Devi Narayaniyam Dasakam 3 – तृतीय दशकम् (३) – महाकाल्यवतारम्


जगत्सु सर्वेषु पुरा विलीने-
-ष्वेकार्णवे शेषतनौ प्रसुप्ते ।
हरौ सुरारी मधुकैटभाख्यौ
महाबलावप्सु विजह्रतुर्द्वौ ॥ ३-१ ॥

समाः सहस्रं यतचित्तवृत्ती
वाग्बीजमन्त्रं वरदे जपन्तौ ।
प्रसादिताया असुरौ भवत्याः
स्वच्छन्दमृत्युत्वमवापतुस्तौ ॥ ३-२ ॥

एकाम्बुधौ तौ तरलोर्मिमाले
निमज्जनोन्मज्जनकेलिलोलौ ।
यदृच्छया वीक्षितमब्जयोनिं
रणोत्सुकावूचतुरिद्धगर्वौ ॥ ३-३ ॥

पद्मासनं वीरवरोपभोग्यं
न भीरुभोग्यं न वराकभोग्यम् ।
मुञ्चेदमद्यैव न यासि चेत्त्वं
प्रदर्शय स्वं युधि शौर्यवत्त्वम् ॥ ३-४ ॥

इदं समाकर्ण्य भयाद्विरिञ्चः
सुषुप्तिनिष्पन्दममोघशक्तिम् ।
प्रबोधनार्थं हरिमिद्धभक्त्या
तुष्टाव नैवाचलदम्बुजाक्षः ॥ ३-५ ॥

अस्पन्दता त्वस्य कयापि शक्त्या
कृतेति मत्वा मतिमान् विरिञ्चः ।
प्रबोधयैनं हरिमेवमुक्त्वा
स्तोत्रैर्विचित्रैर्भवतीमनौषीत् ॥ ३-६ ॥

नुतिप्रसन्नाऽब्जभवस्य तूर्णं
निःसृत्य विष्णोः सकलाङ्गतस्त्वम् ।
दिवि स्थिता तत्क्षणमेव देवो
निद्राविमुक्तो हरिरुत्थितोऽभूत् ॥ ३-७ ॥

अथैष भीतं मधुकैटभाभ्यां
विरिञ्चमालोक्य हरिर्जगाद ।
अलं भयेनाहमिमौ सुरारी
हन्तास्मि शीघ्रं समरेऽत्र पश्य ॥ ३-८ ॥

एवं हरौ वक्तरि तत्र दैत्यौ
रणोत्सुकौ प्रापतुरिद्धगर्वौ ।
तयोरविज्ञाय बलं मुरारि-
-र्युद्धोद्यतोऽभूदजरक्षणार्थम् ॥ ३-९ ॥

बिभेमि रागादिमहारिपुभ्यो
जेतुं यतिष्येऽहमिमान् सुशक्तान् ।
तदर्थशक्तिं मम देहि नित्यं
निद्रालसो मा च भवानि मातः ॥ ३-१० ॥

चतुर्थ दशकम् (४) – मधुकैटभवधम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed