Sri Rahu Stotram 2 – श्री राहु स्तोत्रम् २


अस्य श्री राहुस्तोत्रमहामन्त्रस्य वामदेव ऋषिः, अनुष्टुप् छन्दः, राहुर्देवता, श्री राहुग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ।

कश्यप उवाच ।
शृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् ।
सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १ ॥

सर्वसम्पत्करं चैव गुह्यमेतदनुत्तमम् ।
आदरेण प्रवक्ष्यामि श्रूयतामवधानतः ॥ २ ॥

राहुः सूर्यरिपुश्चैव विषज्वाली भयानकः ।
सुधांशुवैरिः श्यामात्मा विष्णुचक्राहितो बली ॥ ३ ॥

भुजगेशस्तीक्ष्णदंष्ट्रः क्रूरकर्मा ग्रहाधिपः ।
द्वादशैतानि नामानि नित्यं यो नियतः पठेत् ॥ ४ ॥

जप्त्वा तु प्रतिमां चैव सीसजां माषसंस्थिताम् ।
नीलैर्गन्धाक्षतैः पुष्पैर्भक्त्या सम्पूज्य यत्नतः ॥ ५ ॥

विधिना वह्निमादाय दूर्वान्नाज्याहुतीः क्रमात् ।
तन्मन्त्रेणैव जुहुयाद्यावदष्टोत्तरं शतम् ॥ ६ ॥

हुत्वैवं भक्तिमान् राहुं प्रार्थयेद्ग्रहनायकम् ।
सर्वापद्विनिवृत्यर्थं प्राञ्जलिः प्रणतो नरः ॥ ७ ॥

राहो करालवदन रविचन्द्रभयङ्कर ।
तमोरूप नमस्तुभ्यं प्रसादं कुरु सर्वदा ॥ ८ ॥

सिंहिकासुत सूर्यारे सिद्धगन्धर्वपूजित ।
सिंहवाह नमस्तुभ्यं सर्वान् रोगान् निवारय ॥ ९ ॥

कृपाणफलकाहस्त त्रिशूलिन् वरदायक ।
करालातिकरालास्य गदान्मे नाशयाखिलान् ॥ १० ॥

स्वर्भानो सर्पवदन सुधाकरविमर्दन ।
सुरासुरवरस्तुत्य सर्वदा त्वं प्रसीद मे ॥ ११ ॥

इति सम्प्रार्थितो राहुः दुष्टस्थानगतोऽपि वा ।
सुप्रीतो जायते तस्य सर्वान् रोगान् विनाशयेत् ॥ १२ ॥

विषान्न जायते भीतिः महारोगस्य का कथा ।
सर्वान् कामानवाप्नोति नष्टं राज्यमवाप्नुयात् ॥ १३ ॥

एवं पठेदनुदिनं स्तवराजमेतं
मर्त्यः प्रसन्नहृदयो विजितेन्द्रियो यः ।
आरोग्यमायुरतुलं लभते सुपुत्रान्
सर्वेग्रहा विषमगाः सुरतिप्रसन्नाः ॥ १४ ॥

इति श्री राहु स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed