Yuddha Kanda Sarga 74 – युद्धकाण्ड चतुःसप्ततितमः सर्गः (७४)


॥ ओषधिपर्वतानयनम् ॥

तयोस्तदा सादितयो रणाग्रे
मुमोह सैन्यं हरिपुङ्गवानाम् ।
सुग्रीवनीलाङ्गदजाम्बवन्तो
न चापि किञ्चित्प्रतिपेदिरे ते ॥ १ ॥

ततो विषण्णं समवेक्ष्य सैन्यं
विभीषणो बुद्धिमतां वरिष्ठः ।
उवाच शाखामृगराजवीरा-
-नाश्वासयन्नप्रतिमैर्वचोभिः ॥ २ ॥

मा भैष्ट नास्त्यत्र विषादकालो
यदार्यपुत्रौ ह्यवशौ विषण्णौ ।
स्वयम्भुवो वाक्यमथोद्वहन्तौ
यत्सादिताविन्द्रजिदस्त्रजालैः ॥ ३ ॥

तस्मै तु दत्तं परमास्त्रमेतत्
स्वयम्भुवा ब्राह्मममोघवेगम् ।
तन्मानयन्तौ युधि राजपुत्रौ
निपातितौ कोऽत्र विषादकालः ॥ ४ ॥

ब्राह्ममस्त्रं ततो धीमान्मानयित्वा तु मारुतिः ।
विभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ॥ ५ ॥

एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् ।
यो यो धारयते प्राणांस्तं तमाश्वासयावहै ॥ ६ ॥

तावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ ।
उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ ७ ॥

भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः ।
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ॥ ८ ॥

पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम् ।
शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥ ९ ॥

सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ।
गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ॥ १० ॥

मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा ।
एतांश्चान्यांस्ततो वीरौ ददृशाते हतान्रणे ॥ ११ ॥

सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ।
अह्नः पञ्चमशेषेणः वल्लभेन स्वयम्भुवः ॥ १२ ॥

सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ।
मार्गते जाम्बवन्तं स हनुमान्सविभीषणः ॥ १३ ॥

स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् ।
प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ १४ ॥

दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत् ।
कच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ॥ १५ ॥

विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः ।
कृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् ॥ १६ ॥

नैरृतेन्द्र महावीर्य स्वरेण त्वाऽभिलक्षये ।
पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ १७ ॥

अञ्जना सुप्रजा येन मातरिश्वा च नैरृत ।
हनुमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित् ॥ १८ ॥

श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ।
आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ॥ १९ ॥

नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ।
आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ॥ २० ॥

विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् ।
शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम् ॥ २१ ॥

तस्मिन्जीवति वीरे तु हतमप्यहतं बलम् ।
हनुमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः ॥ २२ ॥

धरते मारुतिस्तात मारुतप्रतिमो यदि ।
वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ २३ ॥

ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् ।
गृह्य जाम्बवतः पादौ हनुमान्मारुतात्मजः ॥ २४ ॥

श्रुत्वा हनुमतो वाक्यं तथाऽपि व्यथितेन्द्रियः ।
पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥ २५ ॥

ततोऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ।
आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ॥ २६ ॥

नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।
त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ॥ २७ ॥

ऋक्षवानरवीराणामनीकानि प्रहर्षय ।
विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ २८ ॥

गत्वा परममध्वानमुपर्युपरि सागरम् ।
हिमवन्तं नगश्रेष्ठं हनुमन्गन्तुमर्हसि ॥ २९ ॥

ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् ।
कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥ ३० ॥

तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् ।
सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ॥ ३१ ॥

तस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः ।
द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ ३२ ॥

मृतसञ्जीवनीं चैव विशल्यकरणीमपि ।
सावर्ण्यकरणीं चैव सन्धानकरणीं तथा ॥ ३३ ॥

ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि ।
आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मज ॥ ३४ ॥

श्रुत्वा जाम्बवतो वाक्यं हनुमान्हरिपुङ्गवः ।
आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ ३५ ॥

स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तमम् ।
हनुमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥ ३६ ॥

हरिपादविनिर्भग्नो निषसाद स पर्वतः ।
न शशाक तदाऽऽत्मानं सोढुं भृशनिपीडितः ॥ ३७ ॥

तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ।
शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ॥ ३८ ॥

तस्मिन्सम्पीड्यमाने तु भग्नद्रुमशिलातले ।
न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ ३९ ॥

सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ।
लङ्का त्रासाकुला रात्रौ प्रनृत्तैवाभवत्तदा ॥ ४० ॥

पृथिवीधरसङ्काशो निपीड्य धरणीधरम् ।
पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥ ४१ ॥

आरुरोह तदा तस्माद्धरिर्मलयपर्वतम् ।
मेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ॥ ४२ ॥

नानाद्रुमलताकीर्णं विकासिकमलोत्पलम् ।
सेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ॥ ४३ ॥

विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् ।
नानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥ ४४ ॥

सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् ।
हनुमान्मेघसङ्काशो ववृधे मारुतात्मजः ॥ ४५ ॥

पद्भ्यां तु शैलमापीड्य बडबामुखवन्मुखम् ।
विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ ४६ ॥

तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् ।
लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥ ४७ ॥

नमस्कृत्वाऽथ रामाय मारुतिर्भीमविक्रमः ।
राघवार्थे परं कर्म समीहत परन्तपः ॥ ४८ ॥

स पुच्छमुद्यम्य भुजङ्गकल्पं
विनम्य पृष्ठं श्रवणे निकुञ्च्य ।
विवृत्य वक्त्रं बडबामुखाभ-
-मापुप्लुवे व्योमनि चण्डवेगः ॥ ४९ ॥

स वृक्षषण्डांस्तरसाऽऽजहार
शैलान् शिलाः प्राकृतवानरांश्च ।
बाहूरुवेगोद्धतसम्प्रणुन्ना-
-स्ते क्षीणवेगाः सलिले निपेतुः ॥ ५० ॥

स तौ प्रसार्योरगभोगकल्पौ
भूजौ भुजङ्गारिनिकाशवीर्यः ।
जगाम मेरुं नगराजमग्र्यं
दिशः प्रकर्षन्निव वायुसूनुः ॥ ५१ ॥

स सागरं घूर्णितवीचिमालं
तदा भृशं भ्रामितसर्वसत्त्वम् ।
समीक्षमाणः सहसा जगाम
चक्रं यथा विष्णुकराग्रमुक्तम् ॥ ५२ ॥

स पर्वतान्वृक्षगणान्सरांसि
नदीस्तटाकानि पुरोत्तमानि ।
स्फीतान्जनान्तानपि सम्प्रवीक्ष्य
जगाम वेगात्पितृतुल्यवेगः ॥ ५३ ॥

आदित्यपथमाश्रित्य जगाम स गतक्लमः ।
हनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ॥ ५४ ॥

जवेन महता युक्तो मारुतिर्मारुतो यथा ।
जगाम हरिशार्दूलो दिशः शब्देन पूरयन् ॥ ५५ ॥

स्मरन्जाम्बवतो वाक्यं मारुतिर्वातरंहसा ।
ददर्श सहसा चापि हिमवन्तं महाकपिः ॥ ५६ ॥

नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् ।
श्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः ।
शोभितं विविधैर्वृक्षैरगमत्पर्वतोत्तमम् ॥ ५७ ॥

स तं समासाद्य महानगेन्द्र-
-मतिप्रवृद्धोत्तमघोरशृङ्गम् ।
ददर्श पुण्यानि महाश्रमाणि
सुरर्षिसङ्घोत्तमसेवितानि ॥ ५८ ॥

स ब्रह्मकोशं रजतालयं च
शक्रालयं रुद्रशरप्रमोक्षम् ।
हयाननं ब्रह्मशिरश्च दीप्तं
ददर्श वैवस्वतकिङ्करांश्च ॥ ५९ ॥

वज्रालयं वैश्रवणालयं च
सूर्यप्रभं सूर्यनिबन्धनं च ।
ब्रह्मासनं शङ्करकार्मुकं च
ददर्श नाभिं च वसुन्धरायाः ॥ ६० ॥

कैलासमग्र्यं हिमवच्छिलां च
तथर्षभं काञ्चनशैलमग्र्यम् ।
सन्दीप्तसर्वौषधिसम्प्रदीप्तं
ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ ६१ ॥

स तं समीक्ष्यानलरश्मिदीप्तं
विसिष्मिये वासवदूतसूनुः ।
आवृत्य तं चौषधिपर्वतेन्द्रं
तत्रौषधीनां विचयं चकार ॥ ६२ ॥

स योजनसहस्राणि समतीत्य महाकपिः ।
दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ ६३ ॥

महौषध्यस्ततः सर्वास्तस्मिन्पर्वतसत्तमे ।
विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ ६४ ॥

स ता महात्मा हनुमानपश्यन्
चुकोप कोपाच्च भृशं ननाद ।
अमृष्यमाणोऽग्निनिकाशचक्षुः
महीधरेन्द्रं तमुवाच वाक्यम् ॥ ६५ ॥

किमेतदेवं सुविनिश्चितं ते
यद्राघवेनासि कृतानुकम्पः ।
पश्याद्य मद्बाहुबलाभिभूतो
विकीर्णमात्मानमथो नगेन्द्र ॥ ६६ ॥

स तस्य शृङ्गं सनगं सनागं
सकाञ्चनं धातुसहस्रजुष्टम् ।
विकीर्णकूटज्वलिताग्रसानुं
प्रगृह्य वेगात्सहसोन्ममाथ ॥ ६७ ॥

स तं समुत्पाट्य खमुत्पपात
वित्रास्य लोकान्ससुरासुरेन्द्रान् ।
संस्तूयमानः खचरैरनेकैः
जगाम वेगाद्गरुडोग्रवेगः ॥ ६८ ॥

स भास्कराध्वानमनुप्रपन्नः
तं भास्कराभं शिखरं प्रगृह्य ।
बभौ तदा भास्करसन्निकाशो
रवेः समीपे प्रतिभास्कराभः ॥ ६९ ॥

स तेन शैलेन भृशं रराज
शैलोपमो गन्धवहात्मजस्तु ।
सहस्रधारेण सपावकेन
चक्रेण खे विष्णुरिवार्पितेन ॥ ७० ॥

तं वानराः प्रेक्ष्य विनेदुरुच्चैः
स तानपि प्रेक्ष्य मुदा ननाद ।
तेषां समुद्घुष्टरवं निशम्य
लङ्कालया भीमतरं विनेदुः ॥ ७१ ॥

ततो महात्मा निपपात तस्मिन्
शैलोत्तमे वानरसैन्यमध्ये ।
हर्युत्तमेभ्यः शिरसाऽभिवाद्य
विभीषणं तत्र स सस्वजे च ॥ ७२ ॥

तावप्युभौ मानुषराजपुत्रौ
तं गन्धमाघ्राय महौषधीनाम् ।
बभूवतुस्तत्र तदा विशल्या-
-वुत्तस्थुरन्ये च हरिप्रवीराः ॥ ७३ ॥

सर्वे विशल्या विरुजः क्षणेन
हरिप्रवीरा निहताश्च ये स्युः ।
गन्धेन तासां प्रवरौषधीनां
सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ॥ ७४ ॥

यदाप्रभृति लङ्कायां युध्यन्ते कपिराक्षसाः ।
तदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ ७५ ॥

ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः ।
हताहतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ ७६ ॥

ततो हरिर्गन्धवहात्मजस्तु
तमोषधीशैलमुदग्रवीर्यः ।
निनाय वेगाद्धिमवन्तमेव
पुनश्च रामेण समाजगाम ॥ ७७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥

युद्धकाण्ड पञ्चसप्ततितमः सर्गः (७५) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed