Devi Narayaniyam Dasakam 38 – अष्टात्रिंश दशकम् (३८) – चित्तशुद्धिप्राधान्यम्


अन्तर्मुखो यः स्वशुभेच्छयैव
स्वयं विमर्शेन मनोमलानि ।
दृष्ट्वा शमाद्यैर्धुनुते समूलं
स भाग्यवान्देवि तव प्रियश्च ॥ ३८-१ ॥

न वेदशास्त्राध्ययनेन तीर्थ-
-संसेवया दानतपोव्रतैर्वा ।
शुद्धिं मनो याति तव स्मृतेस्त-
-द्वैशद्यमादर्शवदेति मातः ॥ ३८-२ ॥

शुद्धिर्न यज्ञेन यजन् शशाङ्कः
पत्नीं गुरोः प्राप भृशं स्मरार्तः ।
शतक्रतुर्गौतमधर्मपत्नी-
-मगादहल्यां मदनेषु विद्धः ॥ ३८-३ ॥

स विघ्नकारी तपसां मुनीनां
गतस्पृहं योगिवरं प्रशान्तम् ।
हा विश्वरूपं पविना जघान
न किञ्चनाकार्यमधर्मबुद्धेः ॥ ३८-४ ॥

मुनिर्वसिष्ठः खलु तीर्थसेवी
तपोनिधिर्गाधिसुतश्च कोपात् ।
उभौ मिथः शेपतुराडिभावं
प्राप्तः किलैको बकतां परश्च ॥ ३८-५ ॥

धनानि पृष्टानि गुरूनदातॄन्
स्वान् भार्गवान् पुत्रकलत्रभाजः ।
क्रुद्धाः परं हैहयभूमिपाला
न्यपीडयन् कोऽत्र विशुद्धचित्तः ॥ ३८-६ ॥

कुर्यान्न किं लोभहतो मनुष्यो
युधिष्ठिराद्या अपि धर्मनिष्ठाः ।
पितामहं बन्धुजनान् गुरूंश्च
रणे निजघ्नुः खलु राज्यलोभात् ॥ ३८-७ ॥

कृष्णोपदिष्टो जनमेजयस्तु
शुद्धान्तरङ्गः पितरं मखेन ।
परीक्षितं पापविमुक्तमार्यं
विधाय ते प्रापयतिस्म लोकम् ॥ ३८-८ ॥

सदा सदाचाररतो विविक्ते
देशे निषण्णश्चरणाम्बुजे ते ।
ध्यायन्नजस्रं निजवासना यो
निर्मार्ष्टि स त्वन्मयतामुपैति ॥ ३८-९ ॥

ज्ञानं न भक्तिर्न तपो न योग-
-बुद्धिर्न मे चित्तजयोऽपि मातः ।
अन्धं तमोऽहं प्रविशामि मृत्योः
समुद्धरेमं वरदे नमस्ते ॥ ३८-१० ॥

एकोनचत्वारिंश दशकम् (३९) – मणिद्वीपनिवासिनी >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed