Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अगस्त्य उवाच ।
एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
अतः परं श्रुणुष्वान्यत् सीतायाः स्तोत्रमुत्तमम् ॥ १ ॥
यस्मिनष्टोत्तरशतं सीता नामानि सन्ति हि ।
अष्टोत्तरशतं सीता नाम्नां स्तोत्रमनुत्तमम् ॥ २ ॥
ये पठन्ति नरास्त्वत्र तेषां च सफलो भवः ।
ते धन्या मानवा लोके ते वैकुण्ठं व्रजन्ति हि ॥ ३
न्यासः –
अस्य श्री सीतानामाष्टोत्तर शतमन्त्रस्य, अगस्त्य ऋषिः, अनुष्टुप् छन्दः, रमेति बीजं, मातुलुङ्गीति शक्तिः, पद्माक्षजेति कीलकं, अवनिजेत्यस्त्रं, जनकजेति कवचं , मूलकासुरमर्दिनीति परमो मन्त्रः, श्री सीतारामचन्द्र प्रीत्यर्थं सकल कामना सिद्ध्यर्थं जपे विनियोगः ॥
करन्यासः ।
ओं सीतायै अङ्गुष्ठाभ्यां नमः ।
ओं रमायै तर्जनीभ्यां नमः ।
ओं मातुलुङ्ग्यै मध्यमाभ्यां नमः ।
ओं पद्माक्षजायै अनामिकाभ्यां नमः ।
ओं अवनिजायै कनिष्ठिकाभ्यां नमः ।
ओं जनकजायै करतल करपृष्ठाभ्यां नमः ॥
अङ्गन्यासः ।
ओं सीतायै हृदयाय नमः ।
ओं रमायै शिरसे स्वाहा ।
ओं मातुलुङ्ग्यै शिखायै वषट् ।
ओं पद्माक्षजायै नेत्रत्रयाय वौषट् ।
ओं जनकात्मजायै अस्त्राय फट् ।
ओं मूलकासुरमर्दिन्यै इति दिग्बन्धः ॥
ध्यानम् ।
वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना
या विप्राधिपयानरम्यनयना या विप्रपालानना ।
विद्युत्पुञ्जविराजमानवसना भक्तार्तिसङ्खण्डना
श्रीमद्राघवपादपद्मयुगल न्यस्तेक्षणा साऽवतु ॥
स्तोत्रम् ।
श्रीसीता जानकी देवी वैदेही राघवप्रिया ।
रमाऽवनिसुता रामा राक्षसान्तप्रकारिणी ॥ १ ॥
रत्नगुप्ता मातुलुङ्गी मैथिली भक्ततोषदा ।
पद्माक्षजा कञ्जनेत्रा स्मितास्या नूपुरस्वना ॥ २ ॥
वैकुण्ठनिलया मा श्रीर्मुक्तिदा कामपूरणी ।
नृपात्मजा हेमवर्णा मृदुलाङ्गी सुभाषिणी ॥ ३ ॥
कुशाम्बिका दिव्यदा च लवमाता मनोहरा ।
हनुमद्वन्दितपदा मुग्धा केयूरधारिणी ॥ ४ ॥
अशोकवनमध्यस्था रावणादिकमोहिनी ।
विमानसंस्थिता सुभ्रूः सुकेशी रशनान्विता ॥ ५ ॥
रजोरूपा सत्त्वरूपा तामसी वह्निवसिनी ।
हेममृगासक्तचित्ता वाल्मीक्याश्रमवासिनी ॥ ६ ॥
पतिव्रता महामाया पीतकौशेयवासिनी ।
मृगनेत्रा च बिम्बोष्ठी धनुर्विद्याविशारदा ॥ ७ ॥
सौम्यरूपा दशरथस्नुषा चामरवीजिता ।
सुमेधादुहिता दिव्यरूपा त्रैलोक्यपालिनी ॥ ८ ॥
अन्नपूर्णा महालक्ष्मीर्धीर्लज्जा च सरस्वती ।
शान्तिः पुष्टिः क्षमा गौरी प्रभाऽयोध्यानिवासिनी ॥ ९ ॥
वसन्तशीतला गौरी स्नानसन्तुष्टमानसा ।
रमानामभद्रसंस्था हेमकुम्भपयोधरा ॥ १० ॥
सुरार्चिता धृतिः कान्तिः स्मृतिर्मेधा विभावरी ।
लघूदरा वरारोहा हेमकङ्कणमण्डिता ॥ ११ ॥
द्विजपत्न्यर्पितनिजभूषा राघवतोषिणी ।
श्रीरामसेवानिरता रत्नताटङ्कधारिणी ॥ १२ ॥
रामवामाङ्कसंस्था च रामचन्द्रैकरञ्जनी ।
सरयूजलसङ्क्रीडाकारिणी राममोहिनी ॥ १३ ॥
सुवर्णतुलिता पुण्या पुण्यकीर्तिः कलावती ।
कलकण्ठा कम्बुकण्ठा रम्भोरुर्गजगामिनी ॥ १४ ॥
रामार्पितमना रामवन्दिता रामवल्लभा ।
श्रीरामपदचिह्नाङ्का रामरामेतिभाषिणी ॥ १५ ॥
रामपर्यङ्कशयना रामाङ्घ्रिक्षालिणी वरा ।
कामधेन्वन्नसन्तुष्टा मातुलुङ्गकरेधृता ॥ १६ ॥
दिव्यचन्दनसंस्था श्रीर्मूलकासुरमर्दिनी ।
एवमष्टोत्तरशतं सीतानाम्नां सुपुण्यदम् ॥ १७ ॥
ये पठन्ति नरा भूम्यां ते धन्याः स्वर्गगामिनः ।
अष्टोत्तरशतं नाम्नां सीतायाः स्तोत्रमुत्तमम् ॥ १८ ॥
जपनीयं प्रयत्नेन सर्वदा भक्तिपूर्वकम् ।
सन्ति स्तोत्राण्यनेकानि पुण्यदानि महान्ति च ॥ १९ ॥
नानेन सदृशानीह तानि सर्वाणि भूसुर ।
स्तोत्राणामुत्तमं चेदं भुक्तिमुक्तिप्रदं नृणाम् ॥ २० ॥
एवं सुतीक्ष्ण ते प्रोक्तमष्टोत्तरशतं शुभम् ।
सीतानाम्नां पुण्यदं च श्रवणान्मङ्गलप्रदम् ॥ २१ ॥
नरैः प्रातः समुत्थाय पठितव्यं प्रयत्नतः ।
सीतापूजनकालेऽपि सर्ववाञ्छितदायकम् ॥ २२ ॥
इति श्रीमदानन्दरामायणे सीताष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री राम स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

