतो हयारूढ इलावृतं सः ।
स्त्रीत्वं पुनः प्राप्य सुतं हिमांशो-
-र्वव्रे पतिं पुत्रमसूत चैषा ॥ ५-२ ॥
न्यवेदयत्सा गुरवे वसिष्ठा-
-यैषा कदाचिन्निजपुंस्त्वकामम् ।
तत्साधनार्थं हरमेव दध्यौ
मुनिः प्रसन्नस्तमुवाच शम्भुः ॥ ५-३ ॥
इलावृतं मा पुरुषः प्रयातु
प्रयाति चेत्सोऽस्त्वबला तदैव ।
एवं मया निश्चितमेव सौम्य
गौर्याः प्रसादाय भवान् प्रियो मे ॥ ५-४ ॥
न पक्षभेदोऽत्र ममास्ति गौरी
भवांश्च तृप्तौ भवतां मदीयौ ।
इतः परं तस्य मनोरपत्यं
मासं पुमान् स्याद्वनिता च मासम् ॥ ५-५ ॥
एवं शिवोक्तेन मनोरपत्यं
लब्ध्वा च पुंस्त्वं धरणीं शशास ।
स्त्रीत्वे च हर्म्येषु निनाय कालं
जनो न चैनं नृपमभ्यनन्दत् ॥ ५-६ ॥
पुरूरवस्यात्मसुतेऽर्पयित्वा
राज्यं विरक्तो वनमेत्य भूपः ।
श्रीनारदाल्लब्धनवार्णमन्त्रो
भक्त्या स दध्यौ भवतारिणीं त्वाम् ॥ ५-७ ॥
सिंहाधिरूढामरुणाब्जनेत्रां
त्वां सुप्रसन्नामभिवीक्ष्य नत्वा ।
स्तुत्वा च भक्त्या स्थिरपुंस्त्वमेष
लेभेऽथ सायुज्यमवाप चान्ते ॥ ५-८ ॥
शौर्यं न वीर्यं न च पौरुषं मे
नैवास्ति च स्त्रीसहजा तितिक्षा ।
मूढो न जानाम्यशुभं शुभं च
देयं त्वया मे शुभमेव मातः ॥ ५-९ ॥
पश्यानि मातः प्रवरान् गुरुंस्ते
कारुण्यतो मां सुपथा नयन्तु ।
सत्सङ्गसम्भावितचित्तवृत्ति-
-र्भवानि ते देवि नमः प्रसीद ॥ ५-१० ॥
षष्ठ दशकम् (६) – व्यासनारदसमागमम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.