Devi Narayaniyam Dasakam 39 – एकोनचत्वारिंश दशकम् (३९) – मणिद्वीपनिवासिनी


सुधासमुद्रो जगतां त्रयाणां
छत्रीभवन् मञ्जुतरङ्गफेनः ।
सवालुकाशङ्खविचित्ररत्नः
सतारकव्योमसमो विभाति ॥ ३९-१ ॥

तन्मध्यदेशे विमलं मणिद्वी-
-पाख्यां पदं देवि विराजते ते ।
यदुच्यते संसृतिनाशकारि
सर्वोत्तरं पावनपावनं च ॥ ३९-२ ॥

तत्रास्त्ययोधातुमयो मनोज्ञः
सालो महासारमयस्ततश्च ।
एवं च ताम्रादिमयाः किलाष्टा-
-दशातिचित्रा वरणा लसन्ति ॥ ३९-३ ॥

तैरावृतं ते पदमद्वितीयं
विभाति चिन्तामणिसद्म देवि ।
सन्त्यत्र सत्स्तम्भसहस्ररम्य-
-शृङ्गारमुक्त्यादिकमण्डपाश्च ॥ ३९-४ ॥

ब्रह्माण्डकोटीः सुखमावसन्त
उपासकास्ते मनुजाः सुराश्च ।
दैत्याश्च सिद्धाश्च तथेतरे च
यदन्ततो यान्ति पदं तदेतत् ॥ ३९-५ ॥

त्वं मण्डपस्था बहुशक्तियुक्ता
शृणोषि देवीकलगीतकानि ।
ज्ञानं विमुक्तिं च ददासि लोक-
-रक्षामजस्रं कुरुषे च देवि ॥ ३९-६ ॥

मञ्चोऽस्ति चिन्तामणिगेहतस्ते
ब्रह्मा हरी रुद्र इहेश्वरश्च ।
खुरा भवन्त्यस्य सदाशिवस्तु
विराजते सत्फलकत्वमाप्तः ॥ ३९-७ ॥

तस्योपरि श्रीभुवनेश्वरि त्वं
सर्वेश वामाङ्कतले निषण्णा ।
चतुर्भुजा भूषणभूषिताङ्गी
निर्व्याजकारुण्यवती विभासि ॥ ३९-८ ॥

प्रतिक्षणं कारयसि त्वमिच्छा-
-ज्ञानक्रियाशक्तिसमन्विताऽत्र ।
त्रिमूर्तिभिः शक्तिसहस्रयुक्ता
ब्रह्माण्डसर्गस्थितिसंहृतीश्च ॥ ३९-९ ॥

सा त्वं हि वाचां मनसोऽप्यगम्या
विचित्ररूपाऽसि सदाऽप्यरूपा ।
पुरः सतां सन्निहिता कृपार्द्रा
सदा मणिद्वीपनिवासिनी च ॥ ३९-१० ॥

मातर्मदन्तःकरणे निषण्णा
विद्यामयं मां कुरु बन्धमुक्तम् ।
बन्धं च मोक्षं च ददास्यसक्ता
दासोऽस्मि ते देवि नमो नमस्ते ॥ ३९-११ ॥

चत्वारिंश दशकम् (४०) – प्रार्थना >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed