Devi Narayaniyam Dasakam 4 – चतुर्थ दशकम् (४) – मधुकैटभवधम्


त्वं तामसी सुप्तरमाधवाङ्गजा
श्यामा रुचा मोहनताम्रलोचना ।
एकार्णवे घोररणोत्सुकान् हरिं
दैत्यौ च तौ स्मेरमुखी समैक्षथाः ॥ ४-१ ॥

पश्यत्यजे बाहुरणं मुरारिणा
कृत्वा मधुः श्रान्तिमवाप सत्वरम् ।
अभ्येत्य युद्धं कुरुते स्म कैटभः
श्रान्ते च तस्मिन्नकृताहवं मधुः ॥ ४-२ ॥

एवं मुहुः सङ्गरविश्रमावुभौ
पर्यायतो वर्षसहस्रपञ्चकम् ।
ग्लानिं विना चक्रतुरच्युतः क्लमा-
-द्विश्रान्तिमिच्छन्नसुरौ जगाद तौ ॥ ४-३ ॥

श्रान्तेन भीतेन च बालकेन च
प्रभुः पुमान्नैव करोति सम्युगम् ।
मध्येरणं द्वौ कृतविश्रमौ युवा-
-मेकः करोम्येव निरन्तराहवम् ॥ ४-४ ॥

ज्ञात्वा हरिं श्रान्तमुभौ विदूरतः
सन्तस्थतुर्विश्रमसौख्यवांस्ततः ।
त्वामेव तुष्टाव कृपातरङ्गिणीं
सर्वेश्वरीं दैत्यजयाय माधवः ॥ ४-५ ॥

देवि प्रसीदैष रणे जितोऽस्म्यहं
दैत्यद्वयेनाब्जभवं जिघांसुना ।
सर्वं कटाक्षैस्तव साध्यमत्र मां
रक्षेति वक्तारमभाषथा हरिम् ॥ ४-६ ॥

युद्धं कुरु त्वं जहि तौ मया भृशं
सम्मोहितौ वक्रदृशेत्ययं त्वया ।
सञ्चोदितो हृष्टमना महार्णवे
तस्थौ रणायाययतुश्च दानवौ ॥ ४-७ ॥

भूयोऽपि कुर्वन् रणमच्युतो हसन्
कामातुरौ ते मुखपद्मदर्शनात् ।
तावाह तुष्टोऽस्म्यतुलौ रणे युवां
ददाम्यहं वां वरमेष वाञ्छितम् ॥ ४-८ ॥

तावूचतुर्विद्धि हरे न याचका-
-वावां ददावस्तव वाञ्छितं वरम् ।
नासत्यवाचौ स्व इतीरितो हरि-
-स्त्वां संस्मरन् शत्रुजिगीषयाऽब्रवीत् ॥ ४-९ ॥

मह्यं वरं यच्छतमद्य मे यतो
वध्यौ युवां स्यातमितीरितावुभौ ।
दृष्ट्वाऽप्सु लीनं सकलं समूचतु-
-स्त्वं सत्यवाङ्नौ जहि निर्जले स्थले ॥ ४-१० ॥

अस्त्वेवमित्यादृतवाङ्मुदा हरिः
स्वोरौ पृथावुन्नमिते जलोपरि ।
कृत्वाऽरिणा तच्छिरसी तदाऽच्छिन-
-त्स्वच्छन्दमृत्यू तव मायया हतौ ॥ ४-११ ॥

द्वेषश्च रागश्च सदा ममाम्बिके
दैत्यौ हृदि स्तोऽत्र विवेकमाधवः ।
आभ्यां करोत्येव रणं जयत्वयं
तुभ्यं महाकालि नमः प्रसीद मे ॥ ४-१२ ॥

पञ्चम दशकम् (५) – सुद्युम्नकथा >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।

Report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed
%d bloggers like this: